समम्¶
लक्षणम्
समं योग्यतया योगो यदि सम्भावितः क्वचित् । (का०प्र० १०)
समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः । (कु०)
विषमस्य विपरीतम् – परस्परं योग्ययोः (अनुरूपयोः) वस्तुनोः सम्बन्धस्य प्रशंसा ।
उदाहरणानि
अनुरूपेण वरेण सह वध्वाः विवाहः ।
स्वानुरूपं कृतं सद्म हारेण कुचमण्डलम् । (कु०)