यथासंख्यम्¶
लक्षणम्
यथासङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयः । (का०प्र० १०)
यथासङ्ख्यमनूद्देश उद्दिष्टानां क्रमेण यत् । (सा०द० १०)
पूर्वम् उद्दिष्टानां पदार्थानां पश्चात् तेनैव क्रमेण अन्वयः (प्रथमस्य प्रथमेन, द्वितीयस्य द्वितीयेन) ।
उदाहरणानि
शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय । (कु०)
शत्रुं जय, मित्रं रञ्जय, विपत्तिं भञ्जय ।
सन्दर्भाः¶
- रजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे — कादम्बरी — मङ्गलाचरणम्, कथाप्रशंसा, कविवंशवर्णनम्