व्यतिरेकः¶
लक्षणम्
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । (का०प्र० १०)
आधिक्यमुपमेयस्योपमानान्न्यूनताथवा । व्यतिरेकः ... (सा०द० १०)
व्यतिरेको विशेषश्चेदुपमानोपमेययोः । (कु०)
सादृश्ये सत्यपि उपमानात् उपमेयस्य आधिक्यं (क्वचित् न्यूनता अपि) वर्ण्यते – "स इव, किन्तु ततः अधिकः" ।
उदाहरणानि
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः । (कु०)
सज्जनाः पर्वतवत् उन्नताः, किन्तु पर्वतेभ्यः अधिकं – स्वभावेन मृदवः ।
लौकिकानां हि साधूनामर्थं वागनुवर्तते ।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ (उ०रा० १।१०)
लौकिकसाधुभ्यः आद्यर्षीणाम् आधिक्यम् ।
सन्दर्भाः¶
- स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः — ध्वन्यालोकः — प्रथम उद्योतः — मङ्गलाचरणम्
- स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वल… — रसगङ्गाधरः — प्रथममाननम् — मङ्गलाचरणम्