रीतिः¶
पदसङ्घटना रीतिरङ्गसंस्थाविशेषवत् ।
| रीतिः | बन्धः | समासाः | गुणः |
|---|---|---|---|
| वैदर्भी | ललिता | अल्पवृत्तिः/ अवृत्तिः | माधुर्यम् |
| गौडी | आडम्बरः | बहुलाः | ओजः |
| पाञ्चाली | सुकुमारः | मध्यमः | माधुर्यम्/ प्रसादः |
| लाटी | मिश्रः | लघुः | प्रसादः |
लक्षणानि¶
| रीतिः | लक्षणम् |
|---|---|
| रीतिः | पदसङ्घटना रीतिरङ्गसंस्थाविशेषवत् । |
| वैदर्भी | माधुर्यव्यञ्जकैर्वर्णैर्चना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते॥ |
| गौडी | ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः। समासबहुला गौडी… |
| पाञ्चालिका | वर्णैः शेषैः पुनर्बन्धः सारल्यसुकुमारयोः। समस्तपञ्चषपदो बन्धः पाञ्चालिका मता॥ |
| लाटी | दर्भीपाञ्चाल्योः रीतिरन्तरा लाटिका भवेत्। |
वैदर्भी¶
- लक्षणम् – माधुर्यव्यञ्जकैर्वर्णैर्चना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते॥
- वर्णयोजना – वैदर्भीरीत्यां वर्णानां चयनं अतीव सावधानतया क्रियते:
- मूर्धन्यवर्णानां त्यागः – अत्र ट-ठ-ड-ढ-वर्णानां प्रयोगः प्रायः वर्ज्यते, यतो हि ते ओजोगुणव्यञ्जकाः सन्ति।
- कोमलवर्णानां प्रयोगः – वर्गप्रथमाः, तृतीयाः, अनुनासिकाः, ल-कार-व-कारादयश्च कोमलाः वर्णाः अत्र बाहुल्यान प्रयुज्यन्ते।
- अल्पप्राणप्राधान्यम् – महाप्राणवर्णानां (ख, घ, छ, झ इत्यादयः) अपेक्षया अल्पप्राणवर्णाः कर्णमधुराः भवन्ति, अतः तेषामेव अत्र सन्निवेशः भवति।
- गुणाः – अस्यां रीतौ मुख्यतया द्वौ गुणौ राजेते
- माधुर्यम् – चित्तस्य द्रवीभावकारकः गुणः।
- प्रसादः – श्रवणमात्रेणैव अर्थप्रतीतिः। यथा स्वच्छे जले पदार्थः स्पष्टं दृश्यते, तथैव वैदर्भीरीत्यां शब्दश्रवणसमकालमेव अर्थबोधः जायते।
- मुख्यविशेष्यता – लघुपदत्वम्, लालित्यम्, अल्पप्राणवर्णता, समता । शृङ्गार-करुण-शान्त-रस-पोषिका ।
- कविः – वैदर्भीरीतेः मूर्धन्यः कविः कालिदासः एव। उक्तं च— वैदर्भीरीतिसन्दर्भे कालिदासो विशिष्यते। तस्य शैली शब्दाडम्बर रहिता, सुकुमारा, मर्मस्पर्शिनी च वर्तते।
- उदाहरणम् – अभिज्ञानशाकुन्तलम्, मेघदूतम्, रघुवंशम्, उत्तररामचरितम् (दण्डकारण्ये रामभद्रस्य दुःखवर्णनम्), कुमारसंभवम् (विशिष्य तृतीयसर्गः, अष्टमसर्गश्च), नैषधीयचरितम् (आदिसर्गाः – दमयन्त्याः सौन्दर्यवर्णनम्)
- सरसिजमनुविद्धं शैवलेनापि रम्यं... – हृदयङ्गमा अर्थव्यक्तिगुणयुक्ता भाषा।
- चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वन्त्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ (शाकुन्तलम्) - ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥ (गीतगोविन्दम्) - स्मितेन कोपेन मदालसेन निरीक्षितेन भ्रुवविभ्रमेण ।
तया गृहीतं सुकुमारचित्तं मृगस्य कण्ठे इव रज्जुपाशः ॥ (शृङ्गारषटकम्)
गौडी¶
- लक्षणम्: ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः। समासबहुला गौडी... (९.३)। अत्र महाप्राणवर्णाः, द्वित्वयुक्ताः वर्णाः, सुदीर्घाः समासाश्च भवन्ति।
- वर्णयोजना – अस्यां रीतौ श्रोतुः चित्ते दीप्तिं जनयितुं कर्कशवर्णानां प्रयोगः क्रियते:
- वर्गप्रथमतृतीययोः चतुर्थद्वतीययोगः: अर्थात् क-ग-च-ज-वर्णानां ख-घ-छ-झ-वर्णैः सह संयोगः।
- मूर्धन्यवर्णानां बाहुल्यम्: ट-ठ-ड-ढ-वर्णानां साटोपः प्रयोगः।
- रेफसंयोगः: वर्णानां उपरि अधः वा रेफस्य (र्) प्रयोगः (यथा— विक्रान्त, खड्ग)।
- श-ष-वर्णानां प्रयोगः: एते वर्णाः ओजःप्रदाः मन्यन्ते।
- मुख्यविशेषता – अस्याः रीतेः प्रधानं लक्षणं दीर्घसमासत्वम्, ओजो गुणस्य आधिक्यम् । अत्र पदानां सीमा न भवति; एकैकं वाक्यं समग्रं पृष्ठं व्याप्य तिष्ठति। एतदेव कारणं यत् एषा रीतिः गद्यकाव्येषु (विशेषतः कथा-आख्यायिकयोः) अधिकं दृश्यते।
- ओजःप्रकाशकवर्णाः, बन्धो गाढः, दीर्घसमासकुलत्वम्, महाप्राणवर्णाः ।
- रौद्र-वीर-बीभत्स-रसविवरणाय अनिवार्या ।
- कवयः –
- भवभूतिः – उत्तररामचरितस्य युद्धवर्णनप्रसङ्गे गौडीरीतेः साम्राज्यं दृश्यते।
- बाणभट्टः – हर्षचरिते सः अस्याः रीतेः अप्रतिमः स्वामी वर्तते इति श्रूयते।
- उदाहरणम् – उत्तररामचरितस्य मङ्गलश्लोकः वा युद्धवर्णनानि। शब्दाडम्बरस्य पराकाष्ठा अत्रैव दृश्यते। वेणीसंहारः, महावीरचरितम्, हर्षचरितम्, अनर्घराघवम् ।
- प्रचलत्करिकृत्तिपर्यन्तचञ्चन्नखाघातभिन्नेन्दुनिष्यन्दमानप्रलेपीभवद्बालशीतांशुलेखाविलेपः । (मालतीमाधवम्)
- रक्तप्रसाधितशरीरपरम्पराणां पातैश्च चटचटायितसत्त्वसङ्घातसङ्कटेषु ।
उत्पिण्डितोच्छ्वसितशस्त्रमहोत्सवार्तदन्तान्तरालतरलास्थिपरम्परासु ॥ (वेणिसंहारः) - कण्ठकच्छपकुटीरकोटरक्रोडकुण्डलितकुण्डलीश्वरः । (अनर्घराघवम्)
पाञ्चाली¶
- लक्षणम् – वर्णैः शेषैः पुनर्बन्धः सारल्यसुकुमारयोः। समस्तपञ्चषपदो बन्धः पाञ्चालिका मता॥ । अत्र वैदर्भीवत् माधुर्यं नास्ति, गौडीवत् कर्कशतापि नास्ति। पञ्च-षट् पदानां समासाः अत्र प्रायशः भवन्ति।
- वर्णयोजना – वैदर्भी-गौड्योः कृते उक्तान् वर्णान् विहाय शेषैः वर्णैः (अवशिष्टैः वर्णैः) युक्ता, सारल्य-सौकुमार्य गुणविशिष्टा, तथा च यत्र पञ्च-षट् पदघटिताः समासाः भवन्ति, सा पाञ्चाली रीतिः।
- मुख्यविशेषताः – मध्यम-समासाः, वर्ण-माधुर्यम्, छाया-सादृश्यम् (अर्थस्य भावस्य च सुन्दरं मिश्रणं भवति) – छायारीतिः ।
- माधुर्य-सौकुमार्य-उपपन्ना, पञ्च-षट्-पद-विग्रहो बन्धः, रीतिः शिथिलबन्धना
- शृङ्गारअद्भुत-रस-पोषिका ।
- कविः – श्रीहर्षः (नैषधीयचरिते क्वचित्)। बाणभट्टः (कादम्बर्याम् – क्वचित्) ।
- उदाहरणम् – नैषधीयचरितम्। मेघदूतम् (उत्तरमेघः) । रत्नावली । कादम्बरी (जाबाल्याश्रमविवरणम्), मालतीमाधवम् (शृङ्गारविषयकभागः) ।
- तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ (मेघदूतम्) - विजितशशधररुचिना वदनकमलेन मुग्धबालायाः ।
अधिगतमधिकं किमपि प्रफुल्लपद्मैः सुगन्धिना मधुना ॥ (रत्नावली) - कनकनिकषगौरैः सान्द्रदूर्वाङ्कुरेषु
प्रकटितपुलकाग्रैः शालिगर्भान्तरेषु । (अनर्घराघवम्)
- तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
लाटी¶
यस्यां रीतौ न तु वैदर्भीवत् अत्यन्तं समासाभावः भवति, न च पाञ्चालीवत् मध्यमप्रकाराः समासाः, किन्तु उभयोः मध्यमा स्थितिः वर्तते, सा लाटी (लाटिका) इति उच्यते। अत्र लाटदेशस्य (वर्तमान-गुजरात-प्रान्तस्य) कवीनां अभिरुचिः अधिकमासीत्, अतः अस्याः लाटी इति नाम जातम्!
- लक्षणम्: वैदर्भीपाञ्चाल्योः रीतिरन्तरा लाटिका भवेत्। अत्र शब्दालङ्काराणां (विशेषतः लाटानुप्रासस्य) बाहुल्यं भवति।
- मुख्यविशेषताः – मध्यम-कोमल-वर्णाः, अल्प-समासाः, शब्दालङ्कार-प्रियता ।
- शब्दालङ्कारप्राधान्यम् – अस्यां रीतौ अर्थालङ्कारापेक्षया शब्दालङ्काराणां (यथा— अनुप्रासस्य) चमत्कारः अधिकः भवति।
- लाटानुप्रासः – अस्याः रीतेः प्राणभूतः अलङ्कारः लाटानुप्रासः एव। यत्र अर्थस्य अभेदेऽपि तात्पर्यभेदेन शब्दानां पुनरुक्तिः भवति (यथा— कमलं कमलं, नयनं नयनं), तत्र एषा रीतिः अतीव शोभते।
- मृदुरचना – इयं रीतिः शृङ्गाररसे अतीव उपयुक्ता भवति, यतो ह्यत्र शब्दाः कर्णप्रियाः भवन्ति।
- नाटकानां प्रस्तावनायां बाहुल्येन दृश्यते ।
- कविः – राजशेखरः (कर्पूरमञ्जर्याम्)।
- उदाहरणम् – कथासरित्सागर । दशकुमारचरितम् । कर्पूरमञ्जरी । गीतगोविन्दम् ।
- सितकर-कर-विशद-दिगन्तर-विलसित-यशो-राशे ।
- तन्वी मेघजालैः सा सान्द्रैः पश्यति नभस्तलम् ।
चपला-चपला-चक्षुः सा पुनः क्वापि गच्छति ॥ (विक्रमोर्वशीयम्) - स्निग्ध-मधुर-शब्दावलि-मञ्जुल-मञ्जीर-सिञ्जित-प्रायम् ।