सामग्रीं त्यजन्तु

विभावना

लक्षणम्

क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना । (का०प्र० १०)
विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । (सा०द० १०)
विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । (कु०)

प्रसिद्धं कारणं विना अपि कार्यस्य उत्पत्तिः वर्ण्यते ।

उदाहरणानि

अप्यलाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् । (कु०)
लाक्षारसं विना अपि चरणौ रक्तौ – स्वाभाविकी अरुणिमा ।

विना मद्यं मत्ता सा यौवनेन ।