सामग्रीं त्यजन्तु

व्याजोक्तिः

लक्षणम्

व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् । (का०प्र० १०)
व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः । (सा०द० १०)

प्रकटीभूतस्य वस्तुनः (भावस्य) व्याजेन (मिथ्याहेतुकथनेन) गोपनम् ।

उदाहरणानि

"कथं ते मुखं रक्तम्?" इति सख्या पृष्टा – "आतपेन" इति प्रत्युवाच नायिका ।
लज्जाजन्यम् अरुणत्वम् आतपव्याजेन गूहति ।