सामग्रीं त्यजन्तु

स्मरणम्

लक्षणम्

यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः । स्मरणम् । (का०प्र० १०)
सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते । (सा०द० १०)

सदृशस्य वस्तुनः दर्शनेन पूर्वानुभूतस्य वस्तुनः स्मृतिः (सादृश्यमूलैव, न तु साधारणी स्मृतिः) ।

उदाहरणानि

चन्द्रं दृष्ट्वा प्रियायाः मुखं स्मरति विरही ।

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ (मेघ० उत्तरमेघः)
विद्युद्वेष्टितं मेघं दृष्ट्वा कनककदलीवेष्टितस्य क्रीडाशैलस्य स्मरणम् ।