तुल्ययोगिता¶
लक्षणम्
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता । (का०प्र० १०)
पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।
एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥ (सा०द० १०)
वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता । (कु०)
केवलं प्रस्तुतानां, केवलम् अप्रस्तुतानां वा एकः धर्मः सकृत् उच्यते । दीपके तु प्रस्तुताप्रस्तुतयोः उभयोः ।
उदाहरणानि
तव मुखं कीर्तिश्च लोके उज्ज्वले ।
मुखं कीर्तिः च – उभे प्रस्तुते; "उज्ज्वले" इति एकः धर्मः ।
सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । (कु०)
चन्द्रोदये (प्रस्तुते) कमलानि स्वैरिणीमुखानि च सङ्कुचन्ति ।