अप्रस्तुतप्रशंसा¶
लक्षणम्
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया । (कु०)
कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ (का०प्र० १०)
अप्रस्तुतस्य वर्णनेन प्रस्तुतस्य बोधनम् । पञ्चधा – कार्ये प्रस्तुते कारणस्य, कारणे कार्यस्य,
सामान्ये विशेषस्य, विशेषे सामान्यस्य, तुल्ये तुल्यस्य कथनम् (अन्योक्तिः) । समासोक्तेः
विपरीता – तत्र प्रस्तुतवर्णनेन अप्रस्तुतं गम्यते । अत्र व्यञ्जनाद्वारा अवगमनम् ।
उदाहरणानि
एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते । (कु०)
चातकस्य (अप्रस्तुतस्य) प्रशंसया इन्द्रात् अन्यं न याचमानस्य मानिनः पुरुषस्य (प्रस्तुतस्य) प्रशंसा – तुल्यनिबन्धना (अन्योक्तिः) ।
हंसैः पद्मवनं त्यक्तं वायसैः परिपूरितम् ।
सज्जनैः त्यक्ता सभा दुर्जनैः पूरिता इति गम्यते ।