सामग्रीं त्यजन्तु

अर्थापत्तिः

लक्षणम्

दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते । (सा०द० १०)
कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । (कु०)

दण्डापूपन्यायेन (मूषकैः दण्डः भक्षितः चेत्, अपूपाः किं पुनः) कैमुतिकन्यायेन अर्थान्तरस्य सिद्धिः । मम्मटः पृथक् न गणयति ।

उदाहरणानि

स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् । (कु०)
तव मुखेन चन्द्रः अपि जितः, कमलानां तु का कथा ।