विरोधाभासः¶
लक्षणम्
विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । (का०प्र० १०)
आभासत्वे विरोधस्य विरोधाभास इष्यते । (कु०)
वस्तुतः विरोधः नास्ति, किन्तु विरुद्धम् इव उच्यते – प्रायः श्लेषेण परिहारः । का०प्र०-सा०द०-योः "विरोधः" इति नाम ।
उदाहरणानि
विनापि तन्वि हारेण वक्षोजौ तव हारिणौ । (कु०)
हारं विना हारिणौ (हारयुक्तौ)? – विरोधः; हारिणौ = मनोहरौ इति परिहारः ।