व्याजस्तुतिः¶
लक्षणम्
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । (का०प्र० १०)
आपाततः निन्दा, वस्तुतः स्तुतिः – अथवा आपाततः स्तुतिः, वस्तुतः निन्दा । व्याजेन (छलेन) स्तुतिः, व्याजरूपा स्तुतिः वा ।
उदाहरणानि
हे राजन्, तव दानेन सर्वे याचकाः धनिकाः अभवन् – अहो, त्वया याचकानां वंशः एव नाशितः !
आपाततः निन्दा, वस्तुतः दानशीलतायाः स्तुतिः ।