सामग्रीं त्यजन्तु

अनन्वयः

लक्षणम्

उपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वयः । (का०प्र० १०)
उपमानोपमेयत्वमेकस्यैव त्वनन्वयः । (सा०द० १०)
उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ (कु०)

एकम् एव वस्तु उपमानम् उपमेयं च – तस्य समः अन्यः नास्ति इति व्यज्यते (अन्वयः = सम्बन्धः अन्येन नास्ति) ।

उदाहरणानि

गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥ (रा० युद्धकाण्डम्)
रामरावणयुद्धस्य तुल्यम् अन्यत् युद्धं नास्ति ।