Skip to content

शालिनी

अक्षराणि

११

लक्षणम्

मात्तौ गौ चेच्छालिनी वेदलोकैः । (४+७)
शालिन्युक्ता म्तौ तगौ गोब्धिलोकैः ।
ऽऽऽ ऽऽ। ऽऽ। ऽऽ
ऽ ऽ ऽ ऽ ऽ। ऽ ऽ। ऽऽ

उदाहरणम्

यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधु चित्रं चरित्रम् ।
मत्सम्बन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त धिङ्‌मामधन्यम् ॥