सामग्रीं त्यजन्तु

कादम्बरी — कथामुखम् (पूर्वभागः) — प्रतीहारीवर्णनम्

प्रतीहारीवर्णनम्

एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि किञ्चिन्मुक्तपाटलिम्नि भगवति सहस्रमरीचिमालिनि राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण सन्निहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरलचन्दनालेपनध्वलितस्तनतटोन्मज्जदैरावतकुम्भमण्डलेव मन्दाकिनी, चूडामणिसङ्क्रान्तप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी प्रतीहारी समुपसृत्य क्षितितलनिहितजानुकरकमला सविनयमब्रवीत् – देव, द्वारस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमखहुंकारनिपातिता राजलक्ष्मीर्दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति – "सकलभुवनतलरत्नानामुदधिरिवैकभाजनं देवः । विहंगमश्चायमाश्चर्यभूतो निखिलभुवनतलरत्नमिति कृत्वा देवपादमूलमादायागताहमिच्छामि देवदर्शनसुखमनुभवितुम्" इति । एतदाकर्ण्य "देवः प्रमाणम्" इत्युक्त्वा विरराम ।

उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामालोक्य मुखानि "को दोषः, प्रवेश्यताम्" इत्यादिदेश ।

एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि किञ्चिन्मुक्तपाटलिम्नि भगवति सहस्रमरीचिमालिनि राजानम् आस्थानमण्डपगतम् अङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण सन्निहितविषधरा इव चन्दनलता भीषणरमणीयाकृतिः, अविरलचन्दनालेपनध्वलितस्तनतटा उन्मज्जदैरावतकुम्भमण्डला इव मन्दाकिनी, चूडामणिसङ्क्रान्तप्रतिबिम्बच्छलेन राजाज्ञा इव मूर्तिमती राजभिः शिरोभिः उह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारा इव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवता इव विग्रहिणी प्रतीहारी समुपसृत्य क्षितितल-निहितजानुकरकमला सविनयमब्रवीत् – देव, द्वारस्थिता सुरलोकमारोहतः त्रिशङ्कोः इव कुपित-शतमखहुंकार-निपातिता राजलक्ष्मीः दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकम् आदाय देवं विज्ञापयति – "सकलभुवनतलरत्नानाम् उदधिः इव एकभाजनं देवः । विहंगमश्च अयम् आश्चर्यभूतो निखिलभुवनतलरत्नमिति कृत्वा देवपादमूलमादाय आगताहमिच्छामि देवदर्शनसुखमनुभवितुम्" इति* । एतदाकर्ण्य "देवः प्रमाणम्" इत्युक्त्वा विरराम ।


  • किञ्चिन्मुक्तपाटलिम्नि = किञ्चित् (स्तोकं यथा तथा) मुक्तः (त्यक्तः) पाटलिमा (श्वेतरक्तभावः) येन तस्मिन्सति ।
  • आस्थानमण्डपगतं = सभाभवनप्राप्तं ।
  • कौक्षेयकेण = खङ्गेन ।
    "कौक्षेयको मण्डलाऽग्रः करवालः कृपाणवत्" इत्यमरः ।
  • चूडामणिसङ्क्रान्तप्रतिबिम्बच्छलेन = चूडामणिषु (राजमस्तकस्थितमुकुटमणिषु) संक्रान्तः (पतितः) यः प्रतिबिम्बः (प्रतिच्छाया) तस्य छलेन (व्याजेन) ।
  • विग्रहिणी = शरीरधारिणी ।
  • क्षितितलनिहितजानुकरकमला = क्षितितले निहितं जानू करौ एव कमले यया सा ।
  • एकभाजनम् = एकमात्राश्रयः ।