सहोक्तिः¶
लक्षणम्
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् । (का०प्र० १०)
सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः । (कु०)
"सह"-अर्थकशब्दबलात् एकं पदम् (क्रिया धर्मो वा) द्वयोः अन्वेति, चमत्कारकत्वेन । प्रायः अतिशयोक्तिमूला ।
उदाहरणानि
दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह । (कु०)
तस्य कीर्तिः शत्रुभिः सह दिगन्तं गता – कीर्तिः प्रसृता, शत्रवः पलायिताः ।
सूर्येण सह कमलानि विकसन्ति ।