रसगङ्गाधरः — प्रथममाननम् — काव्यभेदः
मुखपृष्ठम् · ⬆ प्रथममाननम् · ←
काव्यभेदः¶
उत्तमोत्तमकाव्यलक्षणम्¶
तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा।
शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्तस्तदाद्यम्।
कमपीति चमत्कृतिभूमिम्। तेनातिगूढस्फुटव्यङ्ग्ययोर्निरासः।
अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि
चमत्कारितया तद्वारणाय गुणीभावितात्मानाविति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम्।
प्रथममुदाहरणम्¶
शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते॥
अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यते। आलम्बनादीनां स्वरूपं वक्ष्यते।
न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायिकेच्छाया एव व्यङ्गयत्वमत्रेति वाच्यम्। मनोरथान्सफलीकर्तुमसमर्थेत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्ठन्ति इति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात्।
पू०प० – किं रतिव्यञ्जनया प्रयोजनम्? भर्तृमुखं चुम्बेयमिति इच्छैव व्यङ्ग्यार्थो भवतु ।
मनोरथः इति इच्छावाचकः वर्तते एव । तेन अभिधयैव अर्थः व्यक्तः, न व्यञ्जनया ।