सामग्रीं त्यजन्तु

विषमम्

लक्षणम्

क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् । ... (का०प्र० १०)
विषमं वर्ण्यते यत्र घटनाननुरूपयोः । (कु०)

अननुरूपयोः (परस्परम् अयोग्ययोः) वस्तुनोः सम्बन्धः वर्ण्यते – "क्व इदं क्व च तत्" । अन्ये प्रकाराः – कर्तुः इष्टफलाभावः अनर्थप्राप्तिश्च; कारणगुणविरुद्धं कार्यम् ।

उदाहरणानि

क्वेयं शिरीषमृद्वङ्गी क्व तावन्मदनज्वरः । (कु०)

मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ (कुमार० ५।४)
कठोरं तपः कोमलं च पार्वत्याः शरीरम् – अननुरूपयोः योगः ।

सन्दर्भाः