छन्दांसि¶
गणव्यवस्था¶
लघुगुरू¶
सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत्।
वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा॥
गणाः¶
आदिमध्यावसानेषु भजसा यान्ति गौरवम्।
यरता लाघवं यान्ति मनौ तु गुरुलाघवम्॥
अन्या युक्तिः - यमाताराजभानसलगम् ॥
वृत्तानि¶
अधीतानि¶
| वृत्तम् | अक्षराणि | लक्षणम् | उदाहरणम् |
|---|---|---|---|
| इन्द्रवज्रा | ११ |
स्यादिन्द्रवज्रा यदि तौ जगौ गः ऽऽ। ऽऽ। ।ऽ। ऽऽ |
कर्पूरगौरं करुणावतारं संसारसारम् भुजगेन्द्रहारम् । सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः। जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥ |
| उपेन्द्रवज्रा | ११ |
उपेन्द्रवज्रा जतजास्ततो गौ ।ऽ। ऽऽ। ।ऽ। ऽऽ |
त्वमेव माता च पिता त्वमेव।... |
| उपजातिः | ११ |
अनन्तरोदीरितलक्ष्मभाजौ । पादौ यदीयावुपजातयस्ताः ॥ ऽऽ। ऽऽ । । ऽ।ऽ ऽ ।ऽ। ऽ ऽ। ।ऽ। ऽऽ |
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥ ऽऽ। ऽ ऽ । ।ऽ । ऽऽ ।ऽ ।ऽऽ ॥ ऽ।ऽऽ ।ऽ। ऽऽ। ।ऽ। ऽ। ऽऽ। ऽऽ। । ऽ।ऽ। अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति । वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम् ॥ ऽऽ ।ऽ ऽ । । ऽ। ऽ॥ ऽ ।ऽऽ ॥ऽ। ऽ। येषां न विद्या न तपो न दानम्।... |
| वंशस्थम् | १२ |
जतौ तु वंशस्थमुदीरितं जरौ ।ऽ। ऽऽ। ।ऽ। ऽ।ऽ |
नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ |
| वसन्ततिलका | १४ |
उक्ता वसन्ततिलका तभजा जगौ गः ऽऽ। ऽ।। ।ऽ। ।ऽ। ऽऽ |
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्य-भृत्य-परिचारक-भृत्य-भृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहिता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजनाः न परित्यज्यन्ति ॥ |
| मालिनी | १५ |
ननमयययुतेयं मालिनी भोगिलोकैः (भोगिनः ८, लोकाः ७) ।।। ।।। ऽऽऽ ।ऽऽ ।ऽऽ |
जयतु जयतु देवो देवकीनन्दनोऽयम् जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् । त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥ सरसिजमनुविद्धं शैवलेनापि रम्यम्। मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् |
| मन्दाक्रान्ता | १७ |
मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत् (जलधयः ४, षट् ६, अगाः ७) ऽऽऽ ऽ।। ।।। ऽऽ। ऽऽ। ऽऽ |
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ |
| पृथ्वी | १७ |
जसौ जसयला वसु-ग्रहयतिः पृथ्वी गुरुः। (वसवः ८, ग्रहाः ९) ज-स-ज-स-य-ल-ग (।ऽ। ।।ऽ ।ऽ। ।।ऽ ।ऽऽ ।ऽ) |
स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥ |
| शिखरिणी | १७ |
रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी (रसाः ६, रुद्राः ११) ।।ऽ ऽऽऽ ।।। ।।ऽ ऽ।। ।ऽ |
शिवः शक्त्याः युक्तो यदि भवति शक्तः प्रभवितुं न चेद् एवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः। |
| आर्या |
१२+१८ १२+१५ |
(मात्रा/जातिः) यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥ |
|
| शार्दूलविक्रीडितम् | १९ | सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् (सूर्याः १२, अश्वाः७) | केयूराणि न भूषयन्ते पुरुषम् ... |
| स्रग्धरा | २१ |
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् (त्रि-मुनयः ७+७+७) म-र-भ-न-य-य-य ऽऽऽ ऽ।ऽ ऽ॥ ॥। ।ऽऽ ।ऽऽ ।ऽऽ |
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥१॥ |
अध्येतव्यानि¶
| वृत्तम् | अक्षराणि | लक्षणम् | उदाहरणम् | |
|---|---|---|---|---|
| भुजङ्गप्रयातम् | १२ | भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः | ||
| तोटकम् | १२ |
इह तोटकमम्बुधिसैः प्रथितम् ।।ऽ ।।ऽ ।।ऽ ।।ऽ |
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे । हृदये कलये विमलं चरणं भव शङ्करदेशिक मे शरणम् ॥ |
|
| पुष्पिताग्रा |
१२+१३ १२+१३ |
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा न न र य – न ज ज र |
||
| मञ्जुभाषिणी | १५ | सजसा जगौ भवति मञ्जुभाषिणी | ||
| हरिणी | १७ | नसमरसलागः षड्वेदैर्हयैर्हरिणी मता । | ||
| प्रहर्षिणी | १३ | त्रयाशाभिर्मनजरगाः प्रहर्षिणीयम् । | ||
| शालिनी | ११ |
मात्तौ गौ चेच्छालिनी वेदलोकैः । (४+७) शालिन्युक्ता म्तौ तगौ गोब्धिलोकैः । ऽऽऽ ऽऽ। ऽऽ। ऽऽ ऽ ऽ ऽ ऽ ऽ। ऽ ऽ। ऽऽ |
यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधु चित्रं चरित्रम् । मत्सम्बन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त धिङ्मामधन्यम् ॥ |
|
| रथोद्धता | ११ | तात्परैर्नरलगै रथोद्धता । | ||
| वियोगिनी | १०+११ |
विषमे सजौ गुरुः समे सभौ लौऽथ गुरुर्वियोगिनी यतिः – १, ३ → १-६, ७-१० २,४ → १-७, ८-११ |