विशेषः¶
लक्षणम्
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । ... (का०प्र० १०)
विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । (कु०)
प्रसिद्धम् आधारं विना अपि आधेयस्य स्थितिः; एकस्य युगपद् अनेकत्र स्थितिः; एककार्यारम्भे अशक्यस्य अन्यकार्यस्य सिद्धिः – त्रिविधः ।
उदाहरणानि
गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः । (कु०)
सूर्ये अस्तं गते अपि तस्य किरणाः दीपेषु स्थित्वा तमः नाशयन्ति – आधारं विना आधेयम् ।