सामग्रीं त्यजन्तु

कादम्बरी — कथामुखम् (पूर्वभागः) — शूद्रकवर्णनम्

शूद्रकवर्णनम्

आसीदशेषनरपतिशिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, चक्रवर्तिलक्षणोपेतः, चक्रधर इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसोपजायमानोदयः, मेरुरिव सकलोपजीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानार्द्रीकृतकरः, कर्ता महाश्चर्याणाम्, आहर्ता क्रतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगमः काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्तयिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरैयः साहसिकानाम्, अग्रणीर्विदग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितसकलारातिकुलाचलो राजा शूद्रको नाम ।

  • अशेषनरपतिशिरःसमभ्यर्चितशासनः = अशेषाः (समस्ताः) ये नरपतयः (राजानः), तेषां शिरोभिः (मस्तकैः), समभ्यर्चितं (संपूजितं, सादरं गृहीतमिति भावः), शासनम् (आज्ञा) यस्य सः ।
  • पाकशासन = पाकनामकं दैत्यं जघान, ततस्तस्य "पाकशासन" पदेन प्रसिद्धिः ।
  • चतुरुदधिमालामेखलायाः भुवः – अत्र भुवि शूद्रके च नायिकानायक-व्यवहारसमारोपात्समासोक्तिरलङ्कारः ।
  • प्रतापानुरागावनतसमस्तसामन्तचक्रः = प्रतापः (कोशदण्डजं तेजः) अनुरागः (प्रेम), ताभ्याम् अवनतं (प्रणतम्), समस्तं (संपूर्णाम्) सामन्तचक्रं (मण्डलेश्वरसमूहः) यस्य सः । यथा लोहचक्रम् अग्नि - तापादवनतं भवति तथैव शूद्रकस्य प्रतापादनुरागाच्च सामन्तमण्डलमवनतमिति ध्वनिः ।
  • चक्रधर इव = धरतीति धरः (पचाद्यच्), चक्रस्य धरः । [चक्रं धरतीति असाधु, कर्मण्यण् चक्रधार इति ।]
  • करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः = करकमलयोः (पाणिपद्मयोः) उपलक्ष्यमाणानि (दृश्यमानानि) शङ्खचक्रलाञ्छनानि (शङ्खचक्राकाररेखाचिह्नानि) यस्य सः । [पूर्णोपमा वृत्यनुप्रासश्च]
  • कमलंयोनिः इव विमानीकृतराजहंसमण्डलः = कमलं (विष्णुनाभिपद्मम्) योनिः (कारणम्) यस्य सः, ब्रह्मा इवेति भावः ।
    ब्रह्मा – विमानीकृतं (व्योमयानीकृतम्) राजहंसानां (हंसविशेषाणां) मण्डलं (समूहः) येन सः ।
    शूद्रकः - विमानीकृतं (भग्नदर्पीकृतम्), राजहंसानां (श्रेष्ठभूपानाम्) मण्डलं (समूहः) येन सः । पूर्णोपमा ।
  • जलधिः इव लक्ष्मीप्रसूतिः
    समुद्रः - लक्ष्म्याः (पद्माया) प्रसूतिः (उत्पत्तिस्थानम्)।
    शूद्रकः - लक्ष्म्याः (सम्पत्तेः शोभाया वा) प्रसूतिः (प्रसूतिस्थानम्)
  • गङ्गाप्रवाहः इव भगीरथपथप्रवृत्तः = भगीरथस्य (भगीरथनामकसूर्यवंशोत्पन्नराजविशेषस्य) पन्थाः (मार्गः), तत्र प्रवृत्तः (लग्नः) । [धैर्यपूर्वकं कार्याऽनुष्ठातेति भावः]
  • प्रतिदिवसोपजायमानोदयः = प्रतिदिवसम् (प्रतिदिनम्) उपजायमानः (उत्पद्यमानः) उदयः (राजपक्षे अभ्युदयः) यस्य सः ।
  • मेरुरिव सकलोपजीव्यमानपादच्छायः = सकलैः (समस्तैः) उपजीव्यमाना (आश्रीयमाणा, सेव्यमाना वा) पादानां (प्रत्यन्तपर्वतानां, चरणयोः वा) छाया (आतपाऽभावः, कान्तिः वा) यस्य सः ।
  • दिग्गज इव अनवरतप्रवृत्तदानार्द्रीकृतकरः = अनवरतं (निरन्तरं यथा तथा) प्रवृत्तं (सञ्जातम्) यत् दानं (मदजलं, धनादिवितरणम् वा) तेन आर्द्रीकृतः (क्लिन्नीकृतः) करः (शुण्डादण्डः, हस्तः वा) यस्य सः ।
    दानं गजमदे त्यागे इति, करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः इति च मेदिनी ।
  • कुलभवनं = वंशपरम्पराऽऽधारस्थानम् ।
  • विदग्धः = पण्डितः ।
  • उत्पातकेतुः = अनिष्टसूचको धूमकेतुः ।
  • प्रत्यादेशः = निराकर्ता ।
  • विनता = विनता नाम गरुणजननी, प्रणतः जनोऽपि विनतः ।
  • वैन्य इव चापकोटिसमुत्सारितसकलारातिकुलाचलः = वैन्यः (वेनस्य अपत्यं पुमान्) ।
    वैन्यः – चापस्य (धनुषः) कोटिः (अग्रभागः, प्रान्तः), ततः समुत्सारिताः (दूरीकृताः) सकलाऽरातयः (समस्तशत्रवः) कुलाचला इव (महेन्द्रादिकुलपर्वता इव) येन सः ।
    शूद्रकः – चापानां (धनुषाम्) कोटिः (कोटिमितसंख्या) तया समुत्सारिता (निराकृताः) सकलाः (समस्ताः) अरातयः (शत्रवः) एव कुलाचलाः (कुलपर्वताः) येन सः ।

नाम्नैव यो निर्भिन्नारातिहृदयो विरचितनरसिंहरूपाडम्बरम्, एकविक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितभुवनत्रयं च जहासेव वासुदेवम् ।

  • विक्रमाणां = पादविक्षेपाणाम् ।

अतिचिरकाललग्नमतिक्रान्तकुनृपतिसहस्रसंपर्ककलङ्कमिव क्षालयन्ती यस्य विमले कृपाणधाराजले चिरमुवास राजलक्ष्मीः ।

  • अतिचिरकाललग्नम् = अतिचिरकालः (भूयान् अतीतः समयः) तेन लग्नम् (आत्मनि लिप्तम्) ।
  • अतिक्रान्तकुनुपतिसहस्रसम्पर्ककलङ्कम् = अतिक्रान्ताः (व्यतीताः) ये कुत्सिताः नृपतयः (कदर्याः अवद्याः नरपतयः) तेषां सहस्रम् (समूहः), तस्य सम्पर्केण (सम्बन्धेन) यः कलङ्कः (अपवादः) तं तथोक्तम् ।

यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य ।

  • प्रकटितविश्वरूपाऽऽकृतेः = प्रकटिता (प्रकाशिता) विश्वरूपस्य (समस्तरूपस्य, विराटरूपस्येति भावः) आकृतिः (आकारः) येन तस्य ।

यस्य च मदकलकरिकुम्भपीठपाटनमाचरता लग्नस्थूलमुक्ताफलेन दृढमुष्टिनिष्पीडननिष्ठ्यूतधाराजलबिन्दुदन्तुरेण कृपाणेनाकृष्यमाणा, सुभटोरःकपाटविघटितकवचसहस्रान्धकारमध्यवर्तिनी करिकरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः ।

  • मदकलकरिकुम्भपीठपाटनं = मदेन (दानजलेन) कलाः (मनोहराः) ये करिणः (वैरिहस्तिनः) तेषां कुम्भपीठानि (मस्तकपिण्डफलकानि), तेषां पाटनम् (विदारणम्) ।
  • लग्नस्थूलमुक्ताफलेन = लग्नानि (प्रबद्धानि, खचितानि) स्थूलानि (पीवराणि) मुक्ताफलानि (मौक्तिकानि) यस्मिन्, तेन (कृपाणेन) ।
  • दृढमुष्टिनिष्पीडननिष्ठ्यूतधाराजलबिन्दुदन्तुरेण = दृढः (सुबद्धः) चासौ मुष्टिः, तेन यत् निष्पीडनम् (सम्यग्धारणम्) तेन निष्ठ्यूता (निर्गता) इव धारा (तीक्ष्णाग्रभागाः) एव जलबिन्दवः (जलकणांशाः) तैः दन्तुरेण (उच्चावचेन) ।
    [अत्र दृढमुष्टिनिष्पीडनं नाम प्रहारोऽपि प्रबलो भवति, तस्मात् एतेषां युद्धगजानां अथवा रिपुणां रुधिरं मदः वा सीकर इव दृश्यते न तु साक्षाद् धारा इव, जलकणाः एव धारा अत्र]
  • आकृष्यमाणा = हठात् समन्ताद् गृह्यमाणा ।
  • सुभटोरःकपाटविघटितकवचसहस्रान्धकारमध्यवर्तिनी (राजलक्ष्मीः)
    सुष्ठु भटाः (वीराः) तेषाम् उरांसि (वक्षःस्थलानि) एव कपाटानि (द्वाराणि) तेभ्यः विघटितानि (वियोजितानि) यानि कवचानां सहस्राणि (लौहवर्मव्यूहाः) तानि एव अन्धकाराः (तिमिराणि) तेषां मध्यवर्तिनी (अन्तर्विद्यमाना, अन्तःस्थिता) ।
  • करिकरटगलितमदजलासारदुर्दिनासु (समरनिशासु) = करिणां (हस्तिनाम्) करटाः (कपोलाः) तेभ्यो गलितं (प्रस्रुतम्, निःसृतम्) यत् मदजलं (मदवारि, दानवारि) तस्य आसारः (धारासम्पातः, प्रवाहः), तेन दुर्दिनं (मेघजं तमः) यासु, तासु ।

यस्य च हृदयस्थितानपि पतीन् दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनितदाहो दिवानिशं जज्वाल।

  • दिधक्षुः = दिह्+सन्+उ ।
  • जज्वाल = ज्वल् + लिट् । अकर्मकधातुः । अर्न्तर्दाहः जज्वाल, पतीन् दिधक्षुरिव ।

यस्मिंश्च राजनि जितजगति पालयति महीं चित्रकर्मसु वर्णसंकराः, रतेषु केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु विप्रलम्भाः, छत्रेषु कनकदण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः, चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गः, शशिकृपाणकवचेषु कलङ्काः रतिकलहेषु दूतप्रेषणानि, सार्यक्षेषु शून्यगृहा, न प्रजानामासन्।

यस्य च परलोकाद्भयम्, अन्तःपुरिकाकुन्तलेषु भङ्गः, नूपुरेषु मुखरता, विवाहेषु अनवरतमखाग्निधूमेनाश्रुपातः, तुरङ्गेषु कशाभिघातः, मकरध्वजे चापध्वनिरभूत्।

  • रतेषु = कामक्रीडासु (रतिषु) ।
  • सार्यक्षेषु = सारिः (अक्षक्रीडाफलकं) अक्षाः तेषु ।
  • अन्तःपुरिकाकुन्तलेषु = अन्तःपुरं (शुद्धान्तः) अस्ति वासाय यासां, तासां कुन्तलेषु ।

अलङ्कारविषयाः

  • अपरः पाकशासन इव इत्यत्र उत्प्रेक्षालङ्कारः ।
  • शासनपदावृत्त्या यमकालङ्कारः ।
  • चक्रधर इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छन इत्यारभ्य दिग्गज इव अनवरतप्रवृत्तदानार्दीकृतकरः इति पर्यन्तेषु वाक्येषु पूर्णोपमालङ्कारः ।
  • कर्ता महाश्चर्याणाम् इत्यारभ्य अग्रणीः विदग्धानाम् इत्यन्तेषु एकस्य शूद्रकस्य विषयभेदेन बहुविधोल्लेखात् उल्लेखालङ्कारः ।
  • वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटि... कुलाचलः इत्युभयत्र पूर्णोपमालङ्कारः ।
  • शूद्रकः वासुदेवं जहास इव इत्यत्र क्रियोत्प्रेक्षालङ्कारः ।
  • कृपाणधारा एव जलमित्यत्र रूपकम् ।
  • कलङ्क क्षालयन्ती इवेत्यत्र क्रियोत्प्रेक्षा ।
  • कृपाणेन आकृष्यमाणा इव, इत्यत्र क्रियोत्प्रेक्षा उरांसि एव कपाटानि, कवचसहस्रमेवान्धकार इत्युभत्र रूपकम् ।
  • राजलक्ष्मीः अभिसारिका इवेत्यत्र उपमा ।
  • दिधक्षुः इवेत्यत्र क्रियोत्प्रेक्षा, प्रतापः एवानलः इत्यत्र रूपकम् ।
  • वर्णसङ्कराः, दृढबन्धाः, कनकदण्डाः, प्रकम्पाः, रागविलसितानि, मदविकारः, गुणच्छेदाः, जालमार्गाः, कलङ्काः इत्येतेषु श्लेषः ।
  • चित्रकर्मसु वर्णसङ्करा इत्यारभ्य शून्यगृहाः इति पर्यन्तं परिसंख्या च। *