समासोक्तिः¶
लक्षणम्
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः । (का०प्र० १०)
समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ॥ (सा०द० १०)
समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । (कु०)
श्लिष्टैः समैः वा विशेषणैः प्रस्तुतस्य वर्णने अप्रस्तुतस्य व्यवहारः (प्रायः नायकनायिकाव्यवहारः)
संक्षेपेण (समासेन) प्रतीयते | अप्रस्तुतपशंसायाः विपरीता । अत्र परिस्फुर्तिः व्यञ्जनाद्वारा प्रतीयते ।
उदाहरणानि
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥