यमकम्¶
लक्षणम्
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकम् ... (का०प्र० ९)
सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ (सा०द० १०)
स एव वर्णसमूहः तेनैव क्रमेण पुनः आवर्तते, किन्तु (सार्थकत्वे) भिन्नार्थकः; एकत्र निरर्थकः अपि भवितुम् अर्हति । अनुप्रासे केवलं व्यञ्जनसाम्यम्, यमके स्वरसहितः समग्रः वर्णसमूहः आवर्तते ।
उदाहरणानि
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥
शारदा (सरस्वती) – शारद (शरत्कालीन); सर्वदा (सदा) – सर्वदा (सर्वप्रदा); सन्निधिम् (सामीप्यम्) – सत् + निधिम् ।
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोभरैः ॥ (शिशु० ६।२)