चित्रम्¶
लक्षणम्
तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता । (का०प्र० ९)
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । (सा०द० १०)
वर्णविन्यासविशेषेण खड्ग-पद्म-मुरज-चक्र-आदि-आकृतयः प्रकाश्यन्ते, अथवा एकाक्षरादिप्रयोगः । काव्यत्वेन अधमम् इति मम्मटः ।
उदाहरणानि
(एकाक्षरचित्रम् – न-कारमात्रेण)
न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ (कि० १५।१४)