Skip to content

किरातार्जुनीयम् — प्रथमः सर्गः

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥१।१॥

विदितः = विज्ञातसर्ववृत्तान्तः । वर्णिलिङ्गी = ब्रह्मचारिरूपधारी

कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥१।२॥

सपत्नेन = रिपुणा । मृषा = मिथ्याभूतम् ।

द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥१।३॥

विघाताय = विनाशाय । सौष्ठवौदार्यविशेषशालिनीं = शब्दार्थसौन्दर्यादिगुणोपेताम्। विनिश्चितार्थां = सन्देहरहिताम् । आददे = वक्तुमारब्धवान् ।

क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥१।४॥

चारचक्षुषः = गूढचरनयनाः (चरन्तीति चराः, चरा एव चाराः) । अनुजीविभिः = भृत्यैः ।

स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥१।५॥

रतिम् = अनुरागम् ।

निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥१।६॥

निसर्गदुर्बोधं = स्वभावदुर्ग्रहम् । अबोधविक्लवाः = अज्ञानोपहताः । नयवर्त्म = राजनीतिपथः । निगूढतत्त्वं = रहस्यसारम् । अनुभावः = प्रभावः, महिमा, वैभवम् (राजसी चमक-दमक) ।

विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥१।७॥

पराभवं = पराजयम् । विशङ्कमानः = सन्धिहानः । दुरोदरच्छद्मजितां = दुर्नयजितां, द्यूतकापट्येन वशीकृताम् (दुष्टमुदरास्येति दुरोदरः नाम द्यूतम्, तस्य छद्मना मिषेण जिताम्) । समीहते = इच्छति, प्रयतते ।

तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिमनार्यसङ्गमाद्वरं विरोधोऽपि समं महात्मभिः ॥१।८॥

जिह्मः = वञ्चकः, कपटकुशलः । शुभ्रं = निर्मलम् । तनोति = विस्तारयति । भूतिम् = ऐश्वर्यम् । समुन्नयन् = संवर्धयन् ।

कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥१।९॥

कृतारिषड्वर्गजयेन = कामक्रोधादिषड्वर्गं जितवान् (विनीत इत्यर्थः) । अगम्यरूपां = पुरुषमात्रदुःप्राप्याम् । प्रपित्सुना = प्रपत्तुम् इच्छुना (प्रपत्तुं नाम प्राप्तुम्) । अस्ततन्द्रिणा = अनलसेन । नक्तन्दिवम् = अहोरात्रम् । वितन्यते = विस्तार्यते ।

सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१।१०॥

गतस्मयः = निर्हङ्कारः । प्रीतियुजः = स्निग्धान् । समानमानान् = तुल्यसत्कारान् ।

असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥१।११॥

यथायथं = सङ्कीर्णरूपं विना । असक्तम् = अनासक्तम् (अव्यसनितया) । आराधयतः = सेवमानस्य । न बाधते = न पीडयति । त्रिगणः = धर्मार्थकामाः । ईयिवान् = अनुगतवान् ।

निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥१।१२॥

निरत्ययं = निर्बाधं, दोषरहितं, कपटरहितम् । साम = सामोपायं, सात्वम् (अवबोधनमिति भावः) । विरहय्य = विहाय ।

वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥१।१३॥

वशी = इन्द्रियनिग्रहवान् । निवृत्तकारणः = निवृत्तलोभादिनिमित्तः । मन्युना = कोपेन । धर्मविप्लवं = धर्मव्यतिक्रमः (धर्मोलङ्घनम्) । निहन्ति = निवारयति ।

विधाय रक्षान् परितः परेतरानशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥१।१४॥

परेतरान् = आत्मीयजनान् । क्रियापवर्गेषु = कर्मसमाप्तिषु । अनुजीविसात्कृताः = भृत्याधीनाः कृताः ।

अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः । फलन्त्युपायाः परिबृंहितायतीरुपेत्य सङ्घर्षमिवार्थसम्पदः ॥१।१५॥

विनियोगसत्क्रियाः = दानरूपक्रियाः । लम्भिताः = योग्यस्थाने प्रयुक्ताः । उपायाः = सामदामभेददण्डोपायाः । परिबृंहितायतीः = प्रचितोत्तरकालाः, स्थिराः, चिरस्थायिनीः (परि + √बृंह् + क्त + कर्मणि स्त्रियाम् आ ; परिबृंहिता आयाति याभिः, ताः)।

अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् । नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥१।१६॥

अनेकराजन्यरथाश्वसङ्कुलं = अनेकेषां क्षत्रियाणां रथैः अश्वैः च युक्तम् । आस्थाननिकेतनाजिरं = सभामण्डपस्य अङ्गणम् (अजिरं नाम अङ्गणम्)। अयुग्मच्छदगन्धिः = सप्तपर्णपुष्पवत्सुरभिः ।

सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति ॥१।१७॥

अकृष्टपच्याः = कर्षणेन विना एव समृद्धाः । अदेवमातृकाः = नदीमातृकाः, नदीकुल्यादेः जलेन वर्धिताः (देवः पर्जन्य एव माता येषां ते देवमातृकाः) । दधतः = धारयन्तः । चकासति = शोभन्ते ।

उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥१।१८॥

दयावतः = परदुःखप्रहरणेच्छोः । प्रशान्तबाधं = प्रशमितोपद्रवम् । अभिरक्षया = सर्वतः रक्षणेन । उदयं = वृद्धिम् । दिशतः = सम्पादयतः । वसूपमानस्य = कुबेरसदृशस्य । उपस्नुता = द्राविता, प्रवणशीलता (उप √स्नु) । प्रदुग्धे = दुह्यते, ददाति ।

महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥१।१९॥

धनार्चिताः = धनैः सत्कृताः । संयति = सङ्ग्रामे । न संहताः = निःस्वार्थपराः, स्वार्थं साधयितुं न परस्परं मिलिताः। न भिन्नवृत्तयः = स्वामिद्रोहम् अकुर्वन्तः, मिथो विरोधरहिताः ।

महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः । महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥१।२०॥

निःशेषं = सम्पूर्णम् । अशेषितक्रियः = समर्पितकार्यः, समापितकृत्यः । सच्चरितैः = अवञ्चकैः । चरैः = गूढचारैः । ईहितम् = उद्योगः । महोदयैः हितानुबन्धिभिः फलैः = महावृद्धिभिः हितकारकैः क्रियासिद्धिभिः । प्रतीयते = ज्ञायते ।

न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥१।२१॥

सज्यं = मौर्वीयुक्तम् । उद्यतम् = ऊर्ध्वीकृतम् । कोपविजिह्मं = क्रोधकुटिलम् । शासनम् = आदेशः । उह्यते = धार्यते ।

स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥१।२२॥

इद्धशासनः = अप्रतिहताज्ञः । नवयौवनोद्धतं = प्रगल्भं (तारुण्येनोन्मत्तम्, धुरंधरमित्यर्थः) । मखेषु = यागेषु । अखिन्नः = अनलसः । पुरोधसा = पुरोहितेन । हिरण्यरेतसम् = अग्निम् । हव्येन = हविषा । धिनोति = प्रीणयति, तर्पयति ।

प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥१।२३॥

प्रलीनभूपालं = निःसप्त्नं, नष्टशत्रुराज्ययुक्तम् (प्रलीनाः भूपालाः यस्मिन्, तम्) । स्थिरायति = चिरस्थायि । आवारिधि = समुद्रपर्यन्तम् । प्रशासत् अपि = आज्ञापयन् अपि, पालयन् अपि । त्वदेष्यतीः = त्वत्तः सम्भाव्यमानाः (त्वत् एष्यतीः । आ + √इ + लृट् + शतृ + ङीप्)। भियः = भयहेतून् । बलवद्विरोधिता = प्रबलैः सह वैरायमाणत्वम् । दुरन्ता = दुःखावसानम्, अनर्थपर्यवसायि ।

कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥१।२४॥

दुर्योधनपक्षे – अनुस्मृताखण्डलसूनिविक्रमः = स्मृतार्जुनपराक्रमः । नताननः = अवनतमुखः । उदाहृतात् = उच्चारितात् । गरुडपक्षे – जनैः = विषवैद्यप्रमुखजनैः । अनुस्मृताखण्डलसूनुविक्रमः = आखण्डलसूनोः विष्णोः, विः पक्षी, तस्य क्रमः नाम पादविक्षेपक्रमः । तवाभिधानात् = तार्क्ष्यवासुकिनामधेयात् ।

तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥१।२५॥

जिह्मं = कपटम् । उत्तरं = प्रतिक्रियाम् । प्रवृत्तिसाराः = वार्तामात्रसाराः, वार्ताबोधकाः ।

इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् । प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥१।२६॥

ईरयित्वा = उक्त्वा, निवेद्य । आत्तसत्क्रिये = गृहीतपारितोषिके । आचचक्षे = आख्यातम् ।

निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥१।२७॥

ततस्त्याः = तेभ्यः । अपाकृतीः = अवमाननाद्यापकारान्, विकृतीः । विनियन्तुं = निरोद्धुम् । मन्युव्यवसायदीपिनीः = क्रोधोद्योगयोः संवर्धिनी ।

भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥१।२८॥

प्रमदाजनोदितं = स्त्रीजनोक्तम् । अधिक्षेपः = आक्षेपः, तिरस्कारः । अनुशासनम् = उपदेशवचनम् । निरस्तनारीसमयाः = त्याजितशालीनतारूपस्त्रीसमाचाराः, त्यक्तस्त्रीकुलोचितशीलाः । दुराधयः = समयोलङ्घनहेतुत्वाद् दुष्टाः । व्यवसाययन्ति = प्रेरयन्ति ।

अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥१।२९॥

आखण्डलतुल्यधामभिः = इन्द्रसमानतेजोभिः । अपवर्जिता = दूरीकृता । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः इति मेदिनी ।

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥१।३०॥

असंवृताङ्गान् = अरक्षितदेहान् । निशिताः = तीक्ष्णाः ।

गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥१।३१॥

अनुरक्तसाधनः = अनुकूलसहायवान् । कुलजां = कुलीनां (वधुपक्षे), कुलक्रमागताम् (लक्ष्मीपक्षे) ।

भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥१।३२॥

एतर्हि = इदानीम् । मनस्विगर्हिते = मानिभिः निन्दिते । विवर्तमानं = संस्स्थितम् । उच्छिखः = उज्ज्वलः । उदीरितः = उद्दीपितः ।

अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषा दरः ॥१।३३॥

अवन्ध्यकोपस्य = सफलकोपस्य, अमोघक्रोधस्य । अमर्षशून्येन = क्रोधहीनेन । जातहार्देन = जातस्नेहेन । विद्विषा (सता) = शत्रुणा । दरः = भयम् ।

परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥१।३४॥

लोहितचन्दनोचितः = रक्तचन्दनचर्चितः (चर्चित नाम लिप्तः, उचितो नाम अभ्यस्तः यथा तैलोचितः) । रेणुरुषितः = धूलिधूसरितः, धूलिच्छुरितः । सत्यधनस्य = सोल्लुण्ठवचनम् । दुनोति = पीडयति । कच्चित् = कामप्रवेदनम्, प्रश्नात्कश्च (अत्र) च ।

विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ॥१।३५॥

प्राज्यं = प्रभूतम्। अकुप्यं = हेमरूप्यात्मकम्। वासवोपमः = इन्द्रतुल्यः ।

वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ । कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥१।३६॥

विष्वक् = समन्तात् । वनान्तशय्याकठिनीकृताकृती = वनभूमिशयनकठोरीकृतशरीरौ । कचाचितौ = केशव्याप्तौ । बाधितुं = त्यक्तुम् ।

इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥१।३७॥

प्रसभं = बलात्कारेण । आधयः = मनोव्यथाः । रुजन्ति = भञ्जन्ति, पीडयन्ति ।

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥१।३८॥

अदभ्रदर्भां = कुशकण्टकव्यापृताम् (अदभ्रं नाम प्रचुरम्)। विबोध्यसे = विनिद्रो भाव्यसे । शिवारुतैः = क्रोष्ट्रीकृतरवैः ।

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥१।३९॥

रामणीयकं = दर्शनीयताम् । अन्धसा = अन्नेन । उपनीतं = प्रापितम् । परैति = प्राप्नोति । कार्श्यं = खिन्नत्वम् ।

अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः । निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥१।४०॥

अरञ्जयत् = रञ्जितवत् । अनारतम् = अजस्रम् । रजः = परागः । निषीदतः = तिष्ठतः । बर्हिषां = कुशानाम् । मृगद्विजालूनशिखेषु = हरिणब्राह्मणोच्छिन्नाग्रभागेषु ।

द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः । परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥१।४१॥

द्विषन्निमित्ता = शत्रुकारणात् । अपर्यासितवीर्यसम्पदां = अतिरस्कृतशक्तिसम्पदाम् ।

विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥१।४२॥

धाम = तेजः । सन्धेहि = धारय, स्वीकुरु । अवधूय = तिरस्कृत्य, विजित्य ।

पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् । भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥१।४३॥

धामवतां = तेजस्विनाम् । निकारं = पराभवम्, अपमानम् । रतिं = तुष्टिम् । अधिकुर्वते = अङ्गीकुर्वन्ति ।

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥१।४४॥

निरस्तविक्रमः = परित्यक्तपराक्रमः, उत्साहहीनतावलम्बी । पर्येषि = मन्यसे, अवगच्छसि । लक्षीपतिलक्ष्म = भूपतिचिह्नम् । सञ्जुहुधि = होमं कुरु ।

न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥१।४५॥

समयपरिरक्षणं = संवित्परिरक्षण्म् (कालप्रतीक्षाकरणमित्यर्थः) । निकृतिपरेषु = शत्रुषु, अपकारतत्परेषु । भूरिधाम्नः = बहुतेजसः । सोपधि = सव्याजम् । सन्धिदूषणानि = मैत्रीच्छिद्राणि ।

विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ । रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥१।४६॥

अन्वयः – विधिसमयनियोगात् अगाधे आप्त्पयोधौ मग्नं दीप्तिसंहारजिह्मं शिथिलवसुं रिपुतिमिरम् उदस्य उदीयमानं त्वां दिनादौ दिनकृतम् इव लक्ष्मीः भूयः समभ्येतु । विधिसमयनियोगात् = दैवसमयानतिक्रमणात् । दीप्तसंहारजिह्मं = कान्तिहानिखिन्नं, तेजोविनाशशिथिलं, प्रतापसंहारम्लानम् । आपत्पयोदौ = विपत्समुद्रे । शिथिलवसुं = मन्दतेजसं, क्षीणधनम् । उदस्य = निरस्य, संहृत्य, अपवार्य । समभ्येतु = भजतु । मालिनी वृत्तम् ।

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितु… वंशस्थम्
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः वंशस्थम्
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः वंशस्थम्
क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः वंशस्थम्
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्र… वंशस्थम्
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः वंशस्थम्
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः वंशस्थम्
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः वंशस्थम्
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना वंशस्थम्
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः वंशस्थम्
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया वंशस्थम्
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् वंशस्थम्
वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः वंशस्थम्
विधाय रक्षान् परितः परेतरानशङ्किताकारमुपैति शङ्कितः वंशस्थम्
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः वंशस्थम्
अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् वंशस्थम्
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः वंशस्थम्
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया वंशस्थम्
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः वंशस्थम्
महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः वंशस्थम्
न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् वंशस्थम्
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः वंशस्थम्
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः वंशस्थम्
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः वंशस्थम्
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् वंशस्थम्
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् वंशस्थम्
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा वंशस्थम्
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् वंशस्थम्
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः वंशस्थम्
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः वंशस्थम्
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः वंशस्थम्
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि वंशस्थम्
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः वंशस्थम्
परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः वंशस्थम्
विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः वंशस्थम्
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ वंशस्थम्
इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः वंशस्थम्
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः वंशस्थम्
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा वंशस्थम्
अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः वंशस्थम्
द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः वंशस्थम्
विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् वंशस्थम्
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् वंशस्थम्
अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् वंशस्थम्
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः वंशस्थम्
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोध… मालिनी