वृत्त्यनुप्रासः¶
लक्षणम्
एकस्याप्यसकृत्परः । (का०प्र० ९)
अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा ।
एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥ (सा०द० १०)
एकस्य अनेकेषां वा व्यञ्जनानाम् असकृत् (बहुवारम्) आवृत्तिः । रसानुगुणवर्णविन्यासः वृत्तिः – उपनागरिका (माधुर्यव्यञ्जकवर्णैः), परुषा (ओजोव्यञ्जकवर्णैः), कोमला (शेषैः) ।
उदाहरणानि
कलकलकण्ठकोकिलकुलं कूजति काननेषु ।
क-कारस्य ल-कारस्य च असकृदावृत्तिः ।
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ (सा०द० १०)