सामग्रीं त्यजन्तु

अतद्गुणः

लक्षणम्

तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः । (का०प्र० १०)
सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम् । (कु०)

तद्गुणस्य विपरीतः – संसर्गे सति अपि अन्यस्य गुणं न गृह्णाति ।

उदाहरणानि

चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि । (कु०)
रागयुक्ते (अनुरक्ते / रक्ते) मम चित्ते स्थितः अपि त्वं न रज्यसे (न अनुरज्यसे / न रक्तः भवसि) ।