सामग्रीं त्यजन्तु

समुच्चयः

लक्षणम्

तत्सिद्धिहेतावेकस्मिन्यत्र तत्करं परम् । समुच्चयोऽसौ ... (का०प्र० १०)
तत्सिद्ध्यै यौगपद्येन यत्र स्युर्बहवः क्रियाः ।
यद्वा गुणक्रियादीनां युगपद्भासनं भवेत् ॥ (सा०द० १०)

एकस्य कार्यस्य सिद्धौ एकस्मिन् कारणे पर्याप्ते सति अपि अन्यानि कारणानि अपि वर्ण्यन्ते (खलेकपोतन्यायः); अथवा अनेकेषां गुणक्रियाणां युगपत् स्थितिः ।

उदाहरणानि

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ (भर्तृहरेः नीतिशतकम्)
एकैकम् अपि दुःखाय पर्याप्तम्, सप्त समुच्चिताः ।

सन्दर्भाः