अन्योन्यम्¶
लक्षणम्
अन्योन्यमुभयोरेकक्रियायाः करणं मिथः । (का०प्र० १०)
अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । (कु०)
द्वौ परस्परम् एकाम् एव क्रियां (उपकारं, शोभादिकं) कुरुतः ।
उदाहरणानि
त्रियामा शशिना भाति शशी भाति त्रियामया । (कु०)
रात्रिः चन्द्रेण, चन्द्रः रात्र्या शोभते ।