एकावली¶
लक्षणम्
स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ (का०प्र० १०)
गृहीतमुक्तरीत्यार्थश्रेणिरेकावली मता । (कु०)
उत्तरम् उत्तरं वस्तु पूर्वस्य पूर्वस्य विशेषणरूपेण स्थाप्यते (विधीयते) अपोह्यते (निषिध्यते) वा – एकसरी माला इव ।
उदाहरणानि
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम् ॥ (महाभारतम्, उद्योगपर्व)
सभा – वृद्धाः – धर्मः – सत्यम् इति शृङ्खला (अपोहनेन) ।