सामग्रीं त्यजन्तु

संसृष्टिः

लक्षणम्

सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः । (का०प्र० १०)
मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते । (सा०द० १०)

एकस्मिन् पद्ये परस्परं निरपेक्षाणाम् अनेकेषाम् अलङ्काराणां स्फुटा स्थितिः – तिलतण्डुलन्यायः ।

उदाहरणानि

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ (मृच्छकटिकम् १)
पूर्वार्धे उत्प्रेक्षाद्वयम्, उत्तरार्धे उपमा – परस्परनिरपेक्षाः ।

देव! त्वन्मुखपद्मेन जितं चन्द्रमसं प्रति ।
भ्रमन्ति कीर्तयस्त्वदीयाः कुमुदाकराः ॥
"मुखपद्मम्" इति रूपकम्, उत्तरार्धे उपमा रूपकं वा – परस्परनिरपेक्षौ ।

सन्दर्भाः