सामग्रीं त्यजन्तु

कारणमाला

लक्षणम्

यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात् ... (का०प्र० १०)
परं परं प्रति यदा पूर्वपूर्वस्य हेतुता । तदा कारणमाला स्यात् ... (सा०द० १०)
गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः । (कु०)

पूर्वं पूर्वं कारणम्, उत्तरम् उत्तरं कार्यम् – कार्यकारणशृङ्खला ।

उदाहरणानि

नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः । (कु०)

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ (गीता २।६२)