सारः¶
लक्षणम्
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः । (का०प्र० १०)
उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते । (सा०द० १०)
उत्तरोत्तरं वस्तूनाम् उत्कर्षः (क्वचित् अपकर्षः) परमावधिपर्यन्तं वर्ण्यते ।
उदाहरणानि
मधुरं मधु, ततः मधुरा सुधा, ततोऽपि मधुरं सत्कवेः वचः ।