सामग्रीं त्यजन्तु

परिकरः

लक्षणम्

विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । (का०प्र० १०)
उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः । (सा०द० १०)
अलङ्कारः परिकरः साभिप्राये विशेषणे । (कु०)

यत्र प्रयुक्तानि विशेषणानि साकूतानि (साभिप्रायाणि) – प्रकृतकार्यस्य उपयोगिनम् अर्थं सूचयन्ति ।

उदाहरणानि

सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः । (कु०)
चन्द्रशेखरः तापं हरतु – चन्द्रः शीतलः इति विशेषणं तापहरणे साभिप्रायम् ।

अङ्गराज! सेनापते! द्रोणविद्रोहिन्! रक्षैनं राजानम्...
अत्र अङ्गराजादीनि विशेषणानि कर्णस्य सामर्थ्यं सूचयितुं साभिप्रायाणि ।

सन्दर्भाः