सन्देहः¶
लक्षणम्
ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः । (का०प्र० १०)
सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः । (सा०द० १०)
सादृश्यात् प्रकृते (उपमेये) अन्यस्य (उपमानस्य) कविप्रतिभाकल्पितः संशयः – "किम् इदम् अ उत ब?" । कविकल्पितः चमत्कारी एव संशयः अलङ्कारः, न तु लौकिकः । का०प्र० "ससन्देहः" इति नाम ।
उदाहरणानि
किम् इदं मुखम्, उत गगनात् पतितः चन्द्रः ?
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ (विक्रमोर्वशीयम् १)
उर्वश्याः स्रष्टा चन्द्रः, मदनः, वसन्तः वा इति संशयः ।