लाटानुप्रासः¶
लक्षणम्
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः । (का०प्र० ९)
शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः ।
लाटानुप्रास इत्युक्तः ... ॥ (सा०द० १०)
शब्दाः अर्थाश्च त एव पुनः आवर्तन्ते, केवलम् अन्वयभेदात् तात्पर्यं भिद्यते । लाटदेशजनप्रियः ।
उदाहरणानि
यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ (का०प्र० ९)
यस्य समीपे प्रिया नास्ति तस्य चन्द्रः अपि दावाग्निः; यस्य समीपे प्रिया अस्ति तस्य दावाग्निः अपि चन्द्रः । शब्दाः समानाः, तात्पर्यं भिन्नम् ।