सभङ्गश्लेषः¶
लक्षणम्
एकस्यैव वर्णसमूहस्य भिन्नरीत्या पदच्छेदेन (सन्धिविच्छेदेन) भिन्नार्थकपदानां लाभः ।
उदाहरणानि
सर्वदो माधवः पायात् स यो गङ्गामदीधरत् ।
सर्वदः माधवः ... यः अगम् (गोवर्धनं) गाम् (भूमिं) च अदीधरत् – कृष्णः रक्षतु ।
सर्वदा उमाधवः ... यः गङ्गाम् अदीधरत् – शिवः रक्षतु ।