भ्रान्तिमान्¶
लक्षणम्
भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने । (का०प्र० १०)
साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः । (सा०द० १०)
सादृश्यात् एकं वस्तु अन्यत् इति निश्चयेन (न संशयेन) ज्ञायते । सन्देहे संशयः, भ्रान्तिमति मिथ्यानिश्चयः । कविकल्पिता चमत्कारिणी एव भ्रान्तिः अलङ्कारः ।
उदाहरणानि
मुखं चन्द्रं मत्वा चकोरः तत्र धावति ।
कपाले मार्जारः पय इति करांल्लेढि शशिनः
तरुच्छिद्रप्रोतान्बिसमिति करी सङ्कलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥ (का०प्र० १० उदाहृतम्)
चन्द्रकिरणान् मार्जारः दुग्धं, करी बिसं, वनिता वस्त्रं मन्यते ।