विशेषोक्तिः¶
लक्षणम्
विशेषोक्तिरखण्डेषु कारणेषु फलावचः । (का०प्र० १०)
सति हेतौ फलाभावे विशेषोक्तिस्तथा द्विधा । (सा०द० १०)
कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । (कु०)
सम्पूर्णे कारणे सति अपि कार्यस्य अनुत्पत्तिः – विभावनायाः विपरीता ।
उदाहरणानि
हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि । (कु०)
दीपे ज्वलति स्नेहः (तैलम्) क्षीयते – किन्तु कामदीपे ज्वलति अपि स्नेहः (प्रेम) न क्षीणः ।
प्रभूते सत्यपि धने कृपणः न ददाति ।