सामग्रीं त्यजन्तु

सङ्करः

लक्षणम्

अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः । ... (का०प्र० १०)
अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ ।
सन्दिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः ॥ (सा०द० १०)

अलङ्काराः परस्परं सापेक्षाः – नीरक्षीरन्यायः । त्रिविधः – अङ्गाङ्गिभावसङ्करः, सन्देहसङ्करः (कः अलङ्कारः इति निश्चयो न), एकवाचकानुप्रवेशसङ्करः (एकस्मिन् पदे द्वौ अलङ्कारौ) ।

उदाहरणानि

मुखचन्द्रः ।
"मुखं चन्द्र इव" (उपमा) "मुखम् एव चन्द्रः" (रूपकम्) वा – निर्णायकाभावात् सन्देहसङ्करः ।