किरातार्जुनीयम् — प्रथमः सर्गः¶
श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥१।१॥
विदितः = विज्ञातसर्ववृत्तान्तः । वर्णिलिङ्गी = ब्रह्मचारिरूपधारी
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥१।२॥
सपत्नेन = रिपुणा । मृषा = मिथ्याभूतम् ।
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥१।३॥
विघाताय = विनाशाय । सौष्ठवौदार्यविशेषशालिनीं = शब्दार्थसौन्दर्यादिगुणोपेताम्। विनिश्चितार्थां = सन्देहरहिताम् । आददे = वक्तुमारब्धवान् ।
क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥१।४॥
चारचक्षुषः = गूढचरनयनाः (चरन्तीति चराः, चरा एव चाराः) । अनुजीविभिः = भृत्यैः ।
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥१।५॥
रतिम् = अनुरागम् ।
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥१।६॥
निसर्गदुर्बोधं = स्वभावदुर्ग्रहम् । अबोधविक्लवाः = अज्ञानोपहताः । नयवर्त्म = राजनीतिपथः । निगूढतत्त्वं = रहस्यसारम् । अनुभावः = प्रभावः, महिमा, वैभवम् (राजसी चमक-दमक) ।
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥१।७॥
पराभवं = पराजयम् । विशङ्कमानः = सन्धिहानः । दुरोदरच्छद्मजितां = दुर्नयजितां, द्यूतकापट्येन वशीकृताम् (दुष्टमुदरास्येति दुरोदरः नाम द्यूतम्, तस्य छद्मना मिषेण जिताम्) । समीहते = इच्छति, प्रयतते ।
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिमनार्यसङ्गमाद्वरं विरोधोऽपि समं महात्मभिः ॥१।८॥
जिह्मः = वञ्चकः, कपटकुशलः । शुभ्रं = निर्मलम् । तनोति = विस्तारयति । भूतिम् = ऐश्वर्यम् । समुन्नयन् = संवर्धयन् ।
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥१।९॥
कृतारिषड्वर्गजयेन = कामक्रोधादिषड्वर्गं जितवान् (विनीत इत्यर्थः) । अगम्यरूपां = पुरुषमात्रदुःप्राप्याम् । प्रपित्सुना = प्रपत्तुम् इच्छुना (प्रपत्तुं नाम प्राप्तुम्) । अस्ततन्द्रिणा = अनलसेन । नक्तन्दिवम् = अहोरात्रम् । वितन्यते = विस्तार्यते ।
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१।१०॥
गतस्मयः = निर्हङ्कारः । प्रीतियुजः = स्निग्धान् । समानमानान् = तुल्यसत्कारान् ।
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥१।११॥
यथायथं = सङ्कीर्णरूपं विना । असक्तम् = अनासक्तम् (अव्यसनितया) । आराधयतः = सेवमानस्य । न बाधते = न पीडयति । त्रिगणः = धर्मार्थकामाः । ईयिवान् = अनुगतवान् ।
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥१।१२॥
निरत्ययं = निर्बाधं, दोषरहितं, कपटरहितम् । साम = सामोपायं, सात्वम् (अवबोधनमिति भावः) । विरहय्य = विहाय ।
वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥१।१३॥
वशी = इन्द्रियनिग्रहवान् । निवृत्तकारणः = निवृत्तलोभादिनिमित्तः । मन्युना = कोपेन । धर्मविप्लवं = धर्मव्यतिक्रमः (धर्मोलङ्घनम्) । निहन्ति = निवारयति ।
विधाय रक्षान् परितः परेतरानशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥१।१४॥
परेतरान् = आत्मीयजनान् । क्रियापवर्गेषु = कर्मसमाप्तिषु । अनुजीविसात्कृताः = भृत्याधीनाः कृताः ।
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः । फलन्त्युपायाः परिबृंहितायतीरुपेत्य सङ्घर्षमिवार्थसम्पदः ॥१।१५॥
विनियोगसत्क्रियाः = दानरूपक्रियाः । लम्भिताः = योग्यस्थाने प्रयुक्ताः । उपायाः = सामदामभेददण्डोपायाः । परिबृंहितायतीः = प्रचितोत्तरकालाः, स्थिराः, चिरस्थायिनीः (परि + √बृंह् + क्त + कर्मणि स्त्रियाम् आ ; परिबृंहिता आयाति याभिः, ताः)।
अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् । नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥१।१६॥
अनेकराजन्यरथाश्वसङ्कुलं = अनेकेषां क्षत्रियाणां रथैः अश्वैः च युक्तम् । आस्थाननिकेतनाजिरं = सभामण्डपस्य अङ्गणम् (अजिरं नाम अङ्गणम्)। अयुग्मच्छदगन्धिः = सप्तपर्णपुष्पवत्सुरभिः ।
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति ॥१।१७॥
अकृष्टपच्याः = कर्षणेन विना एव समृद्धाः । अदेवमातृकाः = नदीमातृकाः, नदीकुल्यादेः जलेन वर्धिताः (देवः पर्जन्य एव माता येषां ते देवमातृकाः) । दधतः = धारयन्तः । चकासति = शोभन्ते ।
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥१।१८॥
दयावतः = परदुःखप्रहरणेच्छोः । प्रशान्तबाधं = प्रशमितोपद्रवम् । अभिरक्षया = सर्वतः रक्षणेन । उदयं = वृद्धिम् । दिशतः = सम्पादयतः । वसूपमानस्य = कुबेरसदृशस्य । उपस्नुता = द्राविता, प्रवणशीलता (उप √स्नु) । प्रदुग्धे = दुह्यते, ददाति ।
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥१।१९॥
धनार्चिताः = धनैः सत्कृताः । संयति = सङ्ग्रामे । न संहताः = निःस्वार्थपराः, स्वार्थं साधयितुं न परस्परं मिलिताः। न भिन्नवृत्तयः = स्वामिद्रोहम् अकुर्वन्तः, मिथो विरोधरहिताः ।
महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः । महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥१।२०॥
निःशेषं = सम्पूर्णम् । अशेषितक्रियः = समर्पितकार्यः, समापितकृत्यः । सच्चरितैः = अवञ्चकैः । चरैः = गूढचारैः । ईहितम् = उद्योगः । महोदयैः हितानुबन्धिभिः फलैः = महावृद्धिभिः हितकारकैः क्रियासिद्धिभिः । प्रतीयते = ज्ञायते ।
न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥१।२१॥
सज्यं = मौर्वीयुक्तम् । उद्यतम् = ऊर्ध्वीकृतम् । कोपविजिह्मं = क्रोधकुटिलम् । शासनम् = आदेशः । उह्यते = धार्यते ।
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥१।२२॥
इद्धशासनः = अप्रतिहताज्ञः । नवयौवनोद्धतं = प्रगल्भं (तारुण्येनोन्मत्तम्, धुरंधरमित्यर्थः) । मखेषु = यागेषु । अखिन्नः = अनलसः । पुरोधसा = पुरोहितेन । हिरण्यरेतसम् = अग्निम् । हव्येन = हविषा । धिनोति = प्रीणयति, तर्पयति ।
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥१।२३॥
प्रलीनभूपालं = निःसप्त्नं, नष्टशत्रुराज्ययुक्तम् (प्रलीनाः भूपालाः यस्मिन्, तम्) । स्थिरायति = चिरस्थायि । आवारिधि = समुद्रपर्यन्तम् । प्रशासत् अपि = आज्ञापयन् अपि, पालयन् अपि । त्वदेष्यतीः = त्वत्तः सम्भाव्यमानाः (त्वत् एष्यतीः । आ + √इ + लृट् + शतृ + ङीप्)। भियः = भयहेतून् । बलवद्विरोधिता = प्रबलैः सह वैरायमाणत्वम् । दुरन्ता = दुःखावसानम्, अनर्थपर्यवसायि ।
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥१।२४॥
दुर्योधनपक्षे – अनुस्मृताखण्डलसूनिविक्रमः = स्मृतार्जुनपराक्रमः । नताननः = अवनतमुखः । उदाहृतात् = उच्चारितात् । गरुडपक्षे – जनैः = विषवैद्यप्रमुखजनैः । अनुस्मृताखण्डलसूनुविक्रमः = आखण्डलसूनोः विष्णोः, विः पक्षी, तस्य क्रमः नाम पादविक्षेपक्रमः । तवाभिधानात् = तार्क्ष्यवासुकिनामधेयात् ।
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥१।२५॥
जिह्मं = कपटम् । उत्तरं = प्रतिक्रियाम् । प्रवृत्तिसाराः = वार्तामात्रसाराः, वार्ताबोधकाः ।
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् । प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥१।२६॥
ईरयित्वा = उक्त्वा, निवेद्य । आत्तसत्क्रिये = गृहीतपारितोषिके । आचचक्षे = आख्यातम् ।
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥१।२७॥
ततस्त्याः = तेभ्यः । अपाकृतीः = अवमाननाद्यापकारान्, विकृतीः । विनियन्तुं = निरोद्धुम् । मन्युव्यवसायदीपिनीः = क्रोधोद्योगयोः संवर्धिनी ।
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥१।२८॥
प्रमदाजनोदितं = स्त्रीजनोक्तम् । अधिक्षेपः = आक्षेपः, तिरस्कारः । अनुशासनम् = उपदेशवचनम् । निरस्तनारीसमयाः = त्याजितशालीनतारूपस्त्रीसमाचाराः, त्यक्तस्त्रीकुलोचितशीलाः । दुराधयः = समयोलङ्घनहेतुत्वाद् दुष्टाः । व्यवसाययन्ति = प्रेरयन्ति ।
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥१।२९॥
आखण्डलतुल्यधामभिः = इन्द्रसमानतेजोभिः । अपवर्जिता = दूरीकृता । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः इति मेदिनी ।
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥१।३०॥
असंवृताङ्गान् = अरक्षितदेहान् । निशिताः = तीक्ष्णाः ।
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥१।३१॥
अनुरक्तसाधनः = अनुकूलसहायवान् । कुलजां = कुलीनां (वधुपक्षे), कुलक्रमागताम् (लक्ष्मीपक्षे) ।
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥१।३२॥
एतर्हि = इदानीम् । मनस्विगर्हिते = मानिभिः निन्दिते । विवर्तमानं = संस्स्थितम् । उच्छिखः = उज्ज्वलः । उदीरितः = उद्दीपितः ।
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषा दरः ॥१।३३॥
अवन्ध्यकोपस्य = सफलकोपस्य, अमोघक्रोधस्य । अमर्षशून्येन = क्रोधहीनेन । जातहार्देन = जातस्नेहेन । विद्विषा (सता) = शत्रुणा । दरः = भयम् ।
परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥१।३४॥
लोहितचन्दनोचितः = रक्तचन्दनचर्चितः (चर्चित नाम लिप्तः, उचितो नाम अभ्यस्तः यथा तैलोचितः) । रेणुरुषितः = धूलिधूसरितः, धूलिच्छुरितः । सत्यधनस्य = सोल्लुण्ठवचनम् । दुनोति = पीडयति । कच्चित् = कामप्रवेदनम्, प्रश्नात्कश्च (अत्र) च ।
विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ॥१।३५॥
प्राज्यं = प्रभूतम्। अकुप्यं = हेमरूप्यात्मकम्। वासवोपमः = इन्द्रतुल्यः ।
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ । कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥१।३६॥
विष्वक् = समन्तात् । वनान्तशय्याकठिनीकृताकृती = वनभूमिशयनकठोरीकृतशरीरौ । कचाचितौ = केशव्याप्तौ । बाधितुं = त्यक्तुम् ।
इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥१।३७॥
प्रसभं = बलात्कारेण । आधयः = मनोव्यथाः । रुजन्ति = भञ्जन्ति, पीडयन्ति ।
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥१।३८॥
अदभ्रदर्भां = कुशकण्टकव्यापृताम् (अदभ्रं नाम प्रचुरम्)। विबोध्यसे = विनिद्रो भाव्यसे । शिवारुतैः = क्रोष्ट्रीकृतरवैः ।
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥१।३९॥
रामणीयकं = दर्शनीयताम् । अन्धसा = अन्नेन । उपनीतं = प्रापितम् । परैति = प्राप्नोति । कार्श्यं = खिन्नत्वम् ।
अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः । निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥१।४०॥
अरञ्जयत् = रञ्जितवत् । अनारतम् = अजस्रम् । रजः = परागः । निषीदतः = तिष्ठतः । बर्हिषां = कुशानाम् । मृगद्विजालूनशिखेषु = हरिणब्राह्मणोच्छिन्नाग्रभागेषु ।
द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः । परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥१।४१॥
द्विषन्निमित्ता = शत्रुकारणात् । अपर्यासितवीर्यसम्पदां = अतिरस्कृतशक्तिसम्पदाम् ।
विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥१।४२॥
धाम = तेजः । सन्धेहि = धारय, स्वीकुरु । अवधूय = तिरस्कृत्य, विजित्य ।
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् । भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥१।४३॥
धामवतां = तेजस्विनाम् । निकारं = पराभवम्, अपमानम् । रतिं = तुष्टिम् । अधिकुर्वते = अङ्गीकुर्वन्ति ।
अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥१।४४॥
निरस्तविक्रमः = परित्यक्तपराक्रमः, उत्साहहीनतावलम्बी । पर्येषि = मन्यसे, अवगच्छसि । लक्षीपतिलक्ष्म = भूपतिचिह्नम् । सञ्जुहुधि = होमं कुरु ।
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥१।४५॥
समयपरिरक्षणं = संवित्परिरक्षण्म् (कालप्रतीक्षाकरणमित्यर्थः) । निकृतिपरेषु = शत्रुषु, अपकारतत्परेषु । भूरिधाम्नः = बहुतेजसः । सोपधि = सव्याजम् । सन्धिदूषणानि = मैत्रीच्छिद्राणि ।
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ । रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥१।४६॥
अन्वयः – विधिसमयनियोगात् अगाधे आप्त्पयोधौ मग्नं दीप्तिसंहारजिह्मं शिथिलवसुं रिपुतिमिरम् उदस्य उदीयमानं त्वां दिनादौ दिनकृतम् इव लक्ष्मीः भूयः समभ्येतु । विधिसमयनियोगात् = दैवसमयानतिक्रमणात् । दीप्तसंहारजिह्मं = कान्तिहानिखिन्नं, तेजोविनाशशिथिलं, प्रतापसंहारम्लानम् । आपत्पयोदौ = विपत्समुद्रे । शिथिलवसुं = मन्दतेजसं, क्षीणधनम् । उदस्य = निरस्य, संहृत्य, अपवार्य । समभ्येतु = भजतु । मालिनी वृत्तम् ।