उपमेयोपमा¶
लक्षणम्
विपर्यास उपमेयोपमा तयोः । (का०प्र० १०)
पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता । (सा०द० १०)
उपमेयोपमानयोः परस्परं विपर्ययेण उपमा – अ इव ब, ब इव अ । अतः तृतीयः सदृशः नास्ति इति व्यज्यते ।
उदाहरणानि
मुखं चन्द्र इव, चन्द्रो मुखमिव ।
कमलेव मतिर्मतिरिव कमला ... (का०प्र० १०)
लक्ष्मीः बुद्धिः इव, बुद्धिः लक्ष्मीः इव – उभे परस्परं सदृशे ।