सामग्रीं त्यजन्तु

पर्यायोक्तम्

लक्षणम्

पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । (का०प्र० १०)
पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते । (सा०द० १०)
पर्यायोक्तं तु गम्यस्य वचो भङ्ग्यन्तराश्रयम् । (कु०)

वक्तव्यम् अर्थं साक्षात् (वाच्यवाचकभावेन) न उक्त्वा प्रकारान्तरेण (भङ्ग्या) कथनम् ।

उदाहरणानि

नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ । (कु०)
"राहोः शिरः छिन्नवान् विष्णुः" इति साक्षात् न उक्तम्; "येन राहुपत्न्याः स्तनौ व्यर्थौ कृतौ" इति भङ्ग्या उक्तम् ।