कादम्बरी — कथामुखम् (पूर्वभागः) — विदिशावर्णनम् (शूद्रकयौवनकालवर्णनं च)
मुखपृष्ठम् · ⬆ कथामुखम् (पूर्वभागः) · ← · →
विदिशावर्णनम् (शूद्रकयौवनकालवर्णनं च)¶
तस्य च राज्ञः कलिकाल-भयपुञ्जीभूत-कृतयुगानुकारिणी, त्रिभुवनप्रसवभूमिरिव विस्तीर्णा, मज्जन्मालवविलासिनी-कुचतटास्फालन-जर्जरितोर्मिमालया जलावगाहनावतारितजयकुञ्जरकुम्भसिन्दूरसंध्यायमान-सलिलया उन्मदकलहंसकुल-कोलाहलमुखरीकृतकूलया वेत्रवत्या परिगता विदिशाभिधाना नगरी राजधान्यासीत्।
[(ईदृश्या ...) नद्या परिगता (ईदृशी ...) नगरी राजधानी आसीत्]
- कलिकाल-भयपुञ्जीभूत-कृतयुगानुकारिणी = कलिकालात् (चरमयुगसमयात्) यत् भयं (भीतिः) तस्मात् पुञ्जीभूतं (समूहीभूतम्) यत् कृतयुगं (सत्ययुगं, प्रथमयुगम्) तत् अनुकरोतीति तच्छील पुण्यमयीति भावः।
- मज्जन्मालवविलासिनीकुचतटास्फालनजर्जरितोर्मिमालया = मज्जन्त्यः (स्नान्त्यः) या मालवविलासिन्यः (अवन्तिकामिन्यः), तासां कुचतटानि (पयोधरस्थलानि, वक्षोजस्थलानि, स्तनाग्रभागा इति भावः), तेषाम् आस्फालनं (आघातः, ताडनम्) तेन जर्जरिताः (क्षीणीकृताः, क्षीणतामुपगताः, व्याहताः) ऊर्मिमालाः (तरङ्गपङ्क्तयः) यस्याः सा।
- जलावगाहनावतारितजयकुञ्जरकुम्भसिन्दूरसंध्यायमानसलिलया = जले (वेत्रवतीसलिले) अवगाहनं (मज्जनम्) तदर्थम् अवतारिताः (आनीताः), तादृशा ये जयकुञ्जराः (विजयशीला हस्तिनः), तेषां कुम्भाः (मस्तकपिण्डाः) तेषु विद्यमानं यत् सिन्दूरं (नागसम्भवम्) तेन सन्ध्यायमानं (सन्ध्यावदाचरितम्, आरक्तमिति भावः) तादृशं सलिलं (जलम्) यस्याः सा।
- उन्मदकलहंसकुलकोलाहलमुखरीकृतकूलया = उन्मदाः (उत्कटमदाः) ये कलहंसाः (कादम्बाः) तेषां कुलम् (समूहः), तस्य यः कोलाहलः (अस्पष्टध्वनिः, कलरव इति भावः) तेन मुखरितम् (प्रतिध्वनियुक्तम्) कूलम् (तटम्,) यस्याः सा।
- परिगता = परिवेष्टिता [वेत्रवत्या परिगता नगरी]
अलङ्कारः
- कलिकालेत्यादिविशेषणे पुञ्जीभूतत्वोत्प्रेक्षणादुत्प्रेक्षा ।
- आर्थी उपमा
- त्रिभुवनेत्यादिविशेषणेऽपि उत्प्रेक्षा
- कुचतटानाम् आस्फालेन ऊर्मिमालायाः जर्जरित्त्वस्यासम्बन्धेऽपि तस्य सम्बन्धप्रतिपादनादतिशयोक्तिः
- सन्ध्यायमानयेत्यादि-क्यङन्ते व्यङ्ग्योपमा चेत्येतेषां परस्परं नैरपेक्ष्येण स्थित्या संसृष्टिरलंकारः ।
स तस्याञ्च विजिताशेषभुवनमण्डलतया* विगतराज्यचिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपाल-मौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचित-नीतिशास्त्रनिर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः, समानवयोविद्यालंकारैरनेकमूर्धाभिषिक्त-पार्थिवकुलोद्गतैरखिलकलाकलापालोचन-कठोरमतिभिरतिप्रगल्भैः कालविद्भिः प्रभावाऽनुरक्तहृदयैः अग्राम्योपहासकुशलैरिङ्गिताकारवेदिभिः काव्यनाटकाख्यानकाख्ययिका-लेख्यव्याख्यानादि-क्रियानिपुणैरतिकठिन-पीवरस्कन्धोरुबाहुभिरसकृदवदलितसमदरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकरसैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास।
*अवजिताशेषभुवनमण्डलतया (अवजित=विजित)
स तस्याञ्च विजिताशेषभुवनमण्डलतया विगतराज्यचिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलो वलयम् इव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुम् अपि प्रज्ञया उपहसद्भिः अनेककुलक्रमागतैः असकृद् आलोचितनीतिशास्त्रनिर्मलमनोभिः अलुब्धैः स्निग्धैः प्रबुद्धैः च आमात्यैः परिवृतः, समानवयोविद्यालंकारैः अनेकमूर्धाभिषिक्तपार्थिवकुलोद्गतैः अखिलकलाकलापालोचनकठोरमतिभिः अतिप्रगल्भैः कालविद्भिः प्रभावाऽनुरक्तहृदयैः अग्राम्योपहासकुशलैः इङ्गिताकारवेदिभिः काव्यनाटकाख्यानकाख्ययिका-लेख्यव्याख्यानादि-क्रियानिपुणैः अतिकठिनपीवरस्कन्धोरुबाहुभिः असकृदवदलितसमदरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकरसैरपि विनयव्यवहारिभिः आत्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखम् अतिचिरम् उवास।
[(ईदृशः ...) स (ईदृशैः ... साकं/परिवेष्टितः/सह) प्रथमे वयसि सुखम् उवास ।]
* द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलः =
द्वीपान्तरागतानेकभूमिपालानां मौलिमालाभिः (मुकुटस्रग्भिः) लालितं (उपसेवितं) चरणयुगलं यस्य स ।
* अनेकमूर्धाभिषिक्तपार्थिवकुलोद्गतैः = अनेके मूर्द्धाभिषिक्ताः (क्षत्रियाः) ये पार्थिवाः ( राजानः), तेषां कुलानि ( वंशाः), तेभ्य उद्गताः (उत्पन्नाः), तैः ।
"मूर्द्धाऽभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्" इत्यमरः । "राज्ञि राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः" इत्यप्यमरः ।
* अखिलकलाकलापालोचनकठोरमतिभिः = अखिलकलानां कलापाः (समुदायाः, समूहः), तेषाम् आलोचनं (विमर्शनम्),
तेन कठोरा (दृढा, प्रौढा) मतिः येषां तैः ।
* अतिप्रगल्भैः = अतिशयप्रतिभान्वितैः ।
* कालविद्भिः = उचितावसरज्ञैः ।
* प्रभावानुरक्तहृदयैः = प्रभावः (माहात्म्यम्, सामर्थ्यं वा) तेन अनुरक्तानि (आसक्तानि) हृदयानि (चेतांसि) येषां तैः ।
* अग्राम्योपहासकुशलैः = अग्राम्यः = नागरिकः (ग्रामे भवः ग्राम्यः),
य उपहासः (नर्मवचोविलासः, मनोरञ्जनार्थप्रतिपादकशब्दविशेषप्रयोगः ), तस्मिन् कुशलाः, तैः ।
* असकृदवदलितसमदरिपुगजघटापीठबन्धैः = असकृत् (वारंवारम्) अवदलिताः (मर्दिताः) समदाः (मदयुक्ताः)
रिपुगजघटाः (शत्रुहस्तिघटनाः, शत्रुकरिसमूहः) तासां पीठबन्धाः (पृष्ठस्थलभागाः) यैः तैः ।
"करिणां घटना घटा" इत्यमरः ।
तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि रूपवतोऽपि संतानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीसत् ।
- स्त्रैणम् = स्त्रीणां समूहः ।
- तृणमिव लघुवृत्ति (स्त्रैणम्) आकलयतः (सम्भावयतः) ...तस्य ।
सत्यपि रूपविलासोपहसितरतिविभ्रमे लावण्यवति विनयवत्यन्वयवति हृदयहारिणि चावरोधजने, स कदाचिदनवरतदोलायमानरत्नवलयो घर्घरिकास्फालनप्रकम्पझणझणायमानमणिकर्णपूरः स्वयमारब्धमृदङ्गवाद्यः संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासारशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदाचिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदालेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिवसमनैषीत्। यथैव च दिवसमेवमारब्धविविधक्रीडापरिहास चतुरैः सुहृद्भिरुपेतो निशामनैषीत्।
कदाचिद् अक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिः वनितासंभोगसुखपराङ्मुखः
- रूपविलासोपहसितरतिविभ्रमे = रूपविलासैः उपहसिताः (हास्यविषयीकृताः), रतेः (कामप्रियायाः) विभ्रमाः (शृङ्गारचेष्टाः ) येन ।
- विनयवति = अभ्युत्थानादिशीलयुक्ते
- अन्वयवति = महाकुलसम्पत्रे
- अवरोधजने = अन्तःपुरस्थस्त्रीसमूहे (अवरोधः = राजान्तःपुरम्) ।