परिणामः¶
लक्षणम्
विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि । परिणामः ... (सा०द० १०)
परिणामः क्रियार्थश्चेद्विषयी विषयात्मना । (कु०)
आरोप्यमाणम् उपमानं (विषयी) उपमेयरूपेण (विषयात्मना) परिणम्य प्रकृतकार्ये उपयुज्यते । रूपके उपमानम् अलङ्कारमात्रम्, परिणामे क्रियायां साक्षाद् उपयोगि । मम्मटः पृथक् न गणयति ।
उदाहरणानि
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा । (कु०)
अब्जेन वीक्षणं न सम्भवति; अब्जं दृग्रूपेण परिणम्य वीक्षणक्रियायाम् उपयुज्यते ।