अपह्नुतिः¶
लक्षणम्
प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । (का०प्र० १०)
प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः । (सा०द० १०)
शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः । (कु०)
सादृश्यात् प्रकृतस्य (उपमेयस्य) निषेधं कृत्वा अप्रकृतस्य (उपमानस्य) स्थापना । अपह्नुतिः = निह्नवः, गोपनम् ।
उदाहरणानि
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् । (कु०)
नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः ।
नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥
इदं नभोमण्डलं न, अपि तु समुद्रः; एताः ताराः न, अपि तु फेनाः; अयं चन्द्रः न, अपि तु कुण्डलितः शेषः; कलङ्कः न, अपि तु शयितः विष्णुः ।