सामग्रीं त्यजन्तु

मालोपमा

लक्षणम्

मालोपमा यदेकस्योपमानं बहु दृश्यते । (सा०द० १०)

एकस्य उपमेयस्य बहूनि उपमानानि मालारूपेण उच्यन्ते ।

उदाहरणानि

सूर्य इव प्रतापेन, चन्द्र इव आह्लादकत्वेन, समुद्र इव गाम्भीर्येण राजा एषः विभाति ।

वारिजेनेव सरसी शशिनेव निशीथिनी ।
यौवनेनेव वनिता नयेन श्रीर्मनोहरा ॥ (सा०द० १०)

सन्दर्भाः