काव्यलिङ्गम्¶
लक्षणम्
काव्यलिङ्गं हेतोर्वाक्यपदार्थता । (का०प्र० १०)
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते । (सा०द० १०)
समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् । (कु०)
हेतुः वाक्यार्थरूपेण पदार्थरूपेण वा उच्यते (हि, यतः इत्यादि हेतुवाचकं विना) । अर्थान्तरन्यासे सामान्यविशेषभावेन समर्थनम्, काव्यलिङ्गे कारणत्वेन ।
उदाहरणानि
जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः । (कु०)
हे कामदेव, त्वं जितः – यतः मम चित्ते शिवः (तव दाहकः) अस्ति ।