कुमारसम्भवम् — पञ्चमः सर्गः¶
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥०॥
तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥१॥
अन्वयः – पार्वती तथा समक्षं मनोभवं दहता पिनाकिना भग्नमनोरथा सती हृदयेन रूपं निनिन्द, चारुता प्रियेषु सौभाग्यफला भवति ।
पदार्थः – पार्वती = उमा । तथा = तेन प्रकारेण । समक्षम् = पुरता । मनोभवं = कामदेवं । दहता = भस्मीकुर्वता । पिनाकिना=महेश्वरेण । भग्नमनोरथा = खण्डिताभिलाषा । सती = भवन्ती । हृदयेन = मनसा । रूपं = सौन्दर्यम्। निनिन्द = निन्दितवती (धिङ्में रूपं यद् हरमनोहरणाय न समर्थमिति गर्हितवतीत्यर्थः) । युक्तं चैतद् इत्याह – चारुता = सौन्दर्य, प्रिपेषु = वल्लभेषु, सौभाग्यफला = प्रियवाल्लभ्यफला, भवतीति शेषः ।
व्युत्पत्तिः – पार्वती = पर्वतस्यापत्यं स्त्री पार्वती [४।१।२५ टिड्ढाणञ्० इत्यादिना ङीप् ] । समक्षम् = अक्ष्णोः समीपम् समक्षम् [२।१।६ अव्ययं विभक्तिसमीपसमृद्धि० इत्यादिना अभ्ययीभावः] । मनोभवं = मनसि भवतीति मनोभवः, तं मनोभवम्। दहता = दहतीति दहन् तेन दहता। पिनाकिना = पिनाकः अस्यास्तीति पिनाकी, तेन पिनाकिना । भग्नमनोरथा = भग्नः(नष्टः) मनोरथः (हरप्राप्तिरूपोऽभिलाषः) यस्याः सा भग्नमनोरथा । सती = अस्तीति, सती। हृदयेन = मनसा । चारुता = चारोर्भावश्चारुता [तल्प्रत्ययः ] । प्रियेषु = प्रीणन्तीति प्रियाः, तेषु प्रियेषु [वैषयिकी सप्तमीयम् ] । सौभाग्यं फलं यस्याः सा सौभाग्यफला ।
सञ्जीविनी – तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । 'अव्ययं विभक्तिसमीपसमृद्धि- ' इत्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रूपं सौन्दर्यं निनिन्द | धिङ्मे रूपं यद्धरमनोहरणाय नालमिति गर्हितवतीत्यर्थः । युक्तं चैतदित्याह -- तथाहि । चारुता सौन्दयं प्रियेषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ताः । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन् सर्गे वंशस्थं वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ।
भावार्थः – पूर्वोकप्रकारेणात्मनः प्रत्यक्षं कामदेवं भस्मावशेषतामेव प्रापयता हरेण भाविहरजायात्वलक्षणमनोरथस्य भङ्गं प्रापितत्वात्, पार्वती स्वकीयं स्वाभाविकं सौन्दर्यं मनसा निन्दितवती । प्रियविषयकं सौभाग्यमित्येकमेव हि सुन्दरतायाः फलं, तदभावे किं रूपसम्पदेति भावः ।
कोशः – इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः इत्यमरः । चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः इत्यमरः ।
इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥२॥
अन्वयः – सा समाधिम् आस्थाय तपोभिः आत्मनः अवन्ध्यरूपतां कर्तुम् इयेष । अन्यथा तथाविधं प्रेम तादृशः पतिश्च तद् द्वयं कथं वा अवाप्यते ।
पदार्थः – सा = पार्वती। समाधिम् = एकाग्रताम्। आस्थाय = अवलम्ब्य। तपोभिः= व्रतविशेषैः (वक्ष्यमाणैरिति शेषः)। आत्मनः = स्वस्य। अवन्ध्यरूपतां = सफलसौन्दर्यम्। कर्तुं = विधातुम्। इयेष = इच्छति स्मेत्यर्थः। अन्यथा = अन्यप्रकारेण (लौकिकोपावर्तनमात्रेणेत्यर्थः) । तथाविधं = तादृर्शम्। प्रेम = स्नेहः (येन अर्थाऽङ्गहरा शिवस्य भवेदिति यावत्)। तादृशः = तथाविधः। पतिश्च = स्वामी च (यो मृत्युंजय इति यावत्)। तत् द्वयं = तत् उभयम्। कथं वा = केन प्रकारेण वा। अवाप्यते = प्राप्यते ।
व्युत्पत्तिः – अवन्ध्यरूपताम् = न वन्ध्यमवन्ध्यम् अवन्ध्यं च तद्रूपम्, अवन्ध्यरूपम्, तस्य भावः अवन्ध्यरूपता, ताम् अवन्ध्यरूपतां । यद्वा अवन्ध्यं रूपं यस्याः सा अवन्ध्यरूपा, तस्याः भावः अवन्ध्यरूपता, ताम् अवन्ध्यरूपतां । तथाविधं = तथा विधा यस्य तत् यथाविधम् । द्वयम् = द्वौ अवयवौ यस्य तद् द्वयं [५।२।४२ संख्याया अवयवे तयप् इति तयप् ],
सञ्जीविनी – इयेषेति । सा पर्वती समाधिमेकाग्रतामास्थायावलम्ब्य तपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्यावन्ध्यरूपतां सफलसौन्दर्यं कर्तुमियेषेच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद् द्वयमवाप्यते । किं तद् द्वयम् । तथाभूता विधा प्रकारो यस्य तत्तथाविधं प्रेम स्नेहः येनार्धाङ्गहरा हरस्य भवेदितिभावः । तादृशः पतिश्च । यो मृत्युञ्जय इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वञ्चेति । तच्च तपश्चर्यैकसाध्यमिति । निश्चिकायेत्यर्थः अत्र मनुः -- ' यद्दुष्करं यद्दुरापं यद्दुर्गं यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं तपो हि दुरितक्रमम् ॥' इति
भावार्थः – सा पार्वती चित्तैकाग्र्यमवलम्ब्य तपश्चर्याभिः हरप्राप्तिस्वमनोरथस्य साफल्यं प्रापयितुम् इष्टवती । तदभावे स्वशरीरार्द्धप्रदः पत्युः स्नेहः, अनन्यनारीभाक् पतिश्चेत्येतद् द्वयं कथं लभ्यते न कथञ्चिदिति भावः ।
कोशः – प्रेमा ना प्रियता हार्दं प्रेम स्नेहः इत्यमरः । अत्राह मनुः "बद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् सत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्” इति ।
निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥३॥
अन्वयः – मेना गिरीशप्रतिसक्तमानसां तपसे कृतोद्यमां सुतां निशम्य एनां वचसा परिरभ्य महतः मुनिव्रतात् निवारयन्ती (सती) उवाच ।
पदार्थः – मेना = मेनका (हिमालयपत्नीत्यर्थः) । गिरीशप्रतिसक्तमानसां = हरासक्तचित्ताम् । तपसे= तपश्चरणाय । कृतोद्यमां= विहितोद्योगाम् । सुतां = पुत्रीं गौरीमित्यर्थः । निशम्य = श्रुत्वा। एनां = पार्वतीम् । वक्षसा = उरसा । परिरभ्य = आलिङ्ग्य । महतः = बृहतः । मुनिव्रतात् = तपसः । निवारयन्ती = निराकुर्वती । उवाच = अब्रवीत् ।
व्युत्पत्तिः – गिरीशप्रतिसक्तमानसां = गिरेः ईशः गिरीशः, गिरीशे प्रतिसक्तं गिरीशप्रतिसक्तं, मन एव मानसं [मनश्शब्दात् स्वार्थे अण् ], गिरीशप्रतिसक्तं मानसं यस्याः सा गिरीशप्रतिसक्तमानसा, तां गिरीशप्रतिसतमानसाम्। कृतोद्यमां = कृतः उद्यमः यया सा कृतोद्यमा, तां कृतोद्यमाम्। मुनिव्रतात् = मुनेः व्रतम् मुनिव्रतं, तस्मात् मुनिव्रतात्।
सञ्जीविनी – निशम्येति ॥ मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्ग्य महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनिप्सितत्वात् 'वारणार्थानामीप्सितः' इति नापादानत्त्वमेव तथापि कृतोद्यमामिति मानसप्रवेशोक्तत्वात् 'ध्रुवमपायेऽपादानम्' इति अपादानत्वमेव स्यात् । यथाह भाष्यकारः – यच्च मिथ्या संप्राप्य निवर्तते तच्च ध्रुवमपायेऽपादानमिति प्रसिद्धम् इति ।
भावार्थः – अथ माता मेना सुतां पार्वतीं तपश्चरणकृतनिश्चयां हरासक्तचित्तां च तत्सखीमुखादवगम्योरसा गाढमालिङ्ग्यात्यन्तदुश्चरात्तपसः प्रतिषेधं कुर्वती सती वच्यमाणं जगादेति भावः ।
व्याकरणः – मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् "१।४।२७ वारणार्थानामीप्सितः " इति नापादानत्वं, तथाऽपि कृतोद्यमामिति मानसप्रवेशोक्तत्वात् "१।४।२४ ध्रुवमपायेऽपादानम् " इत्यपादानत्वमेव स्यात् । यथाऽऽह भाष्यकारः – " यच्च मिथ्या संप्राप्य निवर्तते तच्च ध्रुवमपायेऽपादानमिति प्रसिद्धम् ।" इति मल्लिनाथः । वस्तुतस्तु भाष्यादौ वारणार्थानामिति सूत्रे कर्तुरित्यनुवृत्तेरप्रदर्शितत्वात् प्रकृते मेनायास्तदनीप्सितत्वेऽपि पार्वत्या मुनिव्रतस्याभीप्सितत्वात् वारणार्थानामित्यनेनैवापादानत्वेन काप्यनुपपत्तिरिति बोध्यम् ।
कोशः – भूतेशः खण्डपरशुगिरीशो गिरिशो मृडः इत्यमरः ।
मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्त्रिणः ॥४॥
अन्वयः – हे वत्से! मनीषिताः देवता गृहेषु सन्ति। तपः क्व? तावकं वपुश्च क्व? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत, पतत्त्रिणः पुनः पदं न सहेत ।
पदार्थः – वत्से = हे पुत्रि । मनीषिताः = अभीष्टाः। देवताः = देवाः। गृहेषु = भवनेषु । सन्ति = विद्यन्ते। त्वं ता आराधय इति शेषः । तपः = नियमव्रतम् । क्व = कुत्र । तावकं = त्वदीयम्। वपुश्च = शरीरं च । क्व = कुत्र। पेलवं = मृदुलं (कोमलम्) । शिरीषपुष्पं = शिरीषकुसुमम् । भ्रमरस्य = भृङ्गस्य । पदं = चरणस्थितिः । सहेत = मर्षयेत् । पतत्त्रिणः पुनः = पक्षिणस्तु चरणस्थितिम् । न सहेत = न मर्षयेत् ।
व्युत्पत्तिः – मनीषिताः = मनस ईषिताः इष्टाः [६।१।९४ एङि पररूपम् । शकन्ध्वादिषु पररूपं वाच्यम् - मनीषा इति शकन्धगणे] । देवताः = देवा एव देवताः [स्वाऽर्थे तल् ]। तावकं= तव इदं तावकं [४।३।१ युष्मदस्मदोरन्यतरस्यां खञ्च इत्यण् प्रत्ययः, ४।३।३ तवकममकावेकवचने इति तवकादेशः, ७।२।११७ तद्धितेष्वचामादेः इत्यादिष्वृद्धिश्च ] शिरीषपुष्पं = शिरीषस्य पुष्पं शिरीषपुष्पम् । पतत्रिणः = पतनम् अस्ति अस्य इति पतत्री, तस्य पतत्रिणः [इनिप्रत्ययः ] ।
सञ्जीविनी – मनीषिता इति ॥ हे वत्से, मनस ईषिता इष्टा मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति । त्वं ता आराधयेति शेषः । तपः क्व ? तवेदं तावकम् । 'युष्मदस्मदोरन्यतरस्यां खञ्च' इत्यण्प्रत्ययः । तवकममकावेकवचन' इति तवकादेशः । वपुश्च क्व ? तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगभोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः । अत्र दृष्टान्तालङ्कारः ।
अलङ्कारः – पूर्वार्द्धे विषमालङ्कारः तल्लक्षणं यथा क्वचिद् यदतिवैषम्यान्न श्लेषो घटनामियाद् । उत्तरार्द्धे तु अर्थान्तरन्यासालङ्कारः । तल्लक्षणम् - सामान्यं वा विशेषेण विशेषस्तेन वा यदि। कार्यं च कारणेनेदं कार्येण च समर्थ्यते॥ यदा एकस्य अर्थस्य समर्थनाय अन्यस्य अर्थस्य उपस्थापनं क्रियते तदा अर्थान्तरन्यासः अलङ्कारः भवति।
भावार्थः – हे पुत्रि, इष्टार्थप्रदाः प्रतिमारूपेण वर्तमाना इन्द्राण्याद्याः देवताः स्वगृहेष्वेव विद्यमानाः सन्ति, ता एव यथेष्टं पूजय कठिनशरीरैर्मुनिभिरेव कर्तुं शक्यमिदं तपः क्व । अत्यन्तकोमलं तव शरीरं च क्व? यथा भ्रमरावस्थानक्षमं शिरीषकुसुमं पिकाद्यवस्थानं न सहते, तथा कोमलतरं तव शरीरं कठिनशरीरसाध्यं तपश्चरितुमक्षममेवेति भावः ।
कोशः – वृन्दारका देवतानि पुंसि वा देवताः स्त्रियाम् इत्यमरः । गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः इत्यमरः । पेलवं कोमलम् इति त्रिकाण्डशेषः । पत्रत्रिपत्रिपतगपतत्पत्ररथाऽण्डजाः इत्यमरः ।
इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥५॥
अन्वयः – इति अनुशासती मेना ध्रुवेच्छां सुताम् उद्यमात् नियन्तुं न शशाक । ईप्सितार्थस्थिरनिश्चयं मनः निम्नाभिमुखं पयश्च कः प्रतीपयेत् ।
पदार्थः – इति= एवम् । अनुशासती = उपदिशन्ती। मेना=हिमवत्पत्नी। ध्रुवेच्छां = स्थिरव्यवसायाम्। सुतां = पुत्रीम् पार्वतीमित्यर्थः। उद्यमात् = उद्योगात् मुनिव्रतोद्योगादित्यर्थः । नियन्तुं = निवारयितुम्। न शशाक = न समर्था अभूत् । ईप्सितार्थस्थिरनिश्चयम् = इष्टार्थदृढनिश्चयम् । मनः = चितम्। निम्नाभिमुखं = निम्नप्रवणम्। पयश्च = जलं च । प्रतीपयेत् = प्रतिकूलयेत्, प्रतिनिवर्तयेत् न कोऽपीत्यर्थः (प्रतीपो नाम विरुद्धः । प्रतीपयति इति नामधातुरूपम्)।
व्युत्पत्तिः – ध्रुवेच्छां = ध्रुवा इच्छा यस्याः सा ध्रुवेच्छा, तां ध्रुवेच्छाम् । ईप्सितार्थस्थिरनिश्चयम् = ईप्सितश्चासौ अर्थः ईप्सितार्थः, स्थिरः निश्चयः यस्य तत् स्थिरनिश्चयम्, ईप्सितार्थे स्थिरनिश्चयम् ईप्सितार्थस्थरनिश्चयं, तत् । निम्नाभिमुखं = निम्ने अभिमुखं, निम्नाभिमुखं, तत् निम्नप्रदेशं प्रत्यभिमुखं कृतप्रवाहमित्यर्थः ।
सञ्जीविनी – इतीति । इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीमुद्यमादुद्योगात्तपोलक्षणान्नियन्तुं न शशाक समर्था नाभूत् । तथाहि । ईप्सितार्थे इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपयेत्प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालङ्कारः ।
भावार्थः – पूर्वोक्तप्रकारेणोपदिशन्ती मेना स्वपुत्रीं पार्वतीं मुनिव्रतोद्योगात् निवर्तयितुं न शक्ताऽभूत्। अभीष्टवस्तुनि दृढनिश्चयं मानसमधःप्रदेशाभिमुखं कृतप्रवाहं जलञ्च कः प्रतिनिवर्तयेत् । न कोऽपीति भावः ।
कोशः – पयः कीलालममृतं जीवनं भुवनं वनम् इत्यमरः ।
कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी । अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥६॥
अन्वयः – कदाचित् मनस्विनी सा मनोरथज्ञं पितरम् आसन्नसखीमुखेन फलोदयान्ताय तपःसमाधये आत्मनः अरण्यनिवासम् अयाचत ।
पदार्थः – कदाचित् = कस्मिंश्चित्समये। मनस्विनी = स्थिरचित्ता। सा = पार्वती। मनोरथज्ञम् = अभिलाषाभिज्ञम्। पितरं = तातं, हिमालयमित्यर्थः । आसन्नसखीमुखेन = आप्तसख्युपायेन। फलोदयान्ताय = फलोत्पत्त्यवधये। तपःसमाधये = तपोनियमार्थम्। आत्मनः = स्वस्य। अरण्यनिवासं= वनवासम्। अयाचत = याचितवती ।
व्युत्पत्तिः – मनस्विनी = प्रशस्तं मनः अस्या अस्तीति मनस्विनी । मनोरथज्ञं = मनोरथं जानातीति मनोरथज्ञः, तं मनोरथज्ञम् । आसन्नसखीमुखेन = आसन्ना चासौ सखी आसन्नसखी, आसन्नसख्या मुखम् आसन्नसखीमुखं, तेन आसन्नसखीमुखेन । फलोदयान्ताय = फलस्य उदयः फलोदयः, स अन्तः (अवधिः) यस्य स फलोदयान्तः, तस्मै फलोदयान्ताय । तपःसमाधये = तपसः समाधिः तपःसमाधिः, तस्मै तपःसमाधये। अरण्यनिवासम् = अरण्ये निवासः अरण्यनिवासः, तम् अरण्यनिवासम्।
सञ्जीविनी – कदाचिदिति ॥ अथ कदाचिन्मनस्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासन्नसख्याप्तसखी सैव मुखमुपायः । मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि इति विश्वः । तेन फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपः समाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत ।'दुह्याच्-' इत्यादिना द्विकर्मकत्वम् ।
भावार्थः – अथ दृढनिश्चया पार्वती प्रश्नावसरे लब्धे सति स्वाभिलाषाभिज्ञं पितरं हिमालयं निरन्तरसमीपवर्तिन्याः सख्या मुखेनाफलोदयं तपः कर्तुं स्वस्य वनवासं याचितवतीति भावः ।
व्याकरणः – मनस्विनी – मनःशब्दात् ५।२।१२१ अस्मायामेधास्रजो विनिः इति विनिप्रत्ययः, तदन्तात् ४।१।५ ऋन्नेभ्यो ङीप् इति ङीप् । मनोरथज्ञः – ३।२।३ आतोऽनुपसर्गे कः इति कप्रत्ययः । मनस्विनो लक्षणं यथा- महाकार्ये कृतोद्योगो विघ्नैराहतमानसः । प्रारब्धं न त्यजति यः स मनस्वीति कथ्यते ॥ इति
कोशः – आलिः सखी वयस्या च इत्यमरः । मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि इति विश्वः । अटव्यरण्यं विपिनं गहनं काननं वनम् इत्यमरः ।
अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ॥७॥
अन्वयः – अथ गौरी अनुरूपाऽभिनिवेशतोषिणा गरीयसा गुरुणा कृताऽभ्यनुज्ञा सती, पाश्चात् प्रजासु तदाख्यया प्रथितं शिखण्डिमत् शिखरं जगाम ।
पदार्थः – अथ = अनन्तरम्। गौरी = पार्वती। अनुरूपाऽभिनिवेशतोषिणा = योग्याग्रहसन्तुष्टेन। गरीयसा = पूज्यतमेन। गुरुणा =पित्रा, हिमालयनेत्यर्थः। कृताऽभ्यनुज्ञा = कृतानुमतिः सती, तपः कुरु इत्युक्त्या इत्यर्थः। पश्चात् = अनन्तरं, तपःसिद्ध्युत्तरकालमित्यर्थः । प्रजासु = जनेषु। तदाख्यया = तनाम्ना, गौरीनाम्नेत्यर्थः । प्रथितं = प्रख्यातं, गौरीशिखरमिति प्रसिद्धमित्यर्थः। शिखण्डिमत् = मयूरयुक्तम्। शिखरं = शृङ्गम्। जगाम = ययौ।
व्युत्पत्तिः – अनुरूपाभिनिवेशतोषिणा = अनुरूपश्चासौ अभिनिवेशः अनुरूपाभिनिवेशः, तेन तुष्यतीति अनुरूपाभिनिवेशतोषी, तेन अनुरूपाभिनिवेशतोषिणा [विनिप्रत्ययः ]। गरीयसा = अतिशयेन गुरुः गरीयान्, तेन गरीयसा [ईयसुन्प्रत्ययः ] । कृताभ्यनुज्ञा = कृता अभ्यनुज्ञा यस्यै सा कृताभ्यनुज्ञा । तदाख्यया = तस्या आख्या तदाख्या, तया तदाख्यया। शिखण्डिमत् = प्रशस्ताः शिखण्डिनः सन्ति यस्मिंस्तत् शिखण्डिमत् (तपःसौकर्यार्थं दुष्टसत्त्वानामभावोऽप्यनेन ध्वन्यते । न हि शार्दूलाद्यधिष्ठिते देशे शिखण्डिनस्तद्भयान्निवसन्ति।
सञ्जीविनी – अथेति । अथ गौर्यनुरूपेण योग्येनाभिनिवेशेनानुग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुर्विति कृतानुमतिः सती पश्चात्तपः सिद्ध्युत्तरकाले प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ।
भावार्थः – गौरीप्रार्थनां श्रुत्वा योग्यवराभिलाषोत्कर्षेण सन्तुष्यता पूज्येन पित्रा हिमालयेन तथास्त्विति प्राप्तानुमतिः सा गौरी तपःसिद्ध्युत्तरकालं गौरीचिरनिवासेनैव हेतुना जनेषु गौरीशिखरमिति नाम्ना प्रसिद्धतरं बहुबर्हियुक्तं हिमालयशिखरं प्रययाविति भावः ।
कोशः – उमा कात्यायनी गौरी काली हैमवतीश्वरी इत्यमरः । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः इत्यमरः ।
विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥८॥
अन्वयः – अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्तचन्दनं हारं विमुच्य बालाऽरुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्ध ।
पदार्थः – अहार्यनिश्चया = अनिवार्यनिर्णया। सा = गौरी। विलोलयष्टिप्रविलुप्तचन्दनं = चञ्चलप्रतिसरप्रमृष्टचन्दनम्। हारं = मुक्तावलीम् । विमुच्य = विहाय। बालाऽरुणबभ्रू = बालार्कऽपिङ्गलम्। पयोधरोत्सेधविशीर्णसंहति = स्तनोच्छ्रायविघटिताऽवयवसंश्लेषम्, स्तनावरणार्थमिति यावत् । वल्कलं = वल्कम्। बबन्ध = धारयामास ।
व्युत्पत्तिः – अहार्यनिश्चया = हर्तुं शक्यः हार्यः [३।१।१२४ ऋहलोर्ण्यत् इति ण्यत्प्रत्ययः, ७।२।११५ अचो ञ्णिति इति वृद्धिश्च ], न हार्यः अहार्यः, स निश्चयः यस्याः सा अहार्यनिश्चया। विलोलयष्टिप्रविलुप्तचन्दनं = विलोलाश्च ताः यष्टयः विलोलयष्टयः, प्रकर्षेण विलुप्तं प्रविलुप्तम्, प्रविलुप्तं चन्दनं स्तनाऽन्तर्गतमित्यर्थः, येन स प्रविलुप्तचन्दनः, विलोलयष्टिभिः प्रविलुप्तचन्दनः विलोलयष्टिप्रविलुप्तचन्दनः, तं विलोलयष्टिप्रविलुप्तचन्दनम् । बालाऽरुणबभ्रु = बालश्चासौ अरुणः बालाऽरुणः, बालाऽरुण इव बभ्रु बालाऽरुणबभ्रु तत् । पयोधरोत्सेधविशीर्णसंहति = धरतस्तौ धरौ, पयसां धरौ पयोधरौ, पयोधरयोः उत्सेधः पयोधरोत्सेधः, तेन विशीर्णा पयोधरोत्सेधविशीर्णा सा संहतिः (अवयवसंश्लेषः) यस्य, तत् । वल्कलं = कण्ठलम्बितस्तनोत्तरीयभूतमित्यर्थः ।
सञ्जीविनी – विमुच्येति ॥ अहार्यनिश्चयानिवार्यनिश्चया सा गौरी विलोलाभिश्चलाभिर्यष्टिभिः प्रतिसरैः प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तर्गतं येन तं तथोक्तं हारं मुक्तावलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोरुत्सेधेनोछ्रायेण विशीर्णा विघटिता संहतिरवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः ।
भावार्थः – अनिवार्याऽध्यवसाया सा पार्वती कुचतटहरिचन्दनाङ्कितां मुक्तावलीं विहाय बालार्कवत् पिङ्गलवर्णं स्तनोच्छ्रायविघटितावयवं वल्कलं स्तनाभोगे गाढं धारयामासेति भावः ।
कोशः – समौ निर्णयनिश्चयौ इत्यमरः । सूरसूतोऽरुणोऽनूरूः काश्यपिर्गरुडाऽग्रजः इत्यमरः । स्त्रीस्तनाब्दौ पयोधरौ इत्यमरः ।
यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् । न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥९॥
अन्वयः – तदाननं प्रसिद्धैः शिरोरूहैः यथा मधुरम् अभूत् । जटाभिरपि एवं मधुरम अभूत् । पङ्कजं षट्पदश्रेणिभिः एव न, किन्तु सशैवालासङ्गं सदपि प्रकाशते ।
पदार्थः – तदाननं = पार्वतीमुखं। प्रसिद्धैः = भूषितैः। शिरोरुहैः = केशैः। यथा = येन प्रकारेण। मधुरं = प्रियम्। अभूत् = अभवत् । जटाभिरपि = सटाभिरपि। एवं = तथा। मधुरं = प्रियम्। अभूत् = अभवत् । पङ्कजं = कमलम्। षट्पदश्रेणिभिः = भ्रमरपङ्क्तिभिः। न = नो। सशैवलासङ्गम् = शैवालसम्पर्कसहितम्। प्रकाशते = प्रकाशितं भवति ।
व्युत्पत्तिः – तदाननं = तस्या आननं तदाननं । । शिरोरहैः = रोहन्तीति रुहाः [३।१।१३५ इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः ], शिरसि रुहाः शिरोरुहाः, तैः शिरोरुहैः। षट्पदश्रेणिभिः = षट् पदानि येषां ते षट्पदाः, तेषां श्रेणयः षट्पदश्रेणयः, ताभिः षट्पदश्रेणिभिः । सशैवलासङ्गम् = शैवलानाम् आसङ्गः शैवलासङ्गः, तेन सह वर्तते, तत् सशैवलासङ्गम् [२।२।२८ तेन सहेति तुल्ययोग इति बहुव्रीहिः ] ।
सञ्जीविनी – यथेति । तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । ' प्रसिद्धो ख्यातभूषितौ' इत्यमरः । रोहन्तीति रुहाः । ' इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । 'स्वादुप्रियो तु मधुरी' इत्यमरः । जटाभिरप्येवं मधुरमभूत् । तथाहि पङ्कजं पद्म षट्पदश्रेणिभिर्भ्रमरपङ्क्तिभिरेव न किन्तु सहशैवालसङ्गेन सशैवलासङ्गमपि । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । प्रकाशते । शैवालेनापि शोभत एवेत्यर्थः ।
भावार्थः – यथा तपःकालात् पूर्वं पार्वतीमुखं चूर्णकुसुमाद्यलङ्कृतैः केशैर्मनोहरमासीत्, तथैव तपःकालेऽपि जटाभिर्मनोहरमासीत्। कमलं केवलं भ्रमरपक्तिभिरेव न शोभते, अपि तु शैवालसम्पर्कसहितमपि तथैव शोभत इति भावः ।
कोशः – प्रसिद्धौ ख्यातभूषितौ इत्यमरः । चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः इत्यमरः । स्वादुप्रियौ तु मधुरो इत्यमरः ।
प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रशनागुणास्पदम् ॥१०॥
अन्वयः – सा प्रतिक्षणं कृतरोमविक्रियां मौञ्जीं व्रताय बभार, तत्पूर्वं निबद्धया तया अस्याः रशनागुणास्पदं सरागम् अकारि ।
पदार्थः – सा = पार्वती। प्रतिक्षणं = क्षणे क्षणे। कृतरोमविक्रियां = कृतरोमाञ्चां, पारुष्यादिति हेतोः । त्रिगुणां = त्रिरावृतां। यां, मौञ्जीं = मुञ्जमयीं मेखलाम्। व्रताय = तपसे। बभार = दधौ। तत्पूर्वनिबद्धया = तत्प्रथमबद्धया। तया = मौञ्ज्या। अस्याः = पार्वत्याः । रशनागुणास्पदं = मेखलासूत्रस्थानं, जघनमित्यर्थः । सरागं = लोहितम्। अकारि = कृतम्, सौकुमार्याऽतिशयादित्यर्थः ।
व्युत्पत्तिः – प्रतिक्षणं = क्षणे क्षणे इति प्रतिक्षणम् [वीप्सायामव्ययीभावः ]। कृतरोमविक्रियां = रोम्णां विक्रिया रोमविक्रिया, कृता रोमविक्रिया यया सा कृतरोमविक्रिया, तां कृतरोमविक्रियाम्। त्रिगुणां = त्रयः गुणाः यस्याः सा त्रिगुणा, तां विगुणाम्। मौञ्जीं = मुञ्जस्य विकारः मौञ्जी, तां मौञ्जीम् [४।१।१३४ तस्य विकारः इत्यण्, ४।१।१५ टिढ्ढाण० इत्यादिना ङीप्]। तत्पूर्वनिबद्धया = तदेव पूर्वं यस्य तत् तत्पूर्वं, तत्पूर्वं यथा स्यात्तथा निबद्धा, तत्पूर्वनिबद्धा, तया तत्पूर्वनिबद्धया । रशनागुणास्पदं = रशनायाः गुणः रशनागुणः, तस्य आस्पदं रशनागुणास्पदम् । सरागं = रागेण सहितं सरागम् [तत्पुरुषः ] ।
सञ्जीविनी – प्रतीति ॥ सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृतां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्यास्या देव्या रसना गुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकारि कृतम् । सौकुर्मायातिशयादिति भावः ।
अलङ्कारः – अत्र रशनागुणास्पदशब्देन रशनां परित्यज्य तत्स्थाने मौजीबन्धनं द्योत्यत इति परिवृत्तिरलङ्कारो ध्वन्यते ।
भावार्थः – सा चिरपरिचितां रशनां परित्यज्य सम्प्रति तपः कर्तुं तत्स्थाने त्रिरावृतां दुःसहत्वेन क्षणे क्षणे विहितरोमाञ्चां मौञ्जीमबध्नात् । इदम्पूर्वनिबद्धया तया मौञ्ज्या पार्वत्या जघनमारुण्यगुणयुक्तं कृतम् ।
विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥११॥
अन्वयः – तया विसृष्टरागात् अधरात् निवर्तितः, स्तनाऽङ्गरागाऽरुणितात् कन्दुकाच्च निवर्तितः, कुशाऽङ्कुरादानपरिक्षताऽङ्गुलिः करः अक्षसूत्रप्रणयी कृतः ।
पदार्थः – तथा = पार्वत्या। विसृष्टरागात् = त्यक्तलाक्षारसरञ्जनात्। अधरात् = ओष्ठात्, अधरोष्ठादित्यर्थः। निवर्तितः = निवारितः। स्तनाऽङ्गरागाऽरुणितात् = कुचाऽङ्गरागरक्तात्, पतनसमये तस्य स्तनयोरुपरोधादित्यर्थः। कन्दुकाञ्च = गेन्दुकाच्च। निवर्तितः = निवारितः। कुशाऽङ्कुरादानपरिक्षताङ्गुलिः = दर्भाऽङ्कुरग्रहणव्रणिताङ्गुलिः। करः = हस्तः। अक्षसूत्रप्रणयी = अक्षमालासहचरः। कृतः = विहितः ।
व्युत्पत्तिः – विसृष्टरागात् = विसृष्टः रागः यस्मात् स विसृष्टरागः, तस्मात् विसृष्टरागात् । स्तनाऽङ्गरागाऽरुणितात् = स्तनस्य अङ्गरागः स्तनाङ्गरागः, अरुणः सञ्जातः अस्य सः अरुणितः [५।२।३६ तदस्य सञ्जातं तारकादिभ्य इतच् इतीतच् ] । स्तनाऽङ्गरागेण अरुणितः स्तनाऽङ्गरागाऽरुणितः, तस्मात् स्तनाऽङ्गरागाऽरुणितात् । कुशाङ्कुरादानपरिक्षताऽङ्गुलिः = कुशानाम् अङ्कुराः कुशाऽङ्कुराः, कुशाङ्कुराणाम् आदानं कुशाङ्कुरादानं, तेन परिक्षताः कुशाङ्कुरादानपरिक्षताः, ताः अङ्गुलयः यस्य स कुशाङ्कुरादानपरिक्षताऽङ्गुलिः । अक्षसूत्रप्रणयी = अक्षाणां सूत्रम् अक्षसूत्रं, प्रणयः अस्यास्तीति प्रणयी [इनिप्रत्ययः ]। अक्षसूत्रे प्रणयी अक्षसूत्रप्रणयी।
सञ्जीविनी – विसृष्टेति ॥ तथा देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जनादधरादधरोष्ठानिवर्तितः । 'निसृष्ट रागात्' इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा स्तनाङ्गरागेणारुणितादरुणीकृतात् । पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकाच्च निवर्तितः । कुशाङ्कुराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिरक्षसूत्र प्रणय्यक्षमालासहचरः कृतः ।
भावार्थः – पार्वती तपस्समये निजकरमधररञ्जनकन्दुकाघातरूपात् कार्यद्वयात् निवार्य कुशाङ्कुरादानाक्षमालापरिवर्तनरूपकार्यद्वयपरमकरोदिति भावः
कोशः – ओष्ठाधरौ तु रदनच्छदौ दशनवाससी इत्यमरः । अव्यक्तरागस्त्वरुणः इत्यमरः । गेन्दुकः कन्दुकः इत्यमरः । अस्त्री कुशं कुथो दर्भः पवित्रम् इत्यमरः ।
महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥१२॥
अन्वयः – महाऽर्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैः अपि या दूयते स्म । सा बाहुलतोपधायिनी सती केवले स्थण्डिले एव निषेदुषी सती अशेत ।
पदार्थः – महाशय्यापरिवर्तनच्युतैः = बहुमूल्यशयनीयलुण्ठनपतितैः। स्वकेशपुष्पैः अपि = आत्मकुन्तलकुसुमैः अपि। या = पार्वती। दूयते स्म = क्लिश्यते स्म, पुष्पाधिकसुकुमारत्वादित्यर्थः। सा = पार्वती। बाहुलतोपधायिनी = भुजलतोपबर्हकारिणी सती। केवले = संस्तरणरहिते। स्थण्डिले एव = भूमौ एव। दिवा निषेदुषी सती = उपविष्टा सती। रात्रौ अशेत = शयितवती ।
व्युत्पत्तिः – महाऽर्हशय्यापरिवर्तनच्युतैः = महान् अर्हः (मूल्यं) यस्याः सा महा, शय्यते अत्र शय्या, महार्हा चाऽसौ शय्या, महार्हशय्या, तस्यां परिवर्तनं महार्हशय्यापरिवर्तनं, तेन च्युतानि महार्हशय्यापरिवर्तनच्युतानि, तैः महार्हशय्यापरिवर्तनच्युतैः । स्वकेशपुष्पैः = स्वे च ते केशाः स्वकेशाः, स्वकेशानां पुष्पाणि स्वकेशपुष्पाणि, तैः स्वकेशपुष्पैः। बाहुलतोपधायिनी = बाहुरेव लता इति बाहुलता, ताम् उपधत्ते = उपधानीकरोति, तच्छीला इति बाहुलतोपधायिनी, [३।२।८० व्रते इति सूत्रेण णिनिप्रत्ययः । ७।३।३३ आतो युक् चिण्कृतोः इति युक् च ] । निषेदुषी [षद्लृ, विशरणगत्यवसादनेषु इति धातोः निपूर्वात् ३।२।१०७ क्वसुश्च इति लिटः क्वसु , स्त्रीत्वविवक्षायाम् ४।१।६ उगितश्च इति ङीप् ]। दिवसेषु स्थण्डिल एवाऽवस्थिता सती निशायां तत्रैवाशेतेत्यर्थः।
सञ्जीविनी – महार्हति ॥ महानर्हो मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतै भ्रंष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म क्लिश्यते स्म । पुष्पाधिकसौकुमार्यादिति भावः । सा देवी बाहुलतामुपधत्त उपधानीकरोतीति बाहुलतोपधायिनी सती केवले संस्तरणरहिते स्थण्डिले भूमावेवाशेत शयितवती । तथा निषेदुष्युपविष्टा च । 'क्वसुश्च' इति क्वसुः । ' उगितश्च' इति ङीप् । भूमावेव शयनादिव्यवहारो न जातूपरीत्यर्थः ।
भावार्थः – या पार्वती पूर्वं हंसतुलगर्भशयने शयाना सती, तत्र विवलनपतितैः स्वकेशकुसुमैरपि सुकुमारशरीरत्वात् परितापं प्रापत् सा सम्प्रति प्रच्छदपटमात्रेणापि रहिते केवले भूतले बाहुलतामुपधानीकृत्योपविष्टैवाशेतेति भावः ।
कोशः – शय्यायां शयनीयवत् शयनम् इत्यमरः । उपधानं तूपबर्ह इत्यमरः । संस्कृता भूमिः सथण्डिलम् ।
पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥१३॥
अन्वयः – नियमस्थया तथा तन्वीषु लतासु विलासचेष्टितं हरिणाऽङ्गनासु विलोलदृष्टं च द्वये अपि द्वयं पुनः ग्रहीतुं निक्षेपः अर्पितम् इव ।
पदार्थः – नियमस्थया = व्रतस्थया। तया = पार्वत्या। तन्वीषु = कृशाऽवयवासु। लतासु = वल्लीषु। विलासचेष्टितं = विभ्रमचेष्टितम्। हरिणाऽङ्गनासु = मृगीषु। विलोलदृष्टं = चञ्चलावलोकितम् । द्वये अपि = उभयत्र अपि। द्वयं = द्वितयम्। पुनः = भूयः। ग्रहीतुं = स्वीकर्तुम्। निक्षेपः = न्यासः। अर्पितम् इव = न्यस्तम् इव, न्यासत्वेन समर्पितं किमु इत्यर्थः ।
व्युत्पत्तिः – नियमस्थया = नियमे तिष्ठतीति, नियमस्था, तया नियमस्थया। विलासचेष्टितं = विलास एव चेष्टितम् इति विलासचेष्टितं [मयूरव्यंसकादयश्च इति रूपकसमासः ]। हरिणाऽङ्गनासु = हरिणानाम् अङ्गनाः हरिणाऽङ्गनाः, ताम् हरिणाङ्गनासु । विलोलदृष्टं = विलोलं च तद् दृष्टं, विलोलदृष्टम्। द्वये = द्वौ अवयवौ यस्य तत् द्वयं, तस्मिन्द्वये । निक्षिप्यतेऽसाविति व्युत्पत्त्या तद्धनं च निक्षेपशब्दार्थः। अत्र तु निक्षेपशब्दो द्रव्यपरः, निक्षेपक्रियायाः अर्पणक्रियान्वयानुपपत्तेः।
सञ्जीविनी – पुनरिति ॥ नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं पुनरानेतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु । क्वचित् 'द्वयीषु' इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह - तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलासदृष्टं चञ्चलावलोकितं च । व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ।
सञ्जीविनी – ले समादातुं सत्यवादिनि भ्रमादिरहिते विश्वसनीये जने धनस्य न्यासो निक्षेप इत्युच्यते ।
अलङ्कारः – अत्रोत्प्रेक्षालङ्कारः । तपस्समये निश्चलशरीरायां नासाग्रदत्तलोचनायां च पार्वत्यां विलासविलोलविलोचनयोरदर्शनं लतासु मृगीषु च तद्दर्शनं चात्रोत्प्रेक्षाहेतुः ।
भावार्थः – गृहीतव्रतया पार्वत्या प्रियसङ्गमसमये पुनः स्वीकर्तुं निक्षेपधनमिव सुकुमारासु मालत्यादिलतासु विलासचेष्टा, मृगीषु चञ्चलदृष्टिश्चेत्येतद् द्वयं न्यासीकृतं किमु । तपस्समये निश्चलशरीरायां नासाग्रदत्तलोचनायां च पार्वत्यां विलासविलोलविलोचनयोरदर्शनात्, तदानीं लतासु मृगीषु च तद्दर्शनाच्चेति भावः ।
कोशः – वल्ली तु व्रततिर्लता इत्यमरः। अभ्रष्
अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥१४॥
अन्वयः – सा स्वयम् एव अतन्द्रिता सती वृक्षकान् घटस्तनप्रस्रवणैः व्यवर्धयत् । गुहः अपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यति ।
पदार्थः – सा = पार्वती। स्वयम् एव = आत्मना एव। अतन्द्रिता = अनलसा सती। वृक्षकान् = स्वल्पवृक्षान्। घटस्तनप्रस्रवणैः = कलशकुचप्रसृतपयोभिः। व्यवर्धयत् = वर्धयामास । गुहः अपि = कुमारः अपि । प्रथमाप्तजन्मनां = पूर्वलब्धजनुषाम्, अग्रजातानामित्यर्थः। येषां = वृक्षकाणाम्। पुत्रवात्सल्यं = सुतस्नेहम्। न अपाकरिष्यति = न दूरीकरिष्यति ।
व्युत्पत्तिः – अतन्द्रिता = तन्द्रा सञ्जाता अस्याः सा तन्द्रिता [तारकादित्वात् इतच्प्रत्ययः ], न तन्द्रिता अतन्द्रिता । वृक्षकान् = अल्पा वृक्षा वृक्षकाः, तान् वृक्षकानू [५।३।८५ अल्पे इति कप्रत्ययः ]। घटस्तनप्रस्रवणैः = घटौ एव स्तनौ घटस्तनौ, [रूपकसमासः ] घटस्तनयोः प्रस्रवणाः घटस्तनप्रस्त्रवणाः, तैः घटस्तनप्रस्रवणैः । प्रथमाप्तजन्मनां = प्रथमे आप्तं प्रथमाप्तं, तत् जन्म येषान्ते इति प्रथमाप्तजन्मानः, तेषां प्रथमाप्तजन्मनाम्। पुत्रवात्सल्यं = वात्सलस्य भावः कर्म वा वात्सल्यं, ष्यन्प्रत्ययः, पुत्रस्य वात्सल्यं पुत्रवात्सल्यं, तत् पुत्रवात्सल्यम् ।
सञ्जीविनी – अतन्द्रितेति । सा देवी स्वयमेवातन्द्रिता असजंजाततन्द्रा सती । तारकादित्वादितच्प्रत्ययः । वृक्षकान्स्वल्पवृक्षान् । 'अल्पे ' इत्यत्पार्थे कप्रत्ययः । घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिर्व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निर्वर्तिष्यत इत्यर्थः ।
भावार्थः – पार्वती परिश्रमखेदं परित्यज्य स्वयमेव बीजावापपुरस्सरमुत्तमवृक्षानुत्पाद्य घटोदकेन सिञ्चन्ती तान् पुत्रकल्पानतितरामवर्धयत्। प्रथमलब्धजन्मनां येषां वृक्षकाणां सम्बन्धि सुतप्रेम पाश्चाज्जायमानः स्कन्दोऽपि स्वोद्भवानन्तरं न निराकरिष्यतीति भावः।
व्याकरणः – तन्द्रितः - तारकादित्वादितच्प्रत्ययः । वृक्षकः - 'अल्पे ' इत्यत्पार्थे कप्रत्ययः ।
अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥१५॥
अन्वयः – अरण्यबीजाञ्जलिदानलालिताः हरिणाश्च तस्यां तथा विशश्वसुः, यथा कुतूहलात् तदीयैः नयनैः लोचने सखीनां पुरः अमिमीत ।
पदार्थः – अरण्यबीजाञ्जलिदानलालिताः = वनबीजाञ्जलिवितरणपोषिताः, नीवाराद्यञ्जलिदानपालिता इत्यर्थः। हरिणाश्च = मृगाश्च। तस्यां = पार्वत्याम्। तथा = तेन प्रकारेण। विशश्वसुः = विश्वासं जग्मुः। यथा = येन प्रकारेण। कुतूहलात् = औत्सुक्यात्। तदीयैः = हरिणसम्बन्धिभिः। नयनैः = नेत्रैः, करणैः। लोचने = नयने, स्वकीये इति शेषः। सखीनां = वयस्यानाम्। पुरः = पुरतः। अमिमीत = मानं चकार, नेत्रपरिमाणतारतम्यज्ञानायेत्यर्थः ।
व्युत्पत्तिः – अरण्यबीजाऽञ्जलिदानलालिताः = अरण्यस्य बीजानि, अरण्यबीजानि, अरण्यबीजानाम् अञ्जलयः अरण्यबीजाञ्जलयः, तेषां दानम् अरण्यबीजाञ्जलिदानं, तेन लालिताः अरण्यबीजाञ्जलिदानलालिताः। तदीयैः = तेषाम् इमानि तदीयानि, तैः तदीयैः [छप्रत्ययः]। अमिमीत = "माङ् माने" इति धातोर्लङ्। केचित्तु सा = पार्वती, तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत, व्रतस्थत्वान्नात्मन इत्याहुः। इयमेव खलु विश्वासस्य पराकाष्ठा, यदक्षिपीडनेऽपि मृगाः न क्षुभ्यन्तीति तात्पर्यम्।
सञ्जीविनी – अरण्येति ॥ अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुविस्रम्भं जग्मुः । 'समौ विस्रम्भविश्वासौ' इत्यमरः । यथा कृतूहलादौत्सुक्यात्तदीयैर्हरिणसंबन्धिभिर्नयनैर्नेत्रैः करणैः । स्वकीये लोचने सखीनां पुरः पुरतः । अनेन तेषां सम्बन्धसहत्वमुक्तम् । अमिमीत | अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वान्नात्मन इत्याहुः । 'माङ् माने' इत्यस्माद्धातोर्लङ् । इयमेव खलु विश्वासस्य पराकाष्टा यदक्षपीडनेऽपि न क्षुभ्यन्तीति भावः ।
भावार्थः – अञ्जलिपरिमितानामारण्यकनीवारादीनां प्रदानेन परिचिता मृगास्तस्यां पार्वत्यां तथा विश्वासं जग्मुः, यथा मद्विलोचनमृगलोचनयोः कियदन्तरमिति ज्ञातुं बालस्वभावमात्रसुलभादौत्सुक्यात् स्वसखीनामग्रे मृगाणां नयनैः स्वकीये नयनेऽमिमीत, तथापि मृगा न विचेलुरिति भावः ।
कोशः – समौ विस्रम्भविश्वासौ इत्यमरः । अटव्यरण्यं विपिनं गहनं काननं वनम् इत्यमरः । आलिः सखी वयस्या च इत्यमरः ।
कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ॥१६॥
अन्वयः – कृताऽभिषेकां हुतजातवेदसं स्वगुत्तरासङ्गवतीम् अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन् धर्मवृद्धेषु वयः न समीक्ष्यते
पदार्थः – कृताऽभिषेकां = कृतस्नानाम्। हुतजातवेदसं = हुताऽग्निकां, कृतहोमामित्यर्थः। त्वगुत्तरासङ्गवतीं = वल्कलोत्तरीयवतीम्। अधीतिनीं = स्तुतिपाठादि कुर्वतीम्। तां = पार्वतीम्। दिदृक्षवः = द्रष्टुमिच्छ्वः। ऋषयः = मुनयः। अभ्युपागमन् = समुपागताः। धर्मवृद्धेषु = तपोगरिष्ठेषु। वयः = बाल्यादिकम्। न समीक्ष्यते = न प्रमाणीक्रियते ।
व्युत्पत्तिः – कृताभिषेकां = कृतः अभिषेकः यया सा कृताऽभिषेका तां कृताभिषेकाम्, अनेन शरीरशुद्धिरुक्ता। हुतजातवेदसं = हुतः जातवेदाः यया सा हुतजातवेदाः, तां हुतजातवेदसम्, अनेनान्तःकरणशुद्धिरुक्ता । त्वगुत्तरासङ्गवतीम् = उत्तरे (ऊर्ध्वभागे) आसज्यते इति उत्तरासङ्गः, उत्तरासङ्गः अस्या अस्तीति उत्तरासङ्गवती। त्वचा = वल्कलेन। उत्तरासङ्गवती = स्वगुत्तरासङ्गवती, तां त्वगुत्तरासङ्गवतीम् । अधीतिनीम् = अधीतम् अस्या अस्तीति अधीतिनी, ताम् अधीतिनीम्, अनेनात्मशुद्धिरुक्ता [५।२।८८ इष्टादिभ्यश्च इति इनिप्रत्ययः, ततः स्त्रीत्वविवक्षायाम् ४।१।५ ऋन्नेभ्यो ङीप् इति ङीप् ]। दिदृक्षवः = द्रष्टुम् इच्छवः दिदृक्षवः । धर्मवृद्धेषु = धर्मेण वृद्धाः धर्मवृद्धाः, तेषु धर्मषृद्धेषु।
सञ्जीविनी – कृतेति ॥ कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् कृतहोमामित्यर्थः । त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्तरासङ्गवतीम् । अधीतमस्या अस्तीत्यधीतिनीं स्तुतिपाठादिकुर्वतीम् । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः । तां देवीं दिदृक्षवो दृष्टुमिच्छव ऋषयो मुनयोऽभ्युपागमन्समुपागताः । न चात्र कनिष्ठ सेवादोष इत्याह - धर्मवृद्धेषु वयो न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्येष्ठ्ये वयोज्यैष्ठ्यं न प्रयोजकमित्यर्थः । तथा च मनुः - ' न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥' इति ।
भावार्थः – बहुकालकृततपसोऽपि तां जिज्ञासवो महर्षयोऽघमर्षणस्नानेन शुद्धशरीरां वह्निहोमेन शुद्धान्तःकरणां वल्ककलोत्तरीयवतीं कृतवेदाध्ययनां पार्वतीं द्रष्टुमिच्छवः सन्तः तामभ्युपागमन् । तपोवृद्धेष्ववस्था न निरूप्यत इति भावः ।
कोशः – कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् इत्यमरः । द्वौ प्रावारोत्तरासङ्गौ समौ वृहतिका तथा संख्यानमुत्तरीयं च इत्यमरः । स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं नृषः इत्यमरः । खगबाल्यादिनोर्धयः इत्यमरः । चतुर्विधं हि वृद्धत्वम् – वैराग्यवृद्धत्वं, ज्ञानवृद्धत्वं, धर्मवृद्धत्वं, वयोवृद्धत्वं चेति। येषु त्रिविधं वृद्धत्वम्, एकैकं वा, तेषु वयोवृद्धस्वं न प्रयोजकम् तस्याऽप्राधान्यादित्यर्थः तथा चाह मनुः – "न तेन वृद्धो भवति, येनाऽस्य पलितं शिरः । यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ इति ।
विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ॥१७॥
अन्वयः – विरोधिसरवोज्झितपूर्वमत्सरं द्रुमैः अभीष्टप्रसवाऽर्चिताऽतिथि नवोटजाऽभ्यन्तरसम्भृताऽनलं तच्च तपोवनं पावनं बभूव।
पदार्थः – विरोधिसत्वोज्झितपूर्वमत्सरं = वैरिजन्तुत्यक्तपूर्ववैरं, हिंसारहितमित्यर्थः। द्रुमैः = वृक्षैः। अभीष्टप्रसवाऽर्चिताऽतिथि = इष्टफलपूजिताऽभ्यागतम्। नवोटजाऽभ्यन्तरसम्भृताऽनलं = नूतनपर्णशालाऽन्तःसञ्चिताऽग्नि। तच्च = पार्वत्याश्च। तपोवनं = तपोऽरण्यम्। पावनं = पवित्रकारकम्। बभूव = अभवत् ।
व्युत्पत्तिः – विरोधिसत्त्वोज्झितपूर्वमत्सरं = विरोधः अस्ति येषां ते विरोधिनः, विरोधिनश्च ते सत्त्वाः विरोधिसत्त्वाः, उज्झितः पूर्वः मत्सरः यस्मिन् तत् उज्झितपूर्वमत्सरं, विरोधिसत्वैः उज्झितपूर्वमत्सरं विरोधिसत्वोज्झितपूर्वमत्सरम् । अभीष्टप्रसवाऽर्चिताऽतिथि = अभीष्टश्चासौ प्रसवः अभीष्टप्रसवः, अर्चिताः अतिथयः यस्मिन् तत् अर्चितातिथि, अभीष्टप्रसवेन अर्चिताऽतिथि अभीष्टप्रसवार्चितातिथि । नवोटजाऽभ्यन्तरसम्भृताऽनलं = नवा ते उटजाः नवोटजाः, नवोटजानाम् अभ्यन्तराणि नवोटजाऽभ्यन्तराणि, सम्भृताः अनलाः यस्मिन् तत् सम्भृताऽनलम्, नवोटजाऽभ्यन्तरेषु सम्भृतानलं नवोटजाभ्यन्तरसम्भृतानलम् । तपोवनं = तपसः वनं तपोवनम्। पावनं = पावयतीति पावनम्, अहिंसाऽतिथिसत्काराऽग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः।
सञ्जीविनी – विरोधीति । विरोधिभिः सत्त्वैर्गोव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैरभीष्टप्रसवेनेष्टफलेनाचिताः पूजिता अतिथयो यस्मिस्तत्तथोक्तम् । नवानामुटजानां पर्णशालानामभ्यन्तरेषु सम्भृताः सविता अनला अग्नयो यस्मिंस्तत्तथोक्तं तच्च तपोवनम् । पावयतीति पावनं बभूव । अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ।
भावार्थः – गजसिंहादिजन्तुभिस्त्यक्तानादिवैरं वृक्षमधुरफलपूजिताभ्यागतमभिनवपर्णशालान्तर्गतसंरक्षिताग्नि तत् पार्वतीतपोवन दर्शनमात्रेणापि शुद्धिकरमासीदिति भावः ।
कोशः – वैरं विरोधो विद्वेषः इत्यमरः । द्रव्याऽसुव्यवसायेषु सत्वमस्त्री तु जन्तुषु इत्यमरः । मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु इत्यमरः । अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् इति स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने इति चामरः । पर्णशालोटजोऽस्त्रियाम् इत्यमरः । अभ्यन्तरं त्वन्तरालम् इत्यमरः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः इत्यमरः ।
यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काक्ष्ङितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥१८॥
अन्वयः – सा यदा तावता पूर्वतपःसमाधिना कांक्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवम् अनपेक्ष्य महत्तपः चरितुं प्रचक्रमे।
पदार्थः – सा = पार्वती। यदा = यस्मिन्काले। तावता = तावत्प्रमाणेन। पूर्वतपःसमाधिना = प्राक्तपोनियमेन। कांक्षितं = वाञ्छितम् । फलं = हरवशीकरणरूपं प्रयोजनम्। लभ्यं = प्राप्यम्, लब्धुं शक्यमित्यर्थः । न अमंस्त = न अज्ञासीत्। अशक्यममंस्तेत्यर्थः। तदा = तत्काले। स्वशरीरमार्दवम् = आत्मदेहसौकुमार्यम्। अनपेक्ष्य = अविगणय्य। महत्= दुश्चरं। तपः = नियमम्। चरितुं = साधयितुम्। प्रचक्रमे = आरेभे।
व्युत्पत्तिः – तावता = तत् प्रमाणमस्य तावान्, तेन तावता । पूर्वतपःसमाधिना = तपः समाधिः तपःसमाधिः, पूर्वश्चाऽसौ तपःसमाधिः पूर्वतपःसमाधिः, तेन पूर्वतपःसमाधिना। काङ्क्षितं = काङ्क्षा सञ्जाता अस्य तत् काङ्क्षितं तत् [इतच्प्रत्ययः] । स्वशरीरमार्दवं = स्वस्य शरीरं स्वशरीरं, मृदोर्भावं मार्दवं, स्वशरीरस्य मार्दवं स्वशरीरमार्दवं, तत् । अनपेक्ष्य = न अपेक्ष्य, अनपेक्ष्य ।
सञ्जीविनी – यदेति । सा देवी यदा यस्मिन्काले तावता तावत्प्रमाणेन पूर्वतः समाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्क्षितं फलं लभ्यं लब्धुं शक्यं नामंस्त । अशक्यममंस्तेत्यर्थः । तदा तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महद्दुश्चरं तपश्चरितुं साधयितुं प्रचक्रम उपचक्रमे ।
भावार्थः – सा पार्वती यदा पूर्वोक्तपरिमाणेन तपसा वाञ्छितं हरवशीकरणरूपं फलं लब्धुं न शक्यमिति मन्यते, तदा स्वशरीरस्य शिरीषपुष्पादप्यधिकं सौकुमार्यमविगणय्य कठिनशरीरैरप्यत्यन्तदुश्चरं तपः कर्तुमारेभे इति भावः ।
क्लमं ययौ कन्दुकलीलयाऽपि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ॥१९॥
अन्वयः – या कन्दुकलीलया अपि क्लमं ययौ, तया मुनीनां चरितं व्यगाह्यत । ध्रुवम् अस्याः वपुः काञ्चनपद्मनिर्मितम्, अत एव प्रकृत्या मृदु च ससारम् एव च ।
पदार्थः – या = पार्वती। कन्दुकलीलया अपि = गेन्दुकक्रीडया अपि। क्लमं= ग्लानिम्। ययौ = प्राप। तया = देव्या। मुनीनाम् = ऋषीणाम्। चरितं = चरित्रम्, तीव्रं तप इत्यर्थः । व्यगाह्यत = प्रविष्टम्। ध्रुवं = निश्चयेन। अस्याः = पार्वत्याः। वपुः = शरीरम्। काञ्चनपद्मनिर्मितं = सुवर्णकमलरचितमासीत्। अत एव प्रकृत्या = स्वभावेन, पद्मस्वभावेनेत्यर्थः । मृदु च = सुकुमारम् अपि काञ्चनस्वभावेन। ससारम् एव च = कठिनम् एव च ।
व्युत्पत्तिः – कन्दुकलीलया = कन्दुकस्य लीला कन्दुकलीला, तया कन्दुकलीलया। काञ्चनपद्मनिर्मितं = काञ्चनस्य विकारः काञ्चनं, काञ्चनं च तत् पद्मं काञ्चनपद्मं, तेन निर्मितं काञ्चनपद्मनिर्मितम्। ससारं = सारेण सहितं ससारम् ।
सञ्जीविनी – क्लममिति ॥ या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप तथा देवा मुनीनां चरितं तीव्रं तपोव्यगाह्यत प्रविष्टम् । अत्रोत्प्रेक्षते ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेंन निर्मितं घटितम् । अत एवं प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वाभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि तीव्रतपः क्षमत्वमित्युत्प्रेक्षार्थः ।
अलङ्कारः – अत्र श्लोके उत्प्रेक्षाऽलङ्कारः । सुवर्णोत्पादकत्वात्पार्वत्याः शरीरस्य सुकुमारस्याऽपि तीव्रतपःसमर्थत्वमस्तीत्युत्प्रेक्षाऽर्थः ।
भावार्थः – या पार्वती पूर्वं कन्दुकक्रीडयाऽपि शरीरसादं प्राप, तया पार्वत्या कठिनशरीराणां महर्षिणामत्यन्तदुश्चरतपश्चरणरूपो व्यापारोऽवजगाहे । तेनेदमनुमीयते यत् पार्वत्याः शरीरं सुवर्णकमलविरचितमासीत् । अत एव कमलस्वभावेन सुकुमारमपि सुवर्णस्वभावेन कठिनमेवाभूदिति भावः ।
कोशः – चामीकारं जातरूपं महारजतकाञ्चने इत्यमरः । संसिद्धिप्रकृती त्विमे । स्वरूपं च स्वभावश्च निसर्गश्च इत्यमरः ।
शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥२०॥
अन्वयः – शुचौ शुचिस्मिता सुमध्यमा ज्वलतां चतुर्णां हविर्भुजां मध्यगता सती नेत्रप्रतिघातिनीं प्रभां विजित्य अनन्यदृष्टिः सती सवितारम् ऐक्षत।
पदार्थः – शुचौ = ग्रीष्मे। शुचिस्मिता = विशदमन्दहासा। सुमध्यमा = सुमध्या, सा पार्वतीत्यर्थः । ज्वलतां = दीप्तिमताम्। चतुर्णां = चतुःसंख्याकानाम्। पुरतः = पृष्ठे पार्श्वयोश्च स्थापितानामित्यर्थः । हविर्भुजाम् = अग्नीनाम्। मध्यगता = मध्य स्थिता सती। नेत्रप्रतिघातिनीम् = दृक्प्रतिहृतिकारिणीम्। प्रभां = तेजः, सूर्यस्येत्यर्थः । विजित्य = अभिभूय। अनन्यदृष्टिः = अन्यत्राऽस्थितनेत्रा सती। सवितारं = सूर्यम्। ऐक्षत = ददर्श ।
व्युत्पत्तिः – शुचिस्मिता = शुचि स्मितं यस्याः सा शुचिस्मिता, 'ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताऽधरम्" इति साहित्यदर्पणः । सुमध्यमा = शोभनं मध्यमं यस्याः सा सुमध्यमा । ज्वलतां = ज्वलन्ति इति ज्वलन्तः, तेषां ज्वलतां। हविर्भुजां = हवींषि भुञ्जन्तीति हविर्भुजः, तेषां हविर्भुजाम् । मध्यगता = मध्यं गता मध्यगता [द्वितीया श्रिताऽतीतपतितगताऽत्यस्तप्राप्ताऽऽपन्नैः इति द्वितीयातत्पुरुषः] । नेत्रप्रतिघातिनीं = नेत्रे प्रतिहन्तीति तच्छीला नेत्रप्रतिघातिनी, तां नेत्रप्रतिघातिनीम् [विनिप्रत्ययः, तदन्तान्ङीप्] । अनन्यदृष्टिः = न विद्यते अन्यत्र दृष्टिर्यस्याः सा अनन्यदृष्टिः।
सञ्जीविनी – शुचाविति । शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजामग्नीनां मध्यगता सती नेत्रं प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य न विद्यतेऽन्यत्र दृष्टिर्यस्याः सानन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श । 'ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षापु स्थण्डिलेशयः' इति स्मरणात् । पञ्चाग्निमध्ये तपश्चचारेत्यर्थः । तत्र सवितैव पञ्चमोऽग्निः - 'अग्निः सविता सवितैवाग्निः' इति श्रौतलिङ्गात् ।
भावार्थः – कृशावलग्ना सा पार्वती ग्रीष्मे चतुर्णां ( पुरतः पृष्ठे पार्श्वयोश्च) स्थापितानां प्रदीप्तानामग्नीनां मध्यभागस्थिता सती द्रष्टुर्नेत्रयोश्चाकचिक्यप्रदां सूर्यरश्मि सतताभ्यासेन न्यग्भाव्योदयादारभ्यास्तमयपर्यन्तमन्यत् किमप्यनवलोकयन्ती सती केवलं सूर्यमेवावलोकयन्ती पञ्चाग्निसाधनं तपश्चचारेति भावः ।
कोशः – शुचिष्माऽग्निरिवापाडे शुद्धमन्त्रिणि । ज्येष्ठ व पुंसि धवले शुद्धेऽनुपहते त्रिषु ॥ इति मेदिनी । शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः इत्यमरः । मध्यमं चाऽवलग्नं च मध्योऽस्त्री इत्यमरः । भानुर्हस्रः सहस्रांशुस्तपनः सविता रविः इत्यमरः ।
तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥२१॥
अन्वयः – सवितुः गभस्तिभिः तथा अतितप्तं तदीयं मुखं कमलश्रियं ददौ, अस्य दीर्घयोः अपाङ्गयोः केवलं शनैः शनैः श्यामिकया पदं कृतम्।
पदार्थः – सवितुः = सूर्यस्य। गभस्तिभिः = किरणैः। तथा = तेन प्रकारेण, पूर्वोक्तप्रकारेणेत्यर्थः । अतितप्तं = सन्तप्तं। तदीयं = पार्वत्याः। मुखम् = आननम्। कमलश्रियं = पद्मशोभाम्। दधौ = प्राप। किन्तु, अस्य = मुखस्य। दीर्घयोः = आयतयोः। अपाङ्गयोः = नेत्राऽन्तयोः। केवलम् = एव। शनैः शनैः = मन्दं मन्दम्। श्यामिकया = कालिम्ना। पदं = स्थानम्। कृतं = विहितम् । नेत्राऽन्तयोः सौकुमार्यादित्यर्थः ।
व्युत्पत्तिः – अतितप्तम् = अत्यन्तं तप्तम् अतिततम "सुप्सुपा" इति समासः । तदीयं तस्या इदं तदीयं छप्रत्ययः । कमलश्रियं = कमलस्य श्री कमलश्रीः तं, कमलश्रियम् ।
सञ्जीविनी – तथेति । सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेण अतितप्तं सन्तप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्यशोभां ददौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्त्वस्य मुखस्यदीर्घयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैः शनैर्मन्दं मन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः ।
भावार्थः – सूर्यकिरणः सन्त पार्वतीमुखं सूर्यरश्मिसंयोगे सति कमलमिव शुशुभे न तु मलौ । किन्तु प्रकृति मृदुत्वात् आयतयोस्तदीयनेत्रप्रान्तभागयोः केवलं कालिग्ना मन्दमन्दमवस्थानं कृतमिति भावः ।
कोशः – किरणोत्रमयूखांऽशुगभस्तिघृणिष्टष्णयः इत्यमरः । अपाङ्गौ नेत्रयोरन्तौ इत्यमरः ।
अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥२२॥
अन्वयः – अयाचितोपस्थितं केवलम् अम्बु, रसात्मकस्य उडुपतेः रश्मयश्च, तस्याः पारणाविधिः बभूव किल । वृक्षवृत्तिव्यतिरिक्तसाधनः पारणाविधिः न बभूव ।
पदार्थः – अयाचितोपस्थितम् = अप्रार्थितोपनतम्। केवलं = तन्मात्रम्। अम्बु = उदकम्। रसात्मकस्य = अमृतमयस्य। उडुपतेः = तारापतेः, चन्द्रस्येत्यर्थः । रश्मयश्च = किरणाश्च। तस्याः = पार्वत्याः। पारणाविधिः = भक्षणकर्म। बभूव किल = अभवत् किल । तावन्मात्रसाधनकोऽभूदित्यर्थः। वृक्षवृत्तिव्यतिरिक्तसाधनः = तरुवर्तनाऽधिकोपायः। न बभूव = न अभवत् ।
व्युत्पत्तिः – अयाचितोपस्थितं = न याचितम् अयाचितं, तच्च तत् उपस्थितम् अयाचितोपस्थितम्। रसात्मकस्य = रसः आत्मा यस्य स रसात्मकः, तस्य रसात्मकस्य, समासान्तः कप् । उडुपतेः = उडूनां पतिः उडुपतिः, तस्य उडुपतेः। पारणाविधिः = पारणायाः विधिः पारणाविधिः । किल = इदं पदं प्रसिद्धयर्थकम् । साध्यसाधनयोः अभेदेन व्यवहारः साधनान्तरव्यावृत्तिनिमित्तकः । वृक्षवृत्तिव्यतिरिक्तसाधनः = वृक्षाणां वृत्तिः वृक्षवृत्तिः, विशेषेण अतिरिक्तं व्यतिरिक्तं, [सुप्सुपा" इति समासः], वृक्षवृत्तेः व्यतिरिक्तं वृषवृत्तिव्यतिरिक्तं, तत् साधनं यस्य सः वृक्षवृत्तिव्यतिरिक्तसाधनः, वृक्षोऽपि अयाचितोपस्थितेन मेघजलेन इन्दुकिरणैश्च जीवतीति प्रसिद्धम् । पार्वत्यपि तावन्मात्रमवालम्बतेत्यर्थः ।
सञ्जीविनी – अयाचितेति । अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बुदकं रसात्मकस्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणाविधिरभ्यवहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यपदेशः साधनान्तरव्यावृत्यर्थः । किलेति प्रसिद्धौ । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रसाधनकोऽभूदित्यर्थः ।
भावार्थः – धर्मकालपर्यन्तमुपोषितायाः पार्वत्यास्तदवसानसुलभानि मेघजलानि, दिनावसानपर्यन्तमुपोषितायास्तु निशायां चन्द्ररश्मयश्च व्रतसमाप्तिभोजनं बभूव । किं बहुना पूर्वोक्तजीवनोपायातिरिक्तं कन्दमूलफलादिकमुपोषितभोजनं न बभूवेति भावः ।
कोशः – अम्भोर्णस्तोयपानीयनीरक्षीराऽम्बुशम्बरम् इत्यमरः। नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् इत्यमरः । आजीवो जीविकावार्तावृतिर्वर्तनजीवने इत्यमरः । अतिरिक्तः समधिकः इत्यमरः ।
निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा । तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥२३॥
अन्वयः – विविधेन नभश्चरेण इन्धनसम्भृतेन वह्निना निकामतप्ता सा तपात्यये नवैः वारिभिः उक्षिता सती, भुवा सह ऊर्ध्वगम् ऊष्माणं अमुञ्चत्।
पदार्थः – विविधेन = अनेकप्रकारेण पञ्चविधेनेत्यर्थः। नभश्चरेण = खेचरेण, आदित्यरूपेणेत्यर्थः । इन्धनसम्भृतेन = काष्टसमिद्धेन। वह्निना=अग्निना। निकामतप्ता=अतिसन्तप्ता। सा=पार्वती। तपाऽत्यये = ग्रीष्माऽन्ते। प्रावृषीत्यर्थः। नवैः = नूतनैः। वारिभिः =जलैः। उक्षिता = सिक्ता सती। भुवा = पृथिव्या, पञ्चाऽग्नितप्तयेति शेषः । सह = सार्धम्। ऊर्ध्वगम् = ऊर्ध्वस्थम्। ऊष्माणं = बाष्पम्। अमुञ्चत् = तत्याज।
व्युत्पत्तिः – विधिधेन = विविधाः विधाः प्रकाराः यस्य स विविधः तेन, विविधेन। नभश्चरेण = चरतीति चरः [३।२।१६ चरेष्टः इति टप्रत्ययः]। नभसः चरः नभश्चरः, तेन नभश्चरेण। इन्धनसम्भृतेन = इन्धनैः सम्भृतः इन्धनसम्भृतः, तेन इन्धनसम्भृतेन। निकामतप्ता = निकामं तप्ता निकामतप्ता [सुप्सुपा इति समासः]। तपात्यये = तपस्य अत्ययः तपाऽत्ययः तस्मिन् तपात्यये। ऊर्ध्वगम् = ऊर्ध्वं गच्छतीति ऊर्ध्वगः, तम् ऊर्ध्वगम्।
सञ्जीविनी – निकामेति । विविधेन पञ्चविधेनेत्यर्थः नभश्चरेण खेचरेण आदित्यरूपेणेत्यर्थः। इन्धनसम्भृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते प्रावृषीत्यर्थः । नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चाग्नितप्तया सहोर्ध्वगमूष्माणं बाष्पममुञ्चत् ' ग्रीष्मोष्मंबाष्पमूष्माणम्' इति यादवः ।
भावार्थः – इत्थं गगनस्थेन सूर्याग्निना काष्ठप्रज्वलितेन च भूतलाग्निना पञ्चविधेन भृशं सन्तप्ता सती, पुनश्च ग्रीष्मावसाने वर्षारम्भसम्भूतेः नूतनजलैः सिक्ता सती सा पार्वती, ग्रीष्मकाले सन्तप्ता वर्षारम्भे जलैरुक्षिता भूमिरिवोर्ध्वगामि बाष्पं मुमोचेति भावः।
कोशः – "नभोऽन्तरीचं गगनमनन्तं सुरवर्त्म खम्" इत्यमरः "काष्ठं दाविन्धनं त्वेध इध्ममेधः समिस्त्रियाम्" इत्यमरः "ग्रीष्म ऊष्मकः निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः" इत्यमरः "ग्रीष्मोष्मवाष्पमूष्माणम्” इति यादवः
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥२४॥
अन्वयः – प्रथमोदबिन्दवः तस्याः पक्ष्मसु क्षणं स्थिताः ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः वलीषु स्खलिताः चिरेण नाभि प्रपेदिरे ।
पदार्थः – प्रथमोदबिन्दवः = पूर्वजलपृषताः, प्रथमविशेषणात् बिन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः। तस्याः = पार्वत्याः। पक्ष्मसु= नेत्रलोमसु। क्षणं = कञ्चित्कालम्। स्थिताः = स्थितिं गताः। अनन्तरम्, ताडिताऽधराः = व्यथितोष्ठाः। ततः पयोधरोत्सेधनिपातचूर्णिताः = कुचोपरिभागपतनजर्जरिताः। तदनु, वलीषु = उदररेखासु। स्खलिताः = पतिताः, निम्नोन्नतत्वादित्यर्थः। इत्थम्, चिरेण = बहुसमयेन, न तु शीघ्रं, प्रतिबन्धबाहुल्यादिति शेषः। नाभिं = तुन्दिम्। प्रपेदिरे = प्रविष्टाः, न तु निर्जग्मुरित्यर्थः ।
व्युत्पत्तिः – प्रथमोदबिन्दवः = उदकस्य बिन्दवः उदबिन्दवः, [६।३।६० मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च इति उदकशब्दस्य उदादेशः] । प्रथमे च ते उदबिन्दवः प्रथमोदबिन्दवः। ताडिताऽधराः = ताडितः अधरः यैस्ते ताडिताऽधराः। पयोधरोत्सेधनिपातचूर्णिताः = धरतस्तौ धरौ, पयसां धरौ पयोधरौ, पयोधरयोः उत्सेधः पयोधरोत्सेधः तस्मिन्निपातः तेन चूर्णिताः पयोधरोत्सेधनिपातचूर्णिताः।
सञ्जीविनी – स्थिता इति । उदकस्य बिन्दव उदबिन्दवः । ' मन्थौदन– ' इत्यादिनोदकशब्दस्योदादेशः । प्रथमे उदबिन्दवः । प्रथमविशेषणाद बिन्दूनां विरलत्वं बहुवचनानाति विरलत्वं च गम्यते तथा च चिरत्वेनाभ्यन्तरगमनयोर्निर्वाहः। तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते। अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तैस्तथोक्तैः एतेनाधरस्य मार्दवं गम्यते । ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः कुचकाठिन्यादिति भावः । तदनु वलीषूदररेखासु स्खलिताः। निमोन्नतत्वादिति भावः इत्थं चिरेण न तु शीघ्रम् प्रतिबन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः एतेन नाभेर्गाम्भीर्यं गम्यते। अत्र प्रतिपदमर्थवत्त्वात्परिकरालङ्कारः ।
भावार्थः – वर्षारम्भसमयभाविप्रथमजलबिन्दवो नेत्ररोमसु क्षणकालमवस्थिताः, अत्युच्चस्थानादतिकठिनस्तनतटनिपातेन परमाणुतां प्राप्ताः, पुनश्च सम्भूयाऽधोगमनारम्भे वलित्रये स्खलनं प्राप्ताः सन्तो महता समयेन पार्वत्याः निम्ननाभिप्रदेशं प्रविविशुरिति भावः।
कोशः – कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् इति, पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियः इत्यप्यमरः । नाभिर्द्वयोस्तुन्दकूपी तुन्दिस्तु न्दीकरः पुमान् इति त्रिकाण्डशेषः ।
शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥२५॥
अन्वयः – निरन्तरासु अन्तरवातवृष्टिषु अनिकेतवासिनीं शिलाशयां तां महातपःसाक्ष्ये स्थिताः क्षपाः तडिन्मयैः उन्मिषितैः व्यलोकयन् इव ।
पदार्थः – निरन्तरासु = नीरन्ध्रासु, अविच्छिन्नासु इत्यर्थः। अन्तरवातवृष्टिषु = मध्यवायुवर्षेषु। अनिकेतवासिनीम् = अगृहवासिनीम्, अनावृत्तदेशवासिनीमित्यर्थः। शिलाशयां = प्रस्तरशायिनीम्। तां = पार्वतीं। महातपःसाक्ष्ये = दुष्करतपःसाक्षित्वे। स्थिताः = विद्यमानाः। क्षपाः = रात्रयः। तडिन्मयैः = विद्यद्रूपैः। उन्मिषितैः = अवलोकनैः। व्यलोकयन् इव = ददृशुः इव ।
व्युत्पत्तिः – निरन्तरासु = निर्गतम् अन्तरं याभ्यस्ताः निरन्तराः, तासु निरन्तरासु । अन्तरवातवृष्टिषु = अन्तरे वातः यासां ताः अन्तरवाताः, अन्तरवाताश्च ता वृष्टयः अन्तरवातसृष्टयः, तासु अन्तरवातवृष्टिषु। अनिकेतवासिनीं =निकेते (गृहे) वसतीति तच्छीला निकेतवासिनी, न निकेतवासिनी अनिकेतवासिनी, ताम् अनिकेतवासिनीम्। शिलाशयां शिलायां शेते शिलाशया, तां शिलाशयाम् [३।२।१५ अधिकरणे शेतेः इत्यच्प्रत्ययः]। महातपःसाक्ष्ये = साक्षाद् द्रष्टा साक्षी, [साक्षाद्-द्रष्टरि संज्ञायाम् इति इनिप्रत्ययः], साक्षिणः कर्म साक्ष्यं [ष्यञ्प्रत्ययः], महच्च तत् तपः महातपः, [६।३।४६ आन्महतः समानाधिकरणजातीययोः इति महत आत्वम्] महातपसः साक्ष्यं महातपः साक्ष्यं, तस्मिन् महातपःसाक्ष्ये। तडिन्मयैः = तडितः एव तडिन्मयानि, तैः तडिन्मयैः [स्वार्थे मयट्] । “प्रत्यये भाषायां नित्यम्" इत्यनुनासिकः।
सञ्जीविनी – शिलाशयामिति । निरन्तरासु नीरन्ध्रास्वन्तरे मध्ये वातो यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु। न निकेते गृहे वसतीत्यनिकेतवासिनीम् अनावृतदेशवासिनीमित्यर्थः। शिलायां शेते इति शिलाशयां शिलातलशायिनीम्। 'अधिकरणे शेतेः' इत्यच्प्रत्ययः। तां पार्वतीं साक्षाद्-द्रष्टा साक्षी। 'साक्षाद्-द्रष्टरि संज्ञायाम्' इतीनिप्रत्ययः। तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विद्युद्रूपैरुन्मिषितैरवलोकनैर्व्यलोकयन्निव। इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते। साक्ष्यं तु आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम्॥' इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसन्धेयम्।
अलङ्कारः – अत्र श्लोके उत्प्रेक्षालङ्कारः। इवेति चक्षुषा विलोकनमेव उत्प्रेक्ष्यते। साक्ष्यं तु - आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम्॥ इति महाभारतप्रमाणसिद्धत्वात् न उत्प्रेक्ष्यमिति चानुसन्धेयम् ।
भावार्थः – निबिडधारास्वनवरतप्रवृत्तमारुतासु वृष्टिष्वनावृतदेशवासिनीं शिलातलशायिनीं तां पार्वतीं महातपःकर्मसाक्षित्वे विद्यमाना रात्रयोः विद्युद्रूपैरक्षिपक्ष्मोद्घाटनैरवलोकयामासुरिव ।
कोशः – अन्तरमवकाशाऽवधिपरिधानाऽन्तविभेदतादर्थे छिद्रात्मीयविनाबहिरव सरमध्येऽन्तरात्मनि च इत्यमरः । निशा निशीथिनी रात्रिस्नियामा चणदाचपा इत्यमरः ।
निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥२६॥
अन्वयः – सा अत्यन्त हिमोत्किरानिलाः सहस्यरात्रीः उदवासतरा परस्पराक्रन्दिनि पुरः वियुक्ते चक्रवाकयोः मिथुने कृपावती सती निनाय
पदार्थः – सा = पार्वती। अत्यन्तहिमोत्किरानिलाः = अत्यर्थतुहिनक्षेपिवाताः। सहस्यरात्रीः = पौषरजनीः। उदवासतत्परा = जलनिवासासक्ता। परस्पराक्रन्दिनि = अन्योन्याकोशिनि। पुरः = अग्रे। वियुक्ते = विरहिणि, वियोगयुक्ते इत्यर्थः चक्रवाकयोः = चक्रवाक्याः चक्रवाकस्य च। मिथुने = द्वन्द्वे। कृपावती = दयावती सती। निनाय= यापयामास ।
व्युत्पत्तिः – अत्यन्तहिमोत्किरानिलाः = उत्किरन्तीति उत्किराः "कॄ विक्षेपे" इति धातोः “इगुपधज्ञाप्रीकिरः क" इति कप्रत्ययः । हिमानाम् उत्किराः हिमोत्किराः । अत्यन्तं हिमोत्किराः अतिहिमोत्किरा, ते अनिला यासु ताः अत्यन्त हिमोत्किरानिलाः, ताः सहस्यरात्रीः = सहसि = बले, साधुः सहस्यः, “तत्र साधुः" इति यत्प्रत्ययः “पौषे तैषसहस्यौ द्वौ ” इत्यमरः । सहस्यस्य रात्रयः सहस्यरात्रयः, ताः सहस्यरात्रीः। उदवासतत्परा = उदके वासः उदवासः, "पेषंवासवाहनधिषु च" इत्युदकस्य उदादेशः । उदवासे तत्परा उदवासतत्परा । परस्पराक्रन्दिनि = आक्रन्दतीति आक्रन्दि, परस्परं यथा स्यात्तथा, आक्रन्दि परस्पराक्रन्दि, तस्मिन् परस्पराक्रन्दिनि। वियुक्ते = युक्तं योगः, विगतं युक्तं यस्य तत् वियुक्तं, तस्मिन् वियुक्ते। चक्रवाकयोः = चक्रवाकी च चक्रवाकश्च चक्रवाकौ, तयोः चक्रवाकयोः, "पुमान्स्त्रिया" इत्येकशेषः। मिथुने = "स्त्री सौ मिथुनं द्वन्द्वम्" इत्यमरः। कृपावती = कृपा अस्ति यस्याः सा कृपावती, मतुप्प्रत्ययः।
सञ्जीविनी – निनायेति । सा पार्वती । उत्किरन्ति क्षिपन्तीत्युत्किराः 'इगुपधज्ञा-' इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्य रात्रीः । उदके वासः उदवासः 'पेषंवासवाहनधिषु च' इत्युदादेशः । उदवासे तत्परा आसक्ता तथा परस्परमाक्रन्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्रे वियुक्ते विरहिणि । वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाको तयोश्चक्रवाकयोमिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । 'अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः' इति मनुः ।
भावार्थः – सा पार्वती हैमपवनातिशीतलाः पौषरजनीः (हेमन्तकालरजनीः ) जलाधिवासनियता सती पुरोभागेऽन्योन्याक्रोशिनि विरहिणि चक्रवाकीचक्रवाकयो द्वन्द्वे दयमाना सती यापयामासेति भावः ।
कोशः – 'पौषेतैषसहस्यौ द्वौ' इत्यमरः ।
मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसंपदां सरोजसन्धानमिवाकरोदपाम् ॥२७॥
अन्वयः – सा निशि पद्मसुगन्धिना प्रवेपमानाधरपत्रशोभिना मुखेन तुषारवृष्टिक्षतपद्मसम्पदाम् अपां सरोजसन्धानम् अकरोत् इव ।
पदार्थः – सा = पार्वती। निशि= रात्रौ। पद्मसुगन्धिना = कमलसुरभिणा। प्रावेपमानाधरपत्रशोभिना = प्रकम्पमानोष्ठदलशोभिना। मुखेन = आननेन। तुषारसृष्टिक्षतपद्मसम्पदां = तुहिनवर्धनाशितकमलसम्पत्तीनाम्। अपां= जलानाम्। सरोजसन्धानं = कमलसङ्घट्टनम्। अकरोत् इव = व्यधत्त इव ।
व्युत्पत्तिः – पद्मसुगन्धिना = शोभनः गन्धः यस्य सः सुगन्धिः [गन्धस्येदुत्पूतिसुसुरभिभ्यः इति इत्वम्], पद्मम् इव सुगन्धिः पद्मसुगन्धिः, [उपमानानि सामान्यवचनैः इति समासः], तेन पद्मसुगन्धिना । प्रवेपमानाऽधरपत्रशोभिना= प्रवेपते इति प्रवेपमानः, प्रवेपमानश्चाऽसौ अधरः प्रवेपमानाऽधरः । प्रवेपमानाऽधर एवं पत्रं प्रवेवमानाऽधरपत्रं, प्रवेपमानाधरपत्रेण शोभते तच्छीलं प्रवेपमानाधरपत्रशोभि, तेन प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसम्पदां = तुषाराणां वृष्टिः तुषारवृष्टिः, तया क्षताः तुषारवृष्टिक्षताः, पद्मानां सम्पदः पद्मसम्पदः, तुषारवृष्टिक्षताः पद्मसम्पदः यासां ताः, तुषारवृष्टिक्षतपद्मसम्पदः, तासां तुषारवृष्टिक्षतपद्मसम्पदाम् । सरोजसन्धानं = सरसि जातानि सरोजानि, तेषां सन्धानं सरोजसन्धानं, तत्। अत्र हेमन्ते तुषारवर्षणादितरेषु सरोजेषु विनष्टेषु, पार्वत्याः वदनसरोजमेव जले तदानीं सरोजसन्ततिविच्छेदाभावमकरोदिवेत्यभिधानादुत्प्रेक्षाऽलङ्कारः । अधरस्य पत्ररूपणान्मुखस्य पद्मरूपणमर्यादायातमित्येकदेशविवर्ति रूपकं च । अन्यत् कमलं हिमेन उपहन्यते तन्मुखकमलं तु न तथा, इति व्यतिरेकाऽलङ्कारोऽपि व्यज्यत इत्येतेषां सङ्करः ।
सञ्जीविनी – मुखेनेति । सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा । 'गन्धस्येत्' इत्यादिनेकारः । प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन शोभत इति तथोक्तेन मुखेन तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसम्पदो यासां तासामपां सरोजसन्धानं पद्मसङ्घट्टनमकरोदिव इत्युत्प्रेक्षालङ्कारः । पद्मान्तरं तुहिनेनोपहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालङ्कारो व्यज्यत इत्युभयोः सङ्करः।
अलङ्कारः – प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन शोभत इति तथोक्तेन मुखेन तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसम्पदो यासां तासामपां सरोजसन्धानं पद्मसङ्घट्टनमकरोदिव इत्युत्प्रेक्षालङ्कारः । पद्मान्तरं तुहिनेनोपहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालङ्कारो व्यज्यत इत्युभयोः सङ्करः।
भावार्थः – उदवासतत्परत्वादुदके मुखमात्रदृश्या सा पार्वती हेमन्तरात्रौ कमलवत्सुरभिणा शीतवशात् कम्पमानोष्ठदलसुन्दरेण मुखेन हिमनष्टपङ्कजसमृद्धीनां जलानामविच्छिन्नपङ्कजसम्बन्धमिव चकारेति भावः ।
कोशः – पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् इत्यमरः ।
स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्येपर्णेति च तां पुराविदः ॥२८॥
अन्वयः – स्वयंविशीर्णद्रुमपर्णवृत्तिता तपसः परा काष्ठा हि। तया पुनः तत् अपि अपाकीर्णम्, अतः प्रियंवदां तां पुराविदः अपर्णा इति च वदन्ति।
पदार्थः – स्वयंविशीर्णद्रुमपर्णवृत्तिता = स्वतश्च्युतवृक्षपत्रवर्तनत्वम्। तपसः = नियमस्य। पराकाष्ठा हि = परम् उत्कर्षो हि। तया = पार्वत्या। पुनः, तत् अपि = पर्णवर्तनम् अपि। अपाकीर्णम् = अपाकृतम्। अतः = अस्मात् हेतोः, पर्णभक्षणत्यागात् हेतोरित्यर्थः। प्रियंवदां = हृद्यभाषिणीम्। तां= पार्वतीम्। पुराविदः = पुराणज्ञाः। अपर्णा इति च, वदन्ति = कथयन्ति।
व्युत्पत्तिः – स्वयंविशीर्णद्रुमपर्णवृत्तिता = स्वयं विशीर्णानि स्वयंविशीर्णानि, दुमस्य पर्णानि द्रुमपर्णानि स्वयंविशीर्णानि द्रुमपर्णानि एव वृत्तिर्यस्य स स्वयंविशीर्णद्रुमपर्णवृत्तिः, तस्य भावः स्वयंविशीर्णद्रुमपर्णवृत्तिता, “आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने" इत्यमरः । काष्ठा= "काष्ठोत्कर्षे स्थितौ दिशि" इत्यमरः । प्रियंवदां = प्रियं वदतीति प्रियंवदा, तो प्रियंवदां, "प्रियवशे वदः खच्" इति खच्प्रत्ययः, “अरुर्द्धिपदजन्तस्य मुम्" इति मुमागमश्च । पुराविदः = पुरा पुराणं, विदन्तीति पुराविदः, "पुरा पुराणे निकटे प्रबन्धाऽतीतभाविषु” इति मेदिनी । अपर्णा = अविद्यमानं भक्ष्यत्वेन पर्णम् अपि यस्याः सा अपर्णा । "अपर्णा पार्वती दुर्गा मृडानी चण्डिका- अम्बिका" इत्यमरः ।
सञ्जीविनी – स्वयमिति । स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्त्तता तपसः परा काष्ठा परमुत्कर्षो हि । 'काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः। तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकृतम्। अतः पर्णापाकरणाद्धेतोः । प्रियं वदतीति प्रियंवदा । 'प्रियवशे वदः खच्' इति खच्प्रत्ययः। 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः। तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमयेऽविद्यमानं पर्णभक्षणं यस्याः सापर्णेति वदन्ति। नामान्तरसमुच्चयार्थश्चकारः । अत्र 'अपर्णाम्' इत्यपपाठः इतिशब्दाभिहिते द्वितीयानुपपत्तेः। यथाह वामनः - 'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति। स्वयं प्रियंवदाः परेषामपि प्रियवादभाजनानि भवन्तीति भावः ।
भावार्थः – कालपरिपाकवशात् स्वयमेव पतितैर्वृक्षाणां जीर्णपत्रैर्जीवनं हि तपश्चर्यायाश्चरमसीमा भवति । तया पार्वया पुनः स्वयं पतितजीर्णपर्णभक्षणमपि परित्यक्तम् । अत एव पूर्ववृत्तान्तवेदिनो मधुरभाषिणीं पार्वतीं नाम्नाऽपर्णेत्यजुहुवुरिति भावः ।
कोशः – काष्ठोत्कर्षे स्थितौ दिशि इत्यमरः । आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने इत्यमरः । पुरा पुराणे निकटे प्रबन्धाऽतीतभाविषु इति मेदिनी । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका इत्यमरः ।
मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥२९॥
अन्वयः – मृणालिकापेलवं स्वम् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा कठिनैः शरीरैः उपार्जितं तपस्विनां तपः दूरम् अधश्चकार ।
पदार्थः – मृणालिकापेलवं= पद्मिनीकन्दकोमलम्। स्वम् = स्वकीयम्। अङ्गं = शरीरम्। एवमादिभिः = पूर्वोक्तजलादिवासैः। व्रतैः = नियमैः। अहर्निशम् = अहोरात्रम्। ग्लपयन्ती = कर्शयन्ती। (सा= पार्वती) कठिनैः = कठोरैः, क्लेशसहैरित्यर्थः । शरीरैः = देहैः। उपार्जितं = सम्पादितम्। तपस्विनां = तापसानाम्। तपः = नियमविशेषम्। दूरम् = अत्यन्तम्। अधश्चकार = तिरश्चकार, अतिशिश्ये इत्यर्थः ।
व्युत्पत्तिः – मृणालिकापेलवं = मृणालिका इव पेलवम् इति मृणालिकापेलवं, तत्। एवमादिभिः = एवम् = उक्तप्रकारतोयाग्निमध्यवासव्रतम् आदिः येषां तानि, एवमादीनि तैः एवमादिभिः। अहर्निशम् = अहश्च निशा च अहर्निशं, तत् [समाहारे द्वन्द्वैकवद्भावः] । अत्यन्तसंयोगे द्वितीया । तपस्विनां = तपः अस्ति येषां ते तपस्विनः तेषां तपस्विनां [तपःसहस्त्राभ्यां विनीनी इति विनिप्रत्ययः] । अनेन तपः सिद्धिकथनेन तपोवर्णनमुपसंहृतमित्यवसेयम् ।
सञ्जीविनी – मृणालिकेति ॥ मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीरमेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतैरहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावः । अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती । कठिनैः, क्लेशसहैरित्यर्थः । शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार, अतिशिश्य इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्पर्यार्थः ॥२९॥
भावार्थः – पद्मिनीकन्दकोमलं स्वकीयं शरीरं पूर्वोक्तप्रकारैस्तोयाग्निवासोपवासादिभिर्नियमैः रात्रिन्दिवं शोषयन्ती सा पार्वती जन्मतः प्रभृति परिचयवशादातपादिसंसर्गसहैर्देहैः सम्पादितं महर्षीणां तपोऽत्यन्तं तिरश्चकारेति भावः ।
कोशः – कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् इत्यमरः ।
अथाजिनापाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिञ्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥३०॥
अन्वयः – अथ अजिनाषाढधरः प्रगल्भवाक् ब्रह्ममयेन तेजसा ज्वलन् इव कश्चित् जटिलः शरीरबद्धः प्रथमाश्रमः यथा तपोवनं विवेश ।
पदार्थः – अथ = अनन्तरम्। अजिनाषाढधरः = मृगचर्मपलाशदण्डधरः। प्रगल्भवाक् = प्रौढवचनः। ब्रह्ममयेन = वेदाध्ययनमयेन, वेदाध्ययनप्रकर्षजनितेनेत्यर्थः । तेजसा = वर्चसा। ज्वलन् इव = देदीप्यमान इव। कश्चित् = कोऽपि, अनिर्दिष्ट इत्यर्थः। जटिलः = जटावान्, ब्रह्मचारीति शेषः । शरीरबद्धः = बद्धशरीरः, शरीरवानित्यर्थः। प्रथमाश्रमः यथा = ब्रह्मचर्याश्रमः इव। तपोवनं = तपःस्थलं, पार्वत्या इति शेषः । विवेश = प्रविष्टवान्।
व्युत्पत्तिः – अजिनाषाढधरः = आषाढी (पूर्णिमा) प्रयोजनम् अस्य सः आषाढः (पालाशदण्डः), [विशाखाऽऽपाठादण मन्यदण्डयोः इत्यण्प्रत्ययः] । अजिनं च आषाढश्च अजिनाषाढी । धरतीति धरः, [पचाद्यच्]। अजिनाषाढयोः धरः अजिनाषाढधरः, अनेन ब्राह्मणत्वमपि विज्ञातं भवति । ब्राह्मणानामेव पालाशदण्डविधानात् । प्रगल्भवाक् = प्रगल्भा वाक् यस्य स प्रगल्भवाक्। जटिलः = जटाः सन्ति यस्य स जटिल, [लोमा दिपामा दिपिच्छादिभ्यः शनेलचः इति पिच्छादित्वादिलच्] । ब्रह्मचारिणामपि जटाधरत्वमुक्तं मनुना, यथा- "मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः" इति । शरीरबद्धः = शरीरं बद्धं यस्य स शरीरबद्धः, "वाहिताग्न्यादिषु" इति पाठात् साधुत्वम्। प्रथमाश्रमः = प्रथमवासौ आश्रमः प्रथमाश्रमः । "ब्रह्मचारी गृहस्थश्च वानप्रस्थोयतिस्तथा" इति मनुस्मृतिवचनेन ब्रह्मचर्याश्रमस्यैवावलम्बनक्रमे प्राथम्यबोधनात्। तपोवनं = तपसः वनं तपोवनम् ।
सञ्जीविनी – अथेति ॥ अथानन्तरमजिनं कृष्णमृगत्वक् । आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः । ' पालाशो दण्ड आषाढः' इत्यमरः । 'विशाखाषाढादण्मन्थदण्डयोः' (पा. ५।१।११०) इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा, ब्रह्मवर्चसेनेत्यर्थः । ज्वलन्निव स्थितः । 'इव' शब्दो निर्धारणार्थः । कश्चिदनिर्दिष्टो जटिलो जटावान्, ब्रह्मचारीति शेषः । पिच्छादित्वादिलच्प्रत्ययः । शरीरबद्धो बद्धशरीरः, शरीरवानित्यर्थः । वाहिताभ्यादिषु पाठात्साधुः । प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव । 'यथा' शब्द इवार्थे । तपोवनम्, देव्या इति शेषः । विवेश प्रविष्टवान् ।
अलङ्कारः – अत्रोत्प्रेक्षालङ्कारः। शोभाधिक्यं लोकोत्तरप्रभावत्वञ्चोत्प्रेक्षाहेतुः यथाशब्दोऽयमुत्प्रेक्षाधोतकः ।
भावार्थः – अथ कृष्णाजिनपालाशदण्डधारी प्रौढवचनो ब्रह्मतेजसा देदीप्यमान इव जटावान् कश्चिदपरिचितो ब्रह्मचारी मूर्तिमान् ब्रह्मचर्याश्रम इव लक्ष्यमाणः पार्वत्यास्तपोवनं प्रविष्टोऽभूदिति भावः ।
कोशः – पालाशो दण्ड आषाढो व्रते इत्यमरः । अजिनं चर्म कृत्तिः स्त्री इत्यमरः। प्रगल्भः प्रतिभाऽन्विते इत्यमरः ।
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥३१॥
अन्वयः – आतिथेयी पार्वती तं बहुमानपूर्वया सपर्यंया प्रत्युदियाय । साम्येऽपि निविष्टचेतसां वपुविशेषेषु अतिगौरवाः क्रियाः भवन्ति ।
पदार्थः – आतिथेयी = अतिथिसत्कारिणी, पार्वती = उमा, तं ब्रह्मचारिणं, बहुमानपूर्वया = अतिसत्कारपूर्वया, गौरवपूर्वयेत्यर्थः । सपर्यया = अर्चया, प्रत्युदियाय = प्रत्युज्जगाम । “ननु कथं पार्वत्यास्तुल्येऽपि तादृश उपचार इत्यत आह"- साम्येऽपि = तुल्यत्वेऽपि, निविष्टचेतसां स्थिरचित्तानां, रागद्वेषराहित्यात् समबुद्धीनामित्यर्थः । वपुर्विशेषेषु = व्यक्तिविशेषेषु, तेजोविशेषयुक्तेषु शरीरेष्वित्यर्थः । अतिगौरवाः = अतिगौरवसहिताः क्रियाः = चेष्टाः, भवन्ति = प्रवर्तन्ते ।
व्युत्पत्तिः – आतिथेयी = अतिथिषु साध्वी आतिथेयी, “पथ्यतिथिवसतिस्वपतेम्” इति ढण्प्रत्ययः । “आयनेयीनीयियः फढखछुघां प्रत्ययादीनाम्” इति हस्य एय् । “टिड्ढाणम्” इत्यादिना ङीप् । पार्वती = पर्वतस्याऽपत्यं स्त्री पार्वती । बहुमानपूर्वया = बहुश्चासौ मानः बहुमानः, स पूर्वः यस्याः सा बहुमानपूर्वा, तया बहुमानपूर्वया सपर्यया= "पूजा नमस्याऽपचितिः सपर्यार्चार्हणा समाः” इत्यमरः । साम्ये = समस्य भावः साम्यं, तस्मिन् साम्ये, ध्यम्प्रत्ययः । निविष्टचेतसाम् = निविष्टं चेतः येषां ते निविष्टचेतसः, तेषाम् निविष्टचेतसां वपुर्विशेषेषु = वपुषां विशेषाः वपुर्विशेषाः, तेषु वपुर्विशेषेषु तात्पर्याऽनुपपत्तेः वपुःपदस्थ वपुधारिषु लक्षणा अतिगौरवाः = गुरोर्भावः गौरवम्, अत्यन्तं गौरवं यासां ता अतिगौरवाः क्रियाः = क्रियन्ते यास्ताः क्रियाः तेजोविशेषयुक्तेषु शरीरविशेषेषु भगवद्बुद्धिरुपपादिता गीतायां श्रीमद्भगवता श्रीकृष्णेन, यथा- यद्यद् विभूतिमत् सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेर्जोऽशसम्भवम् ॥ इति
सञ्जीविनी – तमिति । अतिथिषु साध्व्यातिथेयी । 'पथ्यतिथि -' इत्यादिना ढञ्प्रत्ययः । 'टिड्ढाणन्' - इत्यादिना ङीप् । पार्वती तं बह्मचारिणं बहुमानपूर्वया बहुमानः पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्ययार्चया 'सपर्यार्चर्हणाः समाः' इत्यमरः । प्रत्युदियाय प्रत्युज्जगाम कथं समानेऽपि तस्यास्तादृशी प्रतिपत्तिरत आह साम्येत्यपि निविष्टचेतसां स्थिरचितानां वपुविशेषेषु व्यक्तिविशेष्वतिशयितं गौरवं यासु ता अतिगौरवा अतिगौरवसहिताः क्रियाश्चेष्टा भवन्ति प्रवर्तन्त इत्यर्थः साधवो न साम्याभिनिवेशिन इति भावः ।
भावार्थः – अभ्यागतवत्सला सा पार्वती श्रद्धापूर्वकं पूजया तं ब्रह्मचारिणं प्रत्युज्जगाम रागद्वेषराहित्यात् सर्वत्र समबुद्धीनामुदारचेतसां तेजोविशेषयुक्तेषु शरीरेष्वत्यन्तगौरवोपेताः पूजाविधय उपपद्यन्त इति भावः ।
कोशः – पूजा नमस्याऽपचितिः सपर्यार्चर्हणाः समाः इत्यमरः ।
विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥३२॥
अन्वयः – सः विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं परिश्रमं च विनीय नाम, अथ उमाम् ऋजुना एव चतुषा पश्यन् अनुज्झितक्रमः सन् वक्तुं प्रचक्रमे ।
पदार्थः – सः=ब्रह्मचारी। विधिप्रयुक्तां = विधिनाऽनुष्ठिताम्। सत्क्रियां = पूजाम्। परिगृह्य = स्वीकृत्य। क्षणं = कचित्कालम्। परिश्रमं च = खेदं च। विनीय = अपनीय। अथ = अनन्तरम्। उमां = पार्वतीम्। ऋजुना एव = अजिह्मेन एव, विलासरहितेनैवेत्यर्थः । चक्षुषा = नेत्रेण। पश्यन् = अवलोकयन्। अनुज्झितक्रमः = अत्यक्तवचनक्रमः सन्। वक्तु = भाषितुम्। प्रचकमे = प्रारेभे ।
व्युत्पत्तिः – विधिप्रयुक्तां = विधिना प्रयुक्ता विधिप्रयुक्ता, तां विधिप्रयुक्ताम् । सत्क्रियां = सती चाऽसौ क्रिया सत्क्रिया, तां सक्रियाम् । नाम = प्रसिद्धौ । अनुज्झितक्रमः = न उज्झितः अनुज्झितः, स क्रमः येन सः अनुज्झितक्रमः । कुशलप्रश्नमारभ्य तपश्चरणकारणप्रश्नपर्यन्तो वक्ष्यमाणो वचनविन्यासक्रमोऽत्र क्रमशब्देन विवक्षितः ।
सञ्जीविनी – विधीति । स ब्रह्मचारी विधिना प्रयुक्तामनुष्ठितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय नाम । नामेत्य परमार्थे । अथोमामृजुनैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाटीकः सन् वक्तुं प्रचक्रमे प्रारेभे ।
भावार्थः – स ब्रह्मचारी शास्त्रोक्तविधिपूर्वकं कृतां तां पूजां स्वीकृत्य कश्चित्कालमध्वपरिश्रमापनयनञ्चाऽभिनीय विलासशून्याभ्यां नयनाभ्यां पार्वतीमुखमवलोकयन् कुशलप्रश्नानन्तरं क्रमशस्तपश्चरणकारणप्रश्नपर्यन्तं वक्तुमारेभे इति भावः ।
व्याकरणः – क्षणं = "कालाऽध्वनोरत्यन्तसंयोगे" इति द्वितीया ।
कोशः – विधिर्विधाने दैवे च इत्यमरः । ऋजावजिह्मप्रगुणौ इत्यमरः ।
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥३३॥
अन्वयः – क्रियार्थं समित्कुशं सुलभम् अपि ? जलानि ते स्नानविधिक्षमाणि अपि ? स्वशक्त्या तपसि प्रवर्तसे अपि ? खलु शरीरम् आद्यं धर्मसाधनम् ।
पदार्थः – क्रियार्थं = कर्मार्थं, होमादिकर्मानुष्ठानार्थमित्यर्थः । समित्कुशं = काष्ठदर्भम्। सुलभम् अपि = सुप्राप्यं कच्चित् । जलानि = अम्बूनि। ते = तव। स्नानविधिक्षमाणि अपि = मज्जनक्रियायोग्यानि कच्चित् । किञ्च स्वशक्त्या = आत्मसामर्थ्येन, स्वसामर्थ्यानुसारेणेत्यर्थः । तपसि = तपःक्रियायाम्। प्रवर्तसे अपि = प्रवृत्ता भवसि कच्चित्, शरीरमपीडयित्वा तपश्चरसि कच्चिदित्यर्थः, युक्तं चैतत् । खलु = यस्मात् हेतोः। शरीरं = देहम्। आद्यं = प्रथमम्। धर्मसाधनं = सुकृतोपकरणम् अस्ति ।
व्युत्पत्तिः – क्रियाऽर्थं = क्रियाभ्य इदं क्रियार्थम्। समित्कुशं = समिधश्च कुशाश्च समित्कुशम्। सुलभं = सुखेन लब्धुं शक्यं सुलभं खल्प्रत्ययः । अपि = कच्चिदर्थकः । स्नानविधिक्षमाणि = स्नानस्य विधिः स्नानविधिः, तस्मिन्क्षमाणि स्नानविधिक्षमाणि । स्वशक्त्याः = स्वा चाऽसौ शक्तिः स्वशक्तिः, तथा स्वशक्त्या। आद्यम् = आदौ भवम् आद्यम् । धर्मसाधनं = साध्यते अनेनेति साधनं, धर्मस्य साधनं धर्मसाधनम्, धर्मस्तु शरीरेण वाचा बुद्ध्या धनादिना च बहुभिः साध्यते, तेषु च शरीरमेव मुख्यं साधनम्, सति शरीरे धर्मार्थकाममोक्षलक्षणाः चतुर्वर्गाः साध्यन्ते । अत एव " सर्वत आत्मानं गोपायेत्” इति श्रुतिः ।
सञ्जीविनी – अपीति । अत्रापिशब्दः प्रश्ने । क्रियार्थं होमादिकर्मानुष्ठानार्थम् । समिधश्च कुशाश्च समित्कुशम् । 'जातिरप्राणिनाम्' इति द्वन्द्वैकवद्भावः । सुलभमपि सुलभं कच्चित् । जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्यान्यपि कच्चित् । किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसेऽपि । देहमपीडयित्वा तपश्चरसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्माच्छरीरमाद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव 'सततमात्मानमेव गोपायीत' इति श्रुतिः ।
भावार्थः – तव तपोवने होमाद्यङ्गभूतानि समित्कुशादीनि सुलभानि कञ्चित् । तवाश्रमे वर्तमानानि जलानि स्नानविधियोग्यानि बहूनि निर्मलानि च कच्चित् । आत्मशक्त्यनुसारेण तपसि प्रवर्तसे कच्चित् । समिदादिधर्मसाधनेषु मध्ये प्रधानं धर्मसाधनं शरीरमेवेति भावः ।
व्याकरणः – समित्कुशम् - "जातिरप्राणिनाम्” इति समाहारद्वन्द्वः ।
कोशः – अस्त्री कुशं कुथो दर्भः पवित्रम् इत्यमरः ।
अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥३४॥
अन्वयः – त्वदावर्जितवारिसम्भृतम् आसां वीरुधां प्रवालम् अनुबन्धि अपि ? यत् चिरोज्झितालक्तकपाटलेन ते दन्तवाससा तुलाम् आरोहति ।
पदार्थः – त्वदावर्जितवारिसम्भृतं = त्वत्सिक्तजलोत्पन्नम् (सम्भृतम् = उत्पन्नम्, जनितम्) । आसां = पुरोवर्तिनीनाम्। वीरुधां = लतानाम्। प्रवालं = पल्लवम्। अनुबन्धि अपि =अनुस्यूतं (निरन्तरम्) किम् । यत् = प्रवालम्। चिरोज्झिताऽलक्तकपाटलेन = चिरत्यक्तलाक्षारागश्वेतरक्तेन। ते = तव। दन्तवाससा = दशनवाससा, अधरेणेत्यर्थः । तुलां = समताम्। आरोहति = गच्छतीत्यर्थः ।
व्युत्पत्तिः – त्वदावर्जितवारिसम्भृतं = त्वया आवर्जितं त्वदावर्जितं तच्च तत् वारि त्वदावर्जितवारि, तेन सम्भृतं त्वदावर्जितवारिसम्भृतम् | अनुबन्धि = अनुबध्नातीति अनुबन्धि, णिनिप्रत्ययः । चिरोज्झिताऽलक्तकपाटलेन = चिरमुज्झितः चिरोज्झितः, सः अलक्तकः येन तत् चिरोज्झिताऽलक्तकं, चिरोज्झिताऽलक्तकं च तत् पाटलं = स्वभावरक्तमित्यर्थः, चिरोज्झिताऽलक्तकपाटलं, तेन चिरोज्झितालक्तकपाटलेन। दन्तवाससा = दन्तान् वस्ते = आच्छादयतीति दन्तवासः, तेन दन्तवाससा, कर्मण्यण् ।
सञ्जीविनी – अपीति ॥ त्वयावर्जितेन सिक्तेन वारिणा सम्भृतं जनितमासां वीरुधां लतानां प्रवालं पल्लवमनुबन्ध्यप्यनुस्यूतं किम् । यत्प्रवालं चिरोज्झितचिरकालत्यक्तोऽलक्तको लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्तकपाटलेन ते तव दन्तवाससाधरेण । 'ओष्टाधरी तु रदनच्छदौ दशनवाससी' इत्यमरः । तुलां साम्यमारोहति गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि 'तुल्यार्थैरतुलोपमाभ्याम्०' इति न तृतीयाप्रतिपेधस्तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति ।
भावार्थः – एतासु लतासु त्वदाहृतजलसम्पादितं किसलयमविच्छेदेन सर्वदा जायते कच्चित्, यत् किसलयं चिरकालपरित्यक्तलाक्षारसेनापि रक्तवर्णेन तवाधरोष्टेन सादृश्यं प्राप्नोतीति भावः ।
व्याकरणः – ननु "तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्” इति सूत्रेण तुलाशब्दयोगे तृतीयाप्रतिषेधात् कथं दन्तवाससा तुलामिति चेदुच्यते । सदृशपदार्थवाची सादृश्यमाश्रवाची चेति द्वौ तुलाशब्दौ । तयोः सदृशपदार्थवाचकतुलाशब्दयोगे एव तृतीयाप्रतिपेधः । अत एव कौमुद्यां कृष्णस्य तुला नास्तीत्युदाहृतम् । सादृश्यमात्रवाचकतुलाशब्दयोगे तु तृतीयापीष्यत एवेति न दोषः इति बोध्यम् ।
कोशः – ओष्टाधरी तु रदनच्छदौ दशनवाससी इत्यमरः । श्वेतरकस्तु पाटलः इत्यमरः ।
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥३५॥
अन्वयः – करस्थदर्भप्रणयापहारिपु हरिणेषु ते मनः प्रसन्नम् अपि ? हे उत्पलाक्षि ! ये प्रचलैः त्रिलोचनैः तव अक्षिसादृश्यं प्रयुञ्जते ।
पदार्थः – करस्थदर्भप्रणयापहारिषु = हस्तस्थितकुशप्रेमापहरणकर्तृषु, सापराधेष्वित्यर्थः । “करस्थदर्भप्रणयाऽपराधिषु" इति पाठे "हस्तस्थितकुशप्रार्थनासापराधेषु” इत्यर्थो बोध्यः । हरिणेषु = मृगेषु। ते = तव। मनः = चित्तम्। प्रसन्नम् अपि = न क्षुभितं किम् ? । हे उत्पलाक्षि ! = हे कुवलयाऽक्षि !। ये = हरिणाः। प्रचलैः = चञ्चलैः। विलोचनैः = नेत्रैः। तव = त्वदीयम्। अक्षिसादृश्यं = नेत्रतुल्यत्वम्। प्रयुञ्जते इव = अभिनयन्ति इव । "उत्पलक्षेपचलैः” इति पाठान्तरे " कुवलयकम्पचञ्चलैः" इत्यर्थो बोध्यः । "भावानयने द्रव्यानयन” मिति न्यायेन क्षिप्यमाणोत्पलचलैरिति यावत् ।
व्युत्पत्तिः – करस्थदर्भप्रणयापहारिषु = करे तिष्ठन्तीति करस्थाः, ते च ते दर्भाः करस्थदर्भाः, तान् प्रणयेन अपहरन्तीति करस्थदर्भप्रणयापहारिणः, तेषु करस्थदर्भप्रणयापहारिषु । पाठान्तरे -- " करस्थदर्भाणां प्रणयः करस्थदर्भप्रणयः तेन अपराधिनः, तेषु करस्थदर्भप्रणयापराधिषु" एवं समासाः ज्ञेयाः । अयमेव हि महामुनीनां स्वभावः, यत् सापराधेऽपि जने दयावत्त्वमित्यर्थः । हे उत्पलाक्षि = उत्पले इव अक्षिणी यस्याः सा उत्पलाक्षी, तत्सम्बुद्धौ हे उत्पलाक्षि [बहुव्रीहौ सक्थ्यचणोः स्वाङ्गात्पच् इति समासान्तः पच्, पित्वात् "षिद्गौरादिभ्यश्च" इति ङीष्] । प्रचलैः = चलन्तीति चलानि [पचाद्यच्], प्रकर्षेण चलानि प्रचलानि, तैः प्रचलैः ['सुप्सुपा' इति समासः] । विलोचनैः = विशिष्टानि लोचनानि विलोचनानि, तैः विलोचनैः [गतिसमासः] । अक्षिसादृश्यम् = सशस्य भावः कर्म वा सादृश्यम्, अक्ष्णोः सादृश्यम् अतिसादृश्यं, तत् । "य उत्पलत्क्षेपचलैः” इति पाठान्तरे - उत्पलानां क्षेपा उत्पलक्षेपाः, ते इव चलानि उत्पलक्षेपचलानि, तैः उत्पलक्षेप चलैः, एतादृशैः विलोचनैरित्यर्थो बोध्यः ।
सञ्जीविनी – अपीति । करस्थान् दर्भान्प्रणयेन स्नेहेनापहरन्तीति ते तथोक्तेषु । सापराधेष्विति भावः । 'करस्थदर्भप्रणयापराधिषु' इति पाठे दर्भाणां प्रणयेन प्रार्थनापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि न क्षुभितं किम् । सापराधेष्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि ! ये हरिणाः प्रचलैश्चञ्चलविलोचनैर्नेत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनैः साम्यमुपयान्तीति भावः । 'उत्पलक्षेपचलः' इति पाठान्तर उत्पलकम्पचलैः । भावानयने द्रव्यानयनमिति न्यायेन क्षिप्यमाणोत्पलचलैरित्यर्थः ।
अलङ्कारः – अत्र श्लोके उत्प्रेक्षाऽलङ्कारः ।
भावार्थः – हस्तस्थितकुशादानशालिषु सापराधेष्वपि मृगेषु विषये तव मनः प्रसन्नं कच्चित् ? हे कमलाक्षि ! ये मृगाः चञ्चलैः स्वनेत्रैः त्वन्नयनसादृश्यमभिनयन्तीव ।
व्याकरणः – हरिणेषु = वैषयिकीयं सप्तमी ।
कोशः – स्यादुत्पलं कुवलयम् इत्यमरः ।
यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथा हि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् ॥३६॥
अन्वयः – हे पार्वति ! 'रूपं पापवृत्तये न' इति यत् उच्यते, तत् वचः अव्यभिचारि । तथाहि हे उदारदर्शने ! ते शीलं तपस्विनाम् अपि उपदेशतां गतम् ।
पदार्थः – हे पार्वति = हे गौरि। रूपं = सौम्याकृतिः। पापवृत्तये = कल्मषाचरणाय, न भवतीति शेषः । इति = एतादृक्। यत् = वचः। उच्यते = कथ्यते, लोकैरिति शेषः । तत्, वचः = वचनम्,। अव्यभिचारि = व्यभिचाररहितं, सत्यमित्यर्थः । " यत्राकृतिस्तत्र गुणा वसन्ति” “न सुरूपाः पापसमाचारा भवन्ति” इत्यादयो लोकवादाः न विप्रलम्भमासादयन्तीत्यर्थः । तथा हि, हे उदारदर्शने = हे आयताक्षि ! हे सुरूपे इत्यर्थः । अथवा, हे उन्नतज्ञाने = विवेकवति ! इत्यर्थः । ते = तव। शीलं = सद्वृत्त,। तपस्विनाम् अपि = तापसानाम् अपि। उपदेशतां = प्रवर्तकप्रमाणताम्। गतं = प्राप्तम् ।
व्युत्पत्तिः – पापवृत्तये = पापस्य वृत्तिः पापवृत्तिः। तस्यै पापवृत्तये, । अव्यभिचारि = न व्यभिचरतीति अव्यभिचारि [ताच्छील्ये णिनिः] । हे उदारदर्शने = दृश्यते आभ्यामिति दर्शने [ "करणाधिकरणयोश्च" इति करणे ल्युट्] । ततो दर्शनशब्दस्य नेत्राऽर्थकत्वम् । उदारे दर्शने यस्याः सा उदारदर्शना, तत्सम्बुद्धौ हे उदारदर्शने ! यद्वा भावल्युडन्तो दर्शनशब्दः । उदारं दर्शनं यस्याः सा उदारदर्शना, तत्सम्बुद्धौ हे उदारदर्शने । तपस्विनां = तपः अस्ति येषां ते तपस्विनः तेषां तपस्विनां [विनिप्रत्ययः] । उपदेशताम् = उपदिश्यते अनेन इति उपदेशः, तस्य भावः उपदेशता, ताम् उपदेशताम् । "वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्" इत्यादिस्मृतिषु सदाचारस्यापि वेदवदेव प्रामाण्यस्य प्रतिपादितत्वादित्यर्थः ।
सञ्जीविनी – यदिति ॥ हे पार्वती ! रूपं सोम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् । 'यत्राकृतिस्तत्र गुणाः', 'न सुरूपाः पापसमाचारा भवन्ति' इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते - तथाहि । हे उदारदर्शने ! आयताक्षि ! सुरूपे इत्यर्थः । अथवोन्नतज्ञाने । विवेकवतीत्यर्थः । ते तव शीलं सद्वृत्तम् 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । तपस्विनामप्युपादिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् । मुनयोऽपि त्वां वीक्ष्य स्ववृत्ते प्रवर्तन्त इति भावः ।
भावार्थः – हे पार्वति ! सौन्दर्य "पापाचाराय न भवती”ति सामुद्रिकसारदर्शिभिर्यदुच्यते, तद्दचनं सत्यम्। तथाहि हे रूपवति ! तव शीलं महर्षिणामप्येवं कर्तव्यमित्युपदेशरूपत्वं प्राप्तम् । तस्मात् "रूपं शीलानुसारीति" वचनं सत्यमेवेति भावः ।
कोशः – अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् इत्यमरः। शीलं स्वभावे सद्वृत्ते इत्यमरः ।
विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्चयुतैः । यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥३७॥
अन्वयः – एष महीधरः विकीर्णसप्तर्षिबलिप्रहासिभिः दिवः च्युतैः गाङ्गैः सलिलैः तथा न पावितः, अनाविलैः त्वदीयैः चरितैः यथा सान्वयः पावितः ।
पदार्थः – एषः = अयम्। महीधरः = भूधरः, हिमालय इत्यर्थः । विकीर्णसप्तर्पिबलिप्रहासिभिः = पर्यस्तसप्तर्षिपुष्पोपहारसहासैः। दिवः = अन्तरिक्षात्। च्युतैः = पतितः। गाङ्गैः = गङ्गायाः। सलिलैः = जलैः। तथा = तेन प्रकारेण। न पावितः = न पवित्रीकृतः । अनाविलैः = अकलुषैः, शुचिभिरित्यर्थः । त्वदीयैः = त्वत्सम्बन्धिभिः, तवेत्यर्थः । चरितैः = चरितैः। यथा = येन प्रकारेण। पावितः = पवित्रीकृतः ।
व्युत्पत्तिः – महीधरः = धरतीति धरः, मह्या घरः महीधरः। विकीर्णसप्तर्षिबलिप्रहासिभिः = सप्त च ते ऋषयश्च सप्तर्षयः [“दिवसंख्ये संज्ञायाम्" इति समासः] । सप्तर्षीणां बलयः सप्तर्षिबलयः। विकीर्णाश्च ते सप्तर्षिबलयः = विकीर्णसप्तर्षिबलयः, तैः प्रहसन्तीति विकीर्णसप्तर्षिबलिप्रहासीनि तैः विकीर्णसप्तर्षिबलिप्रहासिभिः । गाङ्गैः = गङ्गाया इमानि गाङ्गानि, तैः गाङ्गैः [इदमर्थे अण्प्रत्ययः] । अनाविलैः = न आविलानि अनाविलानि, तैः अनाविलैः। त्वदीयैः = तव इमानि त्वदीयानि, तैः त्वदीयैः । सान्वयः = अन्वयेन सहितः साऽन्वयः।
सञ्जीविनी – विकीर्णेति । एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । ' दिक्संख्ये संज्ञायाम्' इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोक्तैर्दिवोऽन्तरिक्षाच्च्युतैर्गाङ्गैः सलिलैस्तथा न पावितः । अनाविलैरकलुषैस्त्वदीयैश्चरितैर्यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः ।
भावार्थः – अयं हिमालयः सप्तर्षिकृतपूजनपुष्पोपलक्षितैः स्वर्गात् पतितैर्गङ्गाजलैस्तथा पवित्रो न भवति, यथा दुराचारलेशरहितैस्त्वदीयैः सदाचारैः पितृपितामहमातृमातामहादिवंशपरम्परासहितः पवित्रो भवति । तेन त्वच्चरितं गङ्गाजलादपि पवित्रमिति भावः ।
कोशः – सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखण्डिनः इत्यमरः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् इत्यमरः । कलुषोऽनच्छ आविलः इत्यमरः ।
अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि। त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥३८॥
अन्वयः – हे भाविनि ! अनेन धर्मः सविशेषम् अद्य मे त्रिवर्गसारः प्रतिभाति । यत् मनोनिर्विषयार्थकामया त्वया एकः धर्म एव प्रतिगृह्य सेव्यते ।
पदार्थः – हे भाविनि = हे प्रशस्ताऽभिप्राये। अनेन = एतेन कारणेनेत्यर्थः । धर्मः = पुण्यम्। सविशेषं = सातिशयम्। अद्य = अस्मिन्दिने। मे = मम। त्रिवर्गसारः = वर्गत्रयश्रेष्ठः। प्रतिभाति = प्रतिस्फुरति । यत् = यस्मात्कारणात्। मनोनिर्विषयार्थकामया = चित्तनिराश्रयाऽर्थकामया। त्वया=भवत्या। एकः = एकाकी। धर्म एव = सुकृतम् एव। प्रतिगृह्य = स्वीकृत्य। सेव्यते = भज्यते ।
व्युत्पत्तिः – हे भाविनि = प्रशस्तः भावः यस्याः सा भाविनी, तत्सम्बुद्धौ हे भाविनि [इनिप्रत्ययः, तदन्तात्वीश्वविवचायां ङीष्प्रत्ययः] । सविशेषं = विशेषेण सहितं यथा तथा सविशेषं, क्रि० वि०। त्रिवर्गसारः = त्रयाणां धर्मार्थकामानां वर्गः त्रिवर्गः, त्रिवर्गे सारः त्रिवर्गसारः । मनोनिर्विषयाऽर्थका मया = निर्गतः विषयः याभ्यां तौ निविषयौ। मनसः निर्विषयौ मनोनिर्विषयौ । अर्थश्च कामश्च अर्थकामौ, मनोनिर्विषयौ अर्थकामौ यस्याः सा मनोनिर्विषयार्थकामा, तया मनोनिर्विषयार्थकामया = अर्थकामपराङ्मुखचित्तयेत्यर्थः ।
सञ्जीविनी – अनेनेति ॥ हे भाविनि ! प्रशस्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे । त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्गः । 'त्रिवर्गो धर्मं कामार्थैश्चतुर्वर्गः समीक्षकैः' इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणान्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ।
भावार्थः – हे प्रशस्तहृदये ! यस्मात् अर्थकामपराङ्मुखचित्तया त्वया यौवनोचि तान् कामान् पितृगृहसुलभान् अर्थानप्यनाहत्य केवलं धर्म एव साभिप्रायं सेव्यते, तस्मात् धर्मार्थकामानां मध्ये धर्मस्यैव प्राधान्यमिति निश्चयो जात इति भावः ।
कोशः – स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः इत्यमरः । त्रिवर्गा धर्मकामाऽर्थैश्वतुर्वर्गः समोक्षकः इत्यमरः|
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि । यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते ॥३९॥
अन्वयः – आत्मना प्रयुक्तसत्कारविशेषं मां परं सम्प्रतिपत्तुं न अर्हसि हे. सन्नतगात्रि ! यतः मनीषिभिः सतां सङ्गतं साप्तपदीनम् उच्यते ।
पदार्थः – आत्मना = स्वेन, प्रकरणानुरोधात् स्वयेत्यर्थः । प्रयुक्तसत्कारविशेषं = कृतपूजातिशयं, माम्। परम् = अनात्मीयम्। सम्प्रतिपत्तुम् = अवगन्तुम्। न अर्हसि = न योग्याऽसि । हे सन्नतगात्रि = हे सनसाऽङ्गि। यतः = यस्मात् कारणात्। मनीषिभिः = विद्वद्भिः। सतां = सज्जनानाम्। सङ्गतं = सख्यम्। साप्तपदीनं = सप्तपदोच्चारणसाध्यम्। उच्यते = कथ्यते । तच्च सख्यभावयोः त्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः ।
व्युत्पत्तिः – प्रत्युक्तसत्कारविशेषं = सत्कारस्य विशेषः सरकारविशेषः, प्रयुक्तः सत्कारविशेषः यस्य सः प्रयुक्तसत्कारविशेषः, तं प्रयुक्तसत्कारविशेषम् । हे सन्नतगात्रि = सम्यक् नतं सनतं [गतिसमासः], सन्नतं गात्रं यस्याः सा सन्नतगात्री, तत्सम्बुद्धौ हे सन्नतगात्रि [“अङ्गगात्रकण्टेभ्यो वक्तव्यम्” इति ङीप्] । मनीषिभिः = मनस ईषिणः मनीषिणः, तैः मनीषिभिः [शकन्ध्यादित्वात्साधुवम्] । साप्तपदीनं = सप्तभिः पदैः अवाप्यते इति साप्तपदीनं, ["साप्तपदीनं सख्यम्" इति निपातनात्साधुत्वम्] ।
सञ्जीविनी – प्रयुक्तेति ॥ आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं सम्प्रतिपत्तुमवगन्तुं नार्हसि । हे सन्नतगात्रि सन्नताङ्गि ! 'अङ्गगात्रकण्ठेभ्यः' इति वक्तव्यान्ङीप् । यतः कारणान्मनस ईषिभिर्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां सङ्गतं सख्यं सप्तभिः पदैरापद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते। तच्चावयोस्त्वत्कृतसत्कार प्रयोगादेव सिद्धमित्यर्थः । 'साप्तपदीनं सख्यम्' इति निपातनात्साधु ।
भावार्थः – हे सुन्दरगात्रि ! यतः सज्जनानां परस्परं सख्यं सङ्गममात्रादेव भवतीति मनीषिभिरुच्यते, ततः स्वत्कृत सत्कारविशेषोऽहं त्वदीय एव सञ्जातः, तस्मान्न परत्वेन कल्पनीयः, अपि तु स्वत्परिवारजनत्वेनैवाहं त्वया परिकल्पनीय इति भावः ।
कोशः – धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः इत्यमरः । सख्यं साप्तपदीनं स्यात् इत्यमरः ।
अतोत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥४०॥
अन्वयः – हे तपोधने ! अतः अत्र बहुक्षमां भवतीं द्विजातिभावात् उपपन्नचापलः अयं जनः किञ्चित् प्रष्टुमनाः अस्ति, रहस्यं न चेतु प्रतिवक्तुम अर्हसि ।
पदार्थः – हे तपोधने = हे नियमघने। अतः = एतस्मात्। सख्याद्धतोरित्यर्थः । अत्र = इह। बहुक्षमां = बहुलोक्तिसहां, यद्वा क्षमावतीं भवतीं, त्वाम्। द्विजातिभावात् = ब्राह्मणत्वात्। उपपन्नचापलः = सुलभधार्ष्ट्यः। अयं जनः = एष मनुष्यः, अहमित्यर्थः । किञ्चित् = किमपि। प्रष्टुमनाः = प्रष्टुकामः। अस्तीति शेषः । रहस्यं = गोप्यम्।, न चेत् = न यदि। प्रतिवक्तुं = प्रत्युत्तरं दातुम्। अर्हसि = योग्याऽसि ।
व्युत्पत्तिः – हे तपोधने = तप एव धनं यस्याः सा तपोधना, तत्सम्बुद्धौ हे तपोधने। बहुक्षमां = बहून् क्षमते इति बहुक्षमा, तां बहुक्षमाम्। यद्वा बह्वयः क्षमाः यस्याः सा बहुक्षमा, तां बहुक्षमाम् । द्विजातिभावात् = द्वे जाती (जन्मनी) यस्य स द्विजातिः, द्विजातेर्भावः द्विजातिभावः, तस्मात् द्विजातिभावात् । उपपन्नचापलः = चपलस्य भावः चापलम्, उपपन्नं चापलं यस्य स उपपन्नचापलः । प्रष्टुमनाः = प्रष्टुं मनो यस्य स प्रष्टुमनाः। रहस्यं = रहसि भवं रहस्यं, "तत्र भव" इति भवाऽर्थे यत् ।
सञ्जीविनी – अत इति ॥ हे तपोधने, अतः सख्याद्धेतोरत्र बहुक्षमाम् । बहूक्ति सहाम् यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद्वाह्मणत्वादुपपन्नचापल सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किञ्चित्प्रष्टुं मनो यस्य स किञ्चित्प्रष्टुमनाः प्रष्टुकामः 'तुं काममनसोरपि' इति मकारलोपः । रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तुमर्हसि ।
भावार्थः – हे तपोधने ! सख्यात् सञ्जातविस्रम्भो ब्राह्मणत्वात् सुलभधार्ष्ट्योऽहं क्षमावतीं त्वां तपोविषये किमपि प्रष्टुकामोऽस्मि । मया प्रष्टुमिष्टं वच्यमाणविषयमत्यन्तगोपनीयं न चेत् प्रतिबोधयितुं योग्यासीति भावः ।
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद ॥ ४१॥
अन्वयः – प्रथमस्य वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यम् इव उदितम्, ऐश्वर्यसुखम् अमृग्यम्, वयः नवम्, अतः परं किं तपःफलं स्यात् ? वद ।
पदार्थः – प्रथमस्य = पूर्वस्य, प्रधानस्य वा। वेधसः = प्रजापतेः, ब्रह्मण इत्यर्थः । कुले = वंशे। प्रसूतिः = उत्पत्तिः। वपुः = शरीरम्। त्रिलोकसौन्दर्यम् इव = भुवनत्रयसुन्दरत्वम् इव। उदितं = समाहृतम् । ऐश्वर्यसुखं = सम्पत्सुखम्। अमृग्यम् = न अन्वेषणार्थं, किन्तु सिद्धमेवेत्यर्थः । वयः = अवस्था। नवं = नूतनं, तारुण्यमित्यर्थः । अतः परम् = अस्मादन्यत्। किं तपःफलं = तपःपरिणामः। स्यात् = भवेत्। वद = ब्रूहि। अस्ति चेदिति शेषः ।
व्युत्पत्तिः – त्रिलोकसौन्दर्यम् = सुन्दरस्य भावः सौन्दर्यं [ष्यञ्प्रत्ययः] । त्रयाणां लोकानां सौन्दर्यं त्रिलोकसौन्दर्यं, ["तद्विताऽर्थोत्तरपदसमाहारे च" इति उत्तरपदसमासः] । ऐश्वर्यसुखम् = ईश्वरस्य भावः कर्म वा ऐश्वर्यम्, ऐश्वर्यस्य सुखम् ऐश्वर्यसुखम् । अमृग्यं = न मृग्यम् अमृग्यम् । तपः फलं = तपसः फलं तपःफलम् ।
सञ्जीविनी – कुल इति ॥ प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् । ऐश्वर्य सुखं संपत्सुखममृग्यमन्वेषणीयं न भवति । किन्तु सिद्धमेवेत्यर्थः । वयो नवम् | यौवनमित्यर्थः । अतः परमतोऽन्यत्किं तपःफलं स्याद्वद । अस्ति चेदिति शेषः । न किञ्चिदस्तीत्यर्थः ।
भावार्थः – आदिब्रह्मणो वंशे तवोद्भवः, पञ्चभूतरूपमुपादानमपहाय लोकत्रये विद्यमानं सौन्दर्यसारमात्रमुपादाय तेनैव निर्मितमिव प्रतीयमानं तव शरीरमस्ति, दशनोपभोगादिलक्षणं धनसुखमपि तव स्वतः सिद्धम्, प्रारब्धमात्रं यौवनञ्चास्ति, पूर्वोक्तादस्मादुपन्यस्तादन्यदस्य तपसः प्रयोजनं किं स्यादिति मे विचारमार्गं नारोहति, अस्ति चेत् वदेति भावः ।
कोशः – आदौ प्रधाने प्रथम इत्यमरः । विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा इत्यमरः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः इत्यमरः।
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥४२॥
अन्वयः – दुःसहात् अनिष्टात् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः भवति नाम । हे कृशोदरि ! विचारमार्गप्रहितेन चेतसा तत् त्वयि न दृश्यते ।
पदार्थः – दुःसहात् = सोढुमशक्यात्। अनिष्टात् अपि = अप्रियात् अपि, भर्त्रादिकृतादित्यर्थः । मनस्विनीनां = मानिनीनाम्। ईदृशी = एतादृशी। प्रतिपत्तिः = प्रवृत्तिः। भवति नाम । हे कृशोदरि = हे तनूदरि। विचारमार्गप्रहितेन = विचारवर्त्मप्रेषितेन। चेतसा = चित्तेन। तत् च = पूर्वोक्तमनिष्टं च। त्वयि = भवत्याम्। न दृश्यते = न प्रतीयते ।
व्युत्पत्तिः – दुःसहात् = दुखेन सोढुं शक्यं दुःसहं, तस्मात् दुःसहात् [खल्प्रत्ययः] । अनिष्टात् = न इष्टम् अनिष्ट, तस्मात् अनिष्टात् । मनस्विनीनां = प्रशस्तं मनः अस्ति आसां वा मनस्विन्यः, तासां मनस्विनीनां [मनःशब्दात् प्राशस्त्येऽर्थे "अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः, तदन्तात्स्त्रीत्वविवक्षायां ङीष्प्रत्ययः] । नामपदमिदं सम्भावनायां वर्तते । हे कृशोदरि = कृशम् उदरं यस्याः सा कृशोदरी, तत्सम्बुद्धौ हे कृशोदरि । विचारमार्गप्रहितेन = विचारस्य मार्गः विचारमार्गः, तस्मिन् प्रहितं विचारमार्गप्रहितं तेन विचारमार्गप्रहितेन।
सञ्जीविनी – भवतीति । दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीरस्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । 'प्रतिपत्तिस्तु गोरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये' इति केशवः । भवति नाम । नामेति सम्भावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः ।
भावार्थः – हे कृशोदरि ! परः सम्पादितादनिष्टादपि मानिनीनामत्यन्तदुश्चरतपश्चरणसम्भावना भवति, किन्तु सदनिष्टमपि त्वयि स्यादिति मे मनो विचारगोचरं नाधिगच्छति, अस्ति चेत् वदेति भावः ।
कोशः – प्रतिपत्तिस्तु गौरवे प्राप्तौ प्रवृत्तौ प्रागल्भ्ये इति केशवः । चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः इत्यमरः ।
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥४३॥
अन्वयः – हे सुभ्रु ! इयम् आकृतिः अलभ्यशोकाऽभिभवा । पितुः गृहे विमानना कुतः ? पराभिमर्शः तव न अस्ति । पन्नगरत्नसूचये करं कः प्रसारयेत् ?
पदार्थः – हे सुभ्रु = हे शोभनभ्रूयुक्ते, पार्वतीत्यर्थः । इयम् = तवेत्यर्थः । आकृतिः = आकारः, मूर्तिरित्यर्थः । अलभ्यशोकाभिभवा= अप्राप्यमन्युतिरस्कारा, दृश्यते इति शेषः । पितुः = जनकस्य। गृहे = गेहे। विमानना = अपमानः। कुतः = कस्मात्, भवतीति शेषः । न सम्भाव्यत एवेत्यर्थः । पराऽभिमर्शः = परधर्षणम्। तव = ते। न अस्ति = न वर्तते। पन्नगरत्नसूचये = सर्पमणिप्राप्त्यै। करं = हस्तम्। कः प्रसारयेत् = प्रसारितं कुर्यात्। न कोऽपीत्यर्थः ।
व्युत्पत्तिः – हे सुभ्रु = शोभना भूर्यस्याः सा सुभ्रूः, तत्सम्बुद्धौ हे सुभ्रु । अलभ्यशोकाभिभवा = लब्धुं योग्यः लभ्यः, न लभ्यः अलभ्यः, शोकेन = भर्त्राद्यवमानजेन दुःखेन, अभिभवः शोकाभिभवः, अलभ्यः शोकाभिभवः यस्याः सा अलभ्यशोकाभिभवा । पराभिमर्शः = परस्य अभिमर्शः पराभिमर्शः। पन्नगरत्नसूचये = पन्नं (पतितं) गच्छतीति पन्नगः [सर्वत्रपनयोरुपसंख्यानम्" इति डप्रत्ययः], पन्नमिति पद्यतेः क्तान्तं क्रियाविशेषणम्, पन्नगस्य रत्नं पन्नगरस्नं, तस्य सूचिः पन्नगरत्नसूचिः, तस्यै पन्नगरत्नसूचये ["क्रियाऽर्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी] । अत्र पार्वत्या महाभाग्ययोग्यवत्त्वं बन्धुजनमध्यवर्तित्वं पितृगौरवात् परानभिभवनीयत्वं चेति त्रयो हेतवोऽनिष्टप्राप्त्यभावे प्रतिपादिताः । तस्माच्च तवेदं तपश्चरणमनिष्टप्राप्तिहेतुकमिति सिध्यति ।
सञ्जीविनी – अलभ्येति ॥ हे सुभ्रु ! इयं त्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितश्चायमर्थ इत्याह। पितुर्गृहे विमाननावमाननः कुतः । न सम्भाव्यत एवेत्यर्थः । 'सुभ्रु कुतस्तातगृहेऽवमाननम्' इति पाठान्तरकरणं तु साध्यसमेवोक्तोपपत्तिसम्भवात् । अन्यत्रापि 'सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्' इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः । न चान्यस्माद्भावीत्याह – पराभिमर्शः परधर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । करं हस्तं कः प्रसारयेत् । 'सुभ्रु' इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् 'नेयङुवङ्स्थानावस्त्री' इति नदीसंज्ञाप्रतिषेधात् 'अम्बार्थनद्योर्हस्वः' इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु 'अप्राणिजातेश्चारज्वादीनाम्' इत्यत्र 'अलाबूः' 'कर्कन्धूः' इत्युकारान्तस्याप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात्क्वचिदूकारान्तस्याप्यन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः | अत एवाह वामनः - ' ऊकारादप्यूङ्प्रकृतेः' इति ।
भावार्थः – हे सुन्दरि ! इयं तवाकृतिः सम्भावनीयदुःखपरिभवा न प्रतिभाति । भर्तृगृहवर्तिनीनां मानिनीनां सपत्न्यादिसकाशाद्दुःखं सम्भाव्येत, किन्तु सकलबन्धुजनपरिपूर्ण पितृगृहवर्तिन्याः स्निग्धायास्तव दुःखं परस्मात् कथं सम्भाव्यते । किञ्च तथाविधप्रतापयुक्तस्य पर्वतचक्रवर्तिनो हिमालयस्य कन्यायास्ते परकृतबलात्कारस्पर्शोऽपि नैव सम्भाव्यते । जिजीविषुः कः पुमान् सर्पफणामणिसमाहरणाय हस्तमपि प्रसारयेत्, न कोऽपीति भावः ।
कोशः – उरगः पन्नगो भोगी जिह्नगः पवनाशनः इत्यमरः ।
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥४४॥
अन्वयः – ( हे गोरि ? ) किमिति यौवने त्वया आभरणानि अपास्य वार्धकशोभि वल्कलं धृतं, प्रदोषे स्फुटचन्द्रतारका विभावरी अरुणाय कल्पते यदि वद ?
पदार्थः – हे गौरि = हे पार्वति। किमिति = केन हेतुना। यौवने = तारुण्ये। त्वया = भवत्या। आभरणानि = भूषणानि। अपास्य = त्यक्त्वा। वार्धकशोभि = वृद्धत्वशोभि। वल्कलं = वल्कम्। धृतं = धारितम्। प्रदोषे = रात्रिमुखे। स्फुटचन्द्रतारका = व्यक्तेन्दुनक्षत्रा। विभावरी = रात्रिः। अरुणाय = सूर्याय। कल्पते यदि = कल्पिता भवति किम् । अरुणं गन्तुं कल्पते किमित्यर्थः । वद = ब्रूहि ।
व्युत्पत्तिः – वार्धकशोभि = वृद्धस्य भावो वार्धकम्, [मनोज्ञादित्वाद् वुम्प्रत्ययः, तस्य "युवोरनाकौ" इत्यकादेशः] वार्धके शोभते इति वार्धकशोभि । स्फुटचन्द्रतारका = चन्द्रश्च तारका चन्द्रतारकाः, स्फुटाः चन्द्रतारकाः यस्यां सा स्फुटचन्द्रतारका। अरुणाय = "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी ।
सञ्जीविनी – किमितीति ॥ हे गौरि ! किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद्वुञ्प्रत्ययः । 'वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि' इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यद्यरुणं मन्तुं कल्पते किम् । वद ब्रूहि । 'क्रियार्थोपपदस्य -' इत्यादिना चतुर्थी । दीप्यमानशशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः ।
भावार्थः – तारुणयोचितानि मुक्ताकलापादीनि भूषणानि परित्यज्य स्थविरभावो चितमिदं तरुवल्कलं त्वया किमिति परिगृहीतमस्ति यदि दीप्यमानशशाङ्कनक्षत्रा रात्रिः सायंसन्ध्यायामेवारुणं गन्तुमर्हति तर्हि वदेति भावः ।
कोशः – प्रदोषो रजनीमुखम् इत्यमरः । वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि इति विश्वः ।
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥४५॥
अन्वयः – दिवं प्रार्थयसे यदि तर्हि श्रमः वृथा, तव पितुः प्रदेशाः देवभूमयः । अथ उपयन्तारं प्रार्थयसे, (तर्हि ) समाधिना अलं, रत्नं न अन्विष्यति, हि तत् मृग्यते ।
पदार्थः – । तत्रत्या इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसालम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रतिकरणत्वात्तृतीया । तथाहि । रत्नं कर्तृ । नान्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किन्तु तद्रत्नं मृग्यते गृहीतृभिरितिशेषः । न हि वरार्थं त्वया वर्तितव्यं किन्तु तेनैव त्वदर्थमिति भावः ।
पदार्थः – दिवं = स्वर्गम्। प्रार्थयसे यदि = कामयसे चेत्। तर्हि, श्रमः = परिश्रमः, तपश्चरणप्रयास इत्यर्थः । वृथा = निष्फलः। तव = त्वदीयस्य। पितुः = जनकस्य, हिमवत इत्यर्थः । प्रदेशाः = स्थानानि। देवभूमयः = स्वर्ग
पदार्थः – । अथ = पक्षान्तरे। उपयन्तारं = वरम्। प्रार्थयसे = अपेक्षसे। तर्हि, समाधिना = तपसा। अलं = न कर्तव्यमित्यर्थः। हि = यस्माद्धेतोः। रत्नं = मणिः। न अन्विष्यति = न मृगयते, ग्रहीतारमिति शेषः । अपि तु तत् = रत्नम्। मृग्यते = अन्विष्यते, ग्रहीतृभिरिति शेषः ।
व्युत्पत्तिः – देवभूमयः = देवानां भूमयः देवभूमयः । उपयन्तारम् = उपयच्छतीति उपयन्ता, तम् उपयन्तारं तृच्प्रत्ययः । समाधिना अलं [निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया] । अत्र सर्वप्रार्थनीयरत्नकर्तृकान्वेषणप्रतिषेधेन तत्सदृशः पार्वतीकर्तृकवरप्रार्थनाप्रतिषेधः प्रतीयत इति सादृश्यादप्रस्तुतप्रशंसेयम् । रत्नस्य स्वजातिभ्रष्टत्वे पुनरर्थान्तरन्यासः ।
सञ्जीविनी – दिवमिति । दिवं स्वर्गं प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः। यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः । कुतः । तव पितुर्हिमवतः प्रदेशा देवभूमयः स्वर्ग
भावार्थः – अनेन तपसा त्वं यदि स्वर्गमपेक्षसे, तहिं तवायं प्रयासो व्यर्थ एव । तव जनकस्य हिमालयस्य प्रदेशाः स्वर्गाः सन्ति । एवञ्च स्वर्गस्थितानां स्वर्गप्राप्त्यपेक्षा न सम्भवति । किञ्च पतिप्राप्यर्थं तपश्चरणं क्रियते चेत्, तपो न कर्तव्यम्, तथाहि - सर्वप्रार्थनीय हीरकादिरत्नमात्मधारणयोग्यं पुरुषं नान्वेषयति, किन्तु सर्वैरात्मलाभार्थं तद्वनमेव सर्वदाऽन्विष्यते इति भावः ।
कोशः – सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् इत्यमरः ।
निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥४६॥
अन्वयः – सोष्मणा निश्वसितेन निवेदितं मनस्तु मे संशयम् एव गाहते, ते प्रार्थयितव्यः एव न दृश्यते प्रार्थितदुर्लभः कथं भविष्यति ।
पदार्थः – सोष्मणा = उष्णयुक्तेन। निश्वसितेन = निश्वासवायुना। निवेदितं = सूचितम् । तथाऽपि, मनस्तु = चित्तं तु। मे = मम। संशयम् एव = सन्देहम् एव। गाहते = प्राप्नोति । कुतः? ते = तव। प्रार्थयितव्यः एव = प्रार्थयितुम् अर्ह एव। न दृश्यते = न अवलोक्यते । प्रार्थितदुर्लभः = याचितदुष्प्राप्यः। कथं = केन प्रकारेण। भविष्यति = भविता, नाऽस्त्येवेत्यर्थः ।
व्युत्पत्तिः – सोष्मणा = ऊष्मणा सहितं सोम, तेन सोष्मणा, इष्टानवाप्तिसन्तापोष्णेनेत्यर्थः । ते ["कृत्यानां कर्तरि वा" इति षष्ठी] । प्रार्थयितव्यः = प्रार्थयितुं योग्यः प्रार्थयितव्यः । प्रार्थितदुर्लभः = दुःखेन लब्धुं शक्यः दुर्लभः [खल्प्रत्ययः], प्रार्थितवाऽसौ दुर्लभः प्रार्थितदुर्लभः ।
सञ्जीविनी – निवेदितमिति । सोष्मणा निश्वसितेन निश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णोच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याह - मनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः । ते तव । कृत्यानां कर्तरि वा' इति षष्ठी । प्रार्थयितव्यः प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति । नास्त्येवेत्यर्थः ।
भावार्थः – यद्यपि तव सन्तापोष्णदीर्घनिश्वासानुमानेन वरप्रार्थनमेव तपःकारणमिति मया सम्यगवतम् । तथापि तत्रोपपत्तिलेशस्याप्यभावाद् मे मनो निश्चयं नोपलभते । यतः सर्वप्रार्थनीयया त्वया प्रार्थयितव्यः कश्चित्पुरुषो लोकत्रयेऽपि नोपलभ्यते । अपि च यदि कदाचित् कश्चित् त्वया प्रार्थितो भवेत्, तर्हि तस्य भाग्यातिशय एव तत्र हेतुरिति कुतस्तस्य प्रार्थितदुर्लभत्वम् । ततो न तदर्थं तव तपश्चरणोपपत्तिरिति भावः ।
कोशः – विचिकित्सा तु संशयः सन्देहवापरौ च इत्यमरः ।
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते। उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥४७॥
अन्वयः – अहो ! तव ईप्सितः युवा कोऽपि स्थिरः । यः चिराय कर्णोत्पलशून्यतांगते कपोलदेशे श्लथलम्बिनीः कलमाग्रपिङ्गलाः जटाः उपेक्षते ।
पदार्थः – अहो = आश्चर्यम्। तव = भवत्याः। ईप्सितः = प्राप्तुम् इष्टः। युवा = तरुणः। कोऽपि=कश्चिदपि। स्थिरः = कठिनः। वर्तते इति शेषः । यः = युवा। चिराय = चिरात्प्रभृति। कर्णोत्पलशून्यतां गते = श्रुतिकुवलयराहित्यं प्राप्ते। कपोलदेशे = गण्डस्थले। श्लथलम्बिनीः = शिथिलाऽवस्त्रंसिनीः। कलमाऽग्रपिङ्गलाः = शालिविशेषाऽप्रकपिला। जटाः = सटाः। उपेक्षते = उपेक्षां करोति ।
व्युत्पत्तिः – कर्णोपलशून्यतां = कर्णयोः उत्पले कर्णोपले, ताभ्यां शून्यः कर्णोत्पलशून्यः, तस्य भावः कर्णोत्पलशून्यता, तां कर्णोपलशून्यतां । कपोलदेशे = कपोलस्य देशः कपोलदेशः, तस्मिन् कपोलदेशे । श्लथलम्बिनोः = लम्बन्ते इति लम्बिन्यः, श्लथाश्च ता लम्बिन्यः श्लथलम्बिन्यः, ताः लथलम्बिनीः । कलमाऽग्रपिङ्गलाः = कलमानाम् अग्राणि कलमाऽग्राणि तानि इव पिङ्गलाः कलमाऽग्रपिङ्गलाः, ताः ।
सञ्जीविनी – अहो इति ॥ अहो चित्रम् । तवेप्सित आप्तुमिष्टो युवा कोऽपि स्थिरः कठिनः । वर्तत इति शेषः । कुतः । यो युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धना अत एव लम्बिन्यस्ताः श्लथलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गलाः जटा उपेक्षते । यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ।
भावार्थः – आश्चर्य, त्वया अभिलष्यमाणो युवत्वाभिमानवञ्चितः कश्चन पुरुषोऽतीव कठोरः प्रतिभाति। यश्चिरात्प्रभृति कर्णाभरणरहिते तव गण्डप्रदेशे बन्धनशैथिल्येन लम्बमानाः शालिशूकरक्तवर्णाः प्रत्यक्षेणैव लक्ष्यमाणास्तव जटाः समुपेक्षते, सरभसमागत्य स्वकराभ्यामेव न बध्नातीति भावः ।
कोशः – वयस्थस्तरुणो युवा इत्यमरः। चिराय चिररात्राय चिरस्याद्याश्चिराऽर्थकाः इत्यमरः ।
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥४८॥
अन्वयः – मुनिव्रतैः अतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदां दिवा शशाङ्कलेखाम् इव त्वां पश्यतः कस्य मनः न दूयते ।
पदार्थः – मुनिवतैः = ऋषिनियमैः, चान्द्रायणादिभिरित्यर्थः । अतिमात्रकर्शिताम्= अत्यन्तकृशीकृताम्। दिवाकराप्लुष्टविभूषणास्पदां = सूर्यदग्धाऽलङ्कारस्थानाम्। दिवा = दिवसे। शशाङ्कलेखाम् इव = चन्द्ररेखाम् इव। त्वां = भवतीम्। पश्यतः = अवलोकयतः। सचेतसः = सहृदयस्य। कस्य = पुंसः। मनः = चित्तम्। न दूयते = न परितप्यते । अपि तु सर्वस्यैव चितं परितप्यते इत्यर्थः ।
व्युत्पत्तिः – मुनिव्रतैः = मुनीनां व्रतानि मुनिव्रतानि, तैः मुनिव्रतैः। अतिमात्रकर्शिताम् = अतिमात्रं यथा तथा कर्शिता अतिमात्रकर्शिता, ताम् अतिमात्रकर्शिताम् । दिवाकराप्लुष्टविभूषणास्पदां = दिवा करोति इति दिवाकरः [टप्रत्ययः] । विभूषणानाम् आस्पदानि विभूषणास्पदानि। दिवाकरेण = सूर्येण। आप्लुष्टानि = श्यामीकृतानि। विभूषणास्पदानि यस्याः सा दिवाकराप्लुष्टविभूषणास्पदा, तां दिवाकराऽऽप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखाम् = शशः अङ्कः यस्य स शशाङ्कः, तस्य लेखा शशाङ्कलेखा, तां शशाङ्कलेखाम् । पश्यतः पश्यतीति पश्यन् तस्य पश्यतः । सचेतसः = चेतसा सहितः सचेताः, तस्य सचेतसः ।
सञ्जीविनी – मुनिव्रतैरिति ॥ मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाच्च श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्करेखामिव स्थितां त्वां पश्यतः सचेतसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः ।
भावार्थः – तपोभिरत्यन्तकृशीकृतां सूर्यदग्धाभरणस्थानामहनि परिधूसरां चन्द्रलेखामिव भवतीमवलोकयतः कस्य सचेतनस्य हृदयं न परितप्यते, अपि तु सर्वस्यापि परितप्यत एवेति भावः ।
कोशः – सूरसूर्यार्यमादित्य द्वादशात्म दिवाकराः इत्यमरः ।
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥४९॥
अन्वयः – तव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि । यः चतुरावलोकिनः अरालपक्ष्मणः अस्य चक्षुषः आत्मीयं वक्त्रं चिरं लक्ष्यं न करोति ।
पदार्थः – तव = भवत्याः। प्रियं= वल्लभम्। सौभाग्यमदेन = सौन्दर्यगर्वेण। वञ्चितं = विप्रलब्धम्। अवैमि = वेद्मि। यः = प्रियः। चतुराऽवलोकिनः = मधुरदर्शिनः। अरालपक्ष्मणः = कुटिलरोम्णः। अस्य = त्वदीयस्य। चक्षुषः = नेत्रस्य। आत्मीयं = स्वीयम्। वक्त्रं = मुखम्। चिरं = बहुकालपर्यन्तम्। लक्ष्यं = विषयम्।, न करोति = न विदधाति, दृष्टिपथं न करोतीत्यर्थः ।
व्युत्पत्तिः – प्रियं = प्रीणातीति प्रियः, तं प्रियं । सौभाग्यमदेन = सुभगस्य भावः कर्म वा सौभाग्यं, [ष्यञ्प्रत्ययः], सौभाग्यस्य मदः सौभाग्यमदः, तेन सौभाग्यमदेन । चतुरावलोकिनः = चतुरं यथा तथा, अवलोकते इति चतुरावलोकि, तस्य चतुरावलोकिनः । अरालपक्ष्मणः = अरालानि पक्ष्माणि यस्य तत् अरालपक्ष्म, तस्य अरालपक्ष्मणः । आत्मीयम् = आत्मन इदम् आत्मीयं, तत्। लक्ष्यं = लक्षितुं योग्यं, लक्ष्यं, तत् ।
सञ्जीविनी – अवैमीति ॥ तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा । वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियचतुरं मधुरमवलोकत इति चतुरावलोकिनोऽरालपक्ष्मणः कुटिलरोम्णः । 'अरालं वृजिनं जिह्मम्' इत्यमरः । अस्य त्वदीयस्य चक्षुष आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति । दृष्टिपथं न गच्छतीत्यर्थः तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ।
भावार्थः – स्वया प्रियत्वेन सङ्कल्पितं पुरुषं स्वकीयसौन्दर्यगर्वेण विप्रलब्धं कल्पयामि । यः पुरुषः सुन्दरदर्शनस्य कुटिलरोम्णोऽस्य त्वदीयस्य नेत्रस्थ स्वं मुखं चिरं दृष्टिपथं न करोति । यद्यसौ सौन्दर्यमदगर्विता नाभविष्यत् तर्हि लोकोत्तरगुणमेतत् भवदीयं नेत्रमनवरतं तन्मुखावलोकनपरमेवाभविष्यदिति भावः ।
कोशः – अरालं वृजिनं जिह्मम् इत्यमरः ।
कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसञ्चितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥५०॥
अन्वयः – हे गौरि ! कियत् चिरं श्राम्यसि ? मम अपि पूर्वाश्रमसञ्चितं तपः विद्यते । तदर्धभागेन काङ्क्षितं वरं लभस्व । तं साधु वेदितुम् इच्छामि ।
पदार्थः – हे गौरि = हे पार्वति ! कियत् = किंप्रमाणके, किमधिकमित्यर्थः। चिरं = बहुकालपर्यन्तम्। श्राम्यसि = श्रमं करोषि तपस्यसीत्यर्थः । मम अपि = मामकम् अपि। पूर्वाश्रमसञ्चितं = प्रथमाश्रमसम्पादितं तपः। विद्यते = वर्तते। तदर्धभागेन = तदर्धांशेन। काङ्क्षितम् = इष्टम्। वरम् = उपयन्तारम्। लभस्व = प्राप्नुहि। तं = वरम्। साधु = सम्यक्। क्रि० वि, वेदितुम = ज्ञातुम्। इच्छामि = वाञ्छामि ।
व्युत्पत्तिः – चिरं ["कालाऽध्वनोरस्यन्तसंयोगे” इति द्वितीया] । पूर्वाश्रमसञ्चितं = पूर्वश्चाऽसौ आश्रमः पूर्वाश्रमः, ब्रह्मचर्याश्रम इत्यर्थः । तस्मिन् सञ्चितं पूर्वाश्रमसञ्चितं, तदर्धभागेन = अर्धश्चासौ भागः अर्धभागः, तस्य अर्धभागः, तदर्धभागः तेन तदर्धभागेन। काङ्क्षितं = काङ्क्षा सञ्जाता यस्य स काङ्क्षितः, तं काङ्क्षितम् [इतच्प्रत्ययः] । यद्वा निष्ठायां कप्रत्ययः ।
सञ्जीविनी – कियदिति । हे गौरि ! कियत्किम्प्रमाणकम् । किमधिकमित्यर्थः। चिरं श्राम्यसि तपस्यसि। अत्यन्तसंयोगे द्वितीया। ममापि। पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र सञ्चितं सम्पादितं तपो विद्यते अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्यग्वेदितुं ज्ञातुमिच्छामि यद्यसौ योग्यो भवति तदा ममापि सम्मतिरिति भावः।
भावार्थः – हे गौरि ! स्वं किमवधिकं तपस्यसि । अलमनेन श्रमेण, ममापि ब्रह्मचर्याश्रमार्जितं बहु तपो वर्तते, तस्य तपसः समप्रविभागरूपेणांशेनाभिलषितं भर्तारं प्राप्नुहि । किन्तु स्वया मनसा सचिन्त्यमानं तं भर्तारं सम्यग् ज्ञातुमभिलषामीति तस्य कुलनामनी कथयेति भावः ।
कोशः – इच्छा काङ्क्षा स्पृहेहा तृड वाञ्छा लिप्सा मनोरथः इत्यमरः ।
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥५१॥
अन्वयः – इति द्विजन्मना प्रविश्य अभिहिता सा मनोगतं शंसितुं न शशाक । अथो परिपार्श्ववर्तिनीं वयस्यां विवर्तितानञ्जनेत्रम् ऐक्षत ।
पदार्थः – इति = इत्थम्। द्विजन्मना = द्विजेन, ब्रह्मचारिणेत्यर्थः । प्रविश्य = अन्तगत्वा, आप्तरहस्यमुद्धाव्येत्यर्थः । अभिहिता = उक्ता। सा= पार्वती। मनोगतं = हृदयस्थम्। वरमित्यर्थः शंसितुं = सूचयितुं वक्तुमित्यर्थः । न शशाक = समर्था न अभूत्, लज्जयेति शेषः । अथ = अनन्तरं परिपार्श्ववर्त्तिनीं = समीपविद्यमानाम्। वयस्यां =सखीम्। विवर्तितानञ्जननेत्रं = विचालिताऽकज्जलनयनम्, यथा तथा। ऐक्षत = अद्राक्षीत् ।
व्युत्पत्तिः – द्विजन्मना = द्वे जन्मनी यस्य स द्विजन्मा, तेन द्विजन्मना । मनोगतं = मनसि गतः, मनोगतः, तं मनोगतम् । परिपार्श्ववर्तिनीं = परिपार्श्वे वर्तते तच्छीला इति परिपार्श्ववर्तिनी, तां परिपार्श्ववर्तिनीं णिनिप्रत्ययः, तदन्तात् स्त्रीत्वविवक्षायां ङीप् । वयस्यो = वयसा तुल्या वयस्या, तां वयस्यां यत्प्रत्ययः । विवर्तितानञ्जननेत्रम् = अविद्यमानम् अञ्जनं यस्मिन् तत् अनञ्जनं, व्रतवशात् वर्जितकज्जलमिस्यर्थः । विवर्तितम् अनञ्जनं नेत्रं यस्मिन् कर्मणि यथा तथा तत् विवर्तितानञ्जननेत्रम् |
सञ्जीविनी – इतीति ॥ इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा । आप्तवद्रहस्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत । नेत्रसंज्ञयैव प्रत्युत्तरं वाचयाञ्चकारेत्यर्थः ।
भावार्थः – इत्थं ब्राह्मणेनान्तः प्रविश्योक्ता लज्जया मनःसङ्कल्पितं पतिं कथयितुमशक्नुवाना सा पार्वती ब्रह्मचारिमुखान्नेत्रमाकृष्य सर्वदा समीपवर्तिसखीमुखावलोकनमात्रेण तां निजमनोरथशंसनाय प्रेरितवतीति भावः ।
कोशः – मङ्गलाऽनन्तराऽऽरम्भप्रश्नकारस्यैवथो अथ इत्यमरः । आलिः सखी वयस्या च इत्यमरः ।
सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥५२॥
अन्वयः – तदीया सखी तं वर्णिनम् उवाच । हे साधो ! तव कुतूहलं चेत् निबोध । यदर्थम् एतया अम्भोजम् उष्णवारणम् इव वपुः तपः साधनं कृतम् ।
पदार्थः – तदीया = पार्वस्याः। सखी = वयस्या। तं = पूर्वोक्तम्। वर्णिनं = ब्रह्मचारिणम्। उवाच = अवोचत् । हे साधो = हे विद्वन्। तव = ते। कुतूहलं = कुतुकम्। चेत् = यदि, श्रोतुमस्तीति शेषः । तर्हि निबोध = अवगच्छ, आकर्णयेत्यर्थः । यदर्थं = यत्प्रयोजनम्। एतया = पार्वत्या। अम्भोजं= कमलम्। उष्णवारणम् इव = आतपवारणम् इव, आतपत्रमिवेत्यर्थः । वपुः = शरीरम्। तपःसाधनं = नियमोपकरणम्। कृतं = विहितम् ।
व्युत्पत्तिः – तदीया = तस्या इयं तदीया, छप्रत्ययः । वर्णिनं = प्रशस्तः वर्ण अस्यास्तीति वर्णी, तं वर्णिनं, ["वर्णाद् ब्रह्मचारिणि” इति इनिप्रत्ययः] । यदर्थं = यस्मै इदं यदर्थ, तत्, यादृशवान्तिसिध्यर्थमित्यर्थः । अम्भोजम् = अम्भसि जातम् अम्भोजम्, [“सप्तम्यां जनेर्डः" इति डप्रत्ययः] । उष्णवारणम् = उष्णं वार्यते अनेन इति उष्णवारणं [करणे ल्युट] । तपःसाधनं = तपसः साधनं तपःसाधनम् ।
सञ्जीविनी – सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । 'वर्णः प्रशस्तः, इति क्षीरस्वामी । सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । 'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साघो विद्वन्, तव कुतूहलं चेत् श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । 'बुध अवगमने ' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह - यस्मै लाभायेदं यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपत्रमिव वपुः शरीरं तपः साधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ।
भावार्थः – पार्वती सम्बन्धिनी वयस्या तमपरमार्थब्रह्मचारिणमुक्तवती । हे सत्पुरुष ! अस्मिन् विषये तव श्रवणकौतुकञ्चेच्छृणु । अहं तत्सर्वमपि ते कथयामि । यादृशवाञ्छितसिद्ध्यर्थं "दर्शनावघ्राणादिभिरुपभोक्तव्यमत्यन्तसुकुमारं कमलं केनापि यथातपत्रत्वेन विधीयते" तद्वदनयापि मृदुतरमात्मशरीरमत्यन्तकठिनशरीरसाध्यस्य तपसः साधनत्वेन परिकल्पितमस्तीति भावः ।
कोशः – कौतूहलं कौतुकं च कुतुक च कुतूहलम् इत्यमरः ।
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥५३॥
अन्वयः – मानिनी इयम् अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य, मदनस्य निग्रहात् अरूपहार्यं पिनाकपाणिं पतिम् आप्तुम् इच्छति ।
पदार्थः – मानिनी = अभिमानवती। इयं = पार्वती। अधिश्रियः = अधिकैश्वर्यान्। महेन्द्रप्रभृतीन् = इन्द्रादीन्। चतुर्दिगीशान् = दिश्चतुष्टयपतीन्, इन्द्रयमवरुणकुबेरानित्यर्थः । अवमत्य = अवधूय । मदनस्य = कामस्य। निग्रहात् = निबर्हणात् हेतोः, अकामुकत्वादित्यर्थः । अरूपहार्यम् = असौन्दर्यवश्यं, पिनाकपाणिम् = अजरावकर, हरमित्यर्थः । पतिं = भर्तारम् आप्तुम् = लब्धुम् इच्छति = कामयते ।
व्युत्पत्तिः – मानिनी = प्रशस्तः मानः अस्या अस्तीति मानिनी। अधिश्रियः = अधिका श्रीर्येषां ते अधिश्रियः तान् । महेन्द्रप्रभृतीन् = महांश्चाऽसौ इन्द्रः महेन्द्रः, महेन्द्रः प्रभृतिः येषां ते महेन्द्रप्रभृतयः, तान् महेन्द्रप्रभृतीन् । चतुर्दिगीशान् = चतसृणां दिशाम् ईशाः चतुदिगीशाः तान् चतुर्दिगीशान् [तद्धितार्थोत्तरपदसमाहारे "व" इति उत्तरपदसमासः] । अरूपहार्यं = हर्तुं शक्यः हार्यः, [√हृञ् हरणे इति धातोः ऋहलोर्ण्यत् इति ण्यत्] । रूपेण हार्यः रूपहार्यः, न रूपहार्यः अरूपहार्यः, तम् अरूपहार्यम् । पिनाकपाणि = पिनाकः पाणौ यस्य स पिनाकपाणिस्तं पिनाकपाणिम् ["प्रहरणाऽथभ्यः परे निष्ठासप्तम्यो" इति पिनाकपदस्य पूर्वं प्रयोगः] । पतिं = पाति इति पतिः, तं पतिम् ।
सञ्जीविनी – इयमिति । मानिनीन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवतीयं पार्वत्यधिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादीश्चतसृणां दिशामीशानिन्द्रयमवरुणकुबेरान् । 'तद्धितार्थ -' इत्यादिनोत्तरपदसमासः । अवमत्यावधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः । अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीत्यरूपहार्यः पिनाकः पाणी यस्य तं पिनाकपाणिं हरम् । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति साधुः । पतिं भर्तारमाप्तुमिच्छति । एतेन सङ्कल्पावस्थासूचिता ।
भावार्थः – इन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवतीयं पार्वती प्राप्तैश्वर्यान् इन्द्रयमवरुणकुबेरान् क्रमशः पूर्वदक्षिणपश्चिमोत्तरदिक्पतीन् तिरस्कृत्य शिवं भर्तारमभिलषन्ती कामदहनदर्शनानन्तरं तस्य रूपहार्यत्वाभावमवधार्य, तत्प्राप्तावुपायान्तरमपश्यन्ती तपश्चरणमेव तत्प्राप्त्युपायत्वेन निश्चितवतीति भावः ।
कोशः – विनाकोऽजगवं धनुः इत्यमरः ।
असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥
अन्वयः – पुरा असह्यहुङ्कारनिवर्तितः पुरारिम् अप्राप्तमुखः विशीर्णमूर्तेः अपि पुष्पधन्वनः शिलीमुखः इमां हृदि व्यायतपातम् अक्षिणोत् ।
पदार्थः – पुरा = पूर्वम्। असह्यहुङ्कारनिवर्तितः = दुःसहहुङ्कारपरावर्तितः। अत एव, पुरारिं = हरम्। अप्राप्तमुखः = अप्राप्तफलः। विशीर्णमूर्तेः अपि = नष्टशरीरस्य अपि। पुष्पधन्वनः = कुसुमचापस्य कामस्येत्यर्थः । शिलीमुखः = बाणः। इमां = पार्वतीम्। हृदि = वक्षसि। व्यायतपातं = सुदीर्घप्रहारम्। अक्षिणोत् = अकर्शत् ।
व्युत्पत्तिः – असह्यहुङ्कारनिवर्तितः = सोढुं शक्यः सह्यः, न सद्यः असह्यः स चासौ हुङ्कारः, रुद्रस्येत्यर्थः, असह्यहुङ्कारः, तेन निवर्तितः असह्यहुङ्कारनिवर्तितः । पुरारिम् = पुरस्य अरिः पुराऽरिः, तं पुरारिम् । अप्राप्तमुखः = न प्राप्तम् अप्राप्तं, तत् मुखं यस्य सः अप्राप्तमुखः । विशीर्णमूर्तेः = विशीर्णा मूर्तिर्यस्य स विशीर्णमूर्तिः, तस्य विशीर्णमूर्तेः । पुष्पधन्वनः = पुष्पाणि धनुर्यस्य स पुष्पधन्वा, तस्य पुष्पधन्वनः [धनुषश्चेत्यनङ्] | व्यायतपातं = विशेषेण आयतः व्यायतः ["सुप्सुपा" इति समासः], व्यायतः पातः = प्रहारः, तस्मिन् कर्मणि तद्यथा तथा (क्रि०वि०) व्यायतपातम् ।
सञ्जीविनी – असहयेति । पुरा पूर्वमसहयेन सोढुमशक्येन हुङ्कारेण रौद्रेण 'निवर्तितः । अतएव पुरारिं हरमप्राप्तमुखोऽप्राप्तफलो विशीर्ण मूर्तेनंष्टशरीरस्थापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः । सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । 'मृदुः सर्वत्र बाध्यते ' इति भावः । अनेन 'विवृण्वती शैल- सुतापि भावम् ( ३।६८ ) इत्यत्रोक्तं चक्षुः प्रीतिमनःसङ्गाख्यमवस्थाद्वयमनन्तरा- वस्थोपयोगितयानूद्य कार्यावस्था सूचिता ।
भावार्थः – शरमोक्षानन्तरं हरकोपकृशानुना मदने दग्धे हरमेव लक्षीकृत्य सरभसमभिपतन् मदनबाणो हरेण हुङ्कारमात्रेण निवर्तितः सन्, हरसेवार्थं तत्पार्श्ववर्तिनीं दुर्बलामनाथामिमां पार्वतीमत्यन्तमबाधतेति भावः ।
कोशः – मूर्तिः काठिन्यकाययोः इत्यमरः । अलिबाणौ शिलीमुखौ इत्यमरः ।
तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥५५॥
अन्वयः – तदा प्रभृति पितुः गृहे उन्मदना ललाटिकाचन्दनधूसरालका बाला जातु तुषारसङ्घातशिलातलेषु अपि निर्वृतिं न लभते स्म ।
पदार्थः – तदा प्रभृति = तत आरभ्य शरपतनानन्तरकालादारभ्येत्यर्थः । पितुः = जनकस्य, हिमालयस्येत्यर्थः। गृहे = गेहे। उन्मदना = उत्कटकामा। ललाटिकाचन्दनधूसरालका = तिलकचन्दनधूसरचूर्णकुन्तला। बाला = पार्वती। जातु = कदाचिदपि। तुषारसङ्घातशिलातलेषु अपि = हिमघनपाषाणतलेषु अपि। निवृतिं = सुखम्। न लभते स्म = न प्राप्नोति स्म ।
व्युत्पत्तिः – तदा प्रभृति = पदद्वयम् । 'सप्तम्यर्थस्याऽपि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा | प्रभृतियोगे पञ्चमीनियमात् । उन्मदना = उत्कटः मदनः यस्याः सा उन्मदना । ललाटिकाचन्दनधूसराङका = ललाटे भवः अलङ्कारः ललाटिका, ["कर्णललाटात्कललङ्कारे" इति कन्प्रत्ययः, स्त्रीत्वं छोकात् । "अजाद्यतष्टाप्" इति टाप्प्रत्ययः । " प्रत्ययस्थारकात्पूर्वस्यात इदाप्यसुपः" इति इत्वम्] । ललाटिकायाः चन्दनं ललाटिकाचन्दनं तेन धूसराः ललाटिकाचन्दनधूसराः, ते अलकाः यस्याः सा ललाटिकाचन्दनधूसरालका । तुषारसङ्घातशिलातलेषु = तुषाराणां सङ्घाताः तुषारसङ्घाताः ते एव शिलाः तुषारसङ्घातशिलाः, तासां तलानि तुषारसङ्घातशिलातलानि, तेषु तुषारसङ्घातशिलातलेषु ।
सञ्जीविनी – तदेति । तदेति छेदः । तदाप्रभृति । ततः आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा प्रभृतियोगे पञ्चमीनियमात् । पितुः गृहे उन्मदोत्कटमन्मथा ललाटस्थालङ्कारो ललाटिका तिलकः । ' कर्णललाटात्कनलङ्कारे' इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरवर्णा अलकाश्चूर्ण कुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसङ्घातास्तुषारघनास्त एव शिलास्तासां तलेषूपरिभागेष्वपि निर्वृतिं सुखं न लभते स्म । एतेनारत्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे सज्वरश्च व्यज्यते ।
भावार्थः – कामशरपातानन्तरकालादारभ्य हिमवत्प्रदेशे समुद्भूतमदनविकारा शीतोपचारेण कामज्वरशान्तये पुनः पुनः भालप्रदेशनिक्षिप्तचन्दनरूक्षकेशा पार्वती हिमसमूहप्रस्तरप्रदेशेष्वपि कदाचिदपि कामज्वरदाहशान्तिं नोपजगामेति भावः ।
कोशः – "ललाटमलिक गोधिः" इति, "पत्रपाश्या ललाटिका" इति चामरः ।
उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसङ्गीतसखीररोदयत् ॥५६॥
अन्वयः – इयं पिनाकिनः चरिते उपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैः वनान्तसङ्गीत सखीः किन्नरराजकन्यकाः अनेकशः अरोदयत् ।
पदार्थः – इयं = पार्वती। पिनाकिनः = शम्भोः। चरिते = चरित्रे, त्रिपुरविजयादिचेष्टिते इत्यर्थः । उपात्तवर्णे = प्रारब्धगीतक्रमे। सबाष्पकण्ठस्खलितैः = गद्गद्गलविशीर्णैः पदैः = शब्दैः। वनान्तसङ्गीतसखीः = अरण्यमध्यगानवयस्याः। किन्नरराजकन्यकाः = किंपुरुषराजकुमारीः। अनेकशः = बहुशः। अरोदयत् = अश्रुमोक्षम् अकारयत् ।
व्युत्पत्तिः – पिनाकिनः = पिनाकः अस्यास्तीति पिनाकी, तस्य पिनाकिनः। उपात्तवर्णे = उपात्तः वर्णः, गीतक्रमः यस्य तत् उपात्तवर्णं, तस्मिन् उपात्तवर्णे, "गीतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते" इति हलायुधः । सबाष्पकण्ठस्खलितैः = बाष्पैः सहितः सबाष्पः स चाऽसौ कण्ठः सबाष्पकण्ठः, तस्मिन् स्खलितानि सवाष्पकण्ठस्खलितानि तैः सवाष्पकण्ठस्खलितैः । पदैः ["साधकतमं करणम्” इति करण- संज्ञा, ततः " कर्तृकरणयोस्तृतीया" इति तृतीया] । वनान्तसङ्गीतसखीः = वनस्य अन्तः वनान्तः, सम्यक् गीतं सङ्गीतम्, वनाऽन्ते सङ्गीतं वनान्तसङ्गीतं, तेन निमित्तेन सख्यः वनान्तसङ्गीतसख्यः, ताः वनान्तसङ्गीतसखीः । किन्नरराजकन्यकाः = कुत्सिता नराः किन्नराः, [तुरङ्गमुखत्वात् तुरङ्गशरीरत्वाद्वेत्यर्थः । " किं क्षेपे " इति समासः], किन्नराणां राजानः किन्नरराजाः [समासान्तटच्], कन्या एव कन्यकाः, किन्नरराजानां कन्यकाः किन्नरराजकन्यकाः, ताः । अनेकशः = अनेकवारम् इति अनेकशः [शश्प्रत्ययः] ।
सञ्जीविनी – उपात्तेति । पिनाकिनः शम्भोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णे प्रारब्धगीतक्रमे । 'गीतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते' इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङ्न्तरूपैः करणैः । वनान्ते सङ्गीतेन निमित्तेन सखीर्वयस्याः किन्नरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्षमकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्य किन्नर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्थाप्रादुर्भावो व्यज्यते अन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्था पक्षे तु प्रलयावस्था व्यज्यते । 'प्रलापो गुणकीर्तनम्' इत्यालङ्कारिकाः ।
भावार्थः – यदा तावदियमेकान्ते हरचरितश्रवणतृष्णया वनान्तमुपगम्य, सङ्गीताभ्यासव्याजेन काश्चन मनोहरस्वराः किन्नरराजकन्यकाः समानीय, प्रसङ्गार्थमादौ स्वयमेव त्रिपुरदहनादिरूपं हरचरितं किमपि गातुमारभते, तदैव तत्स्वरूपस्मरणोदबुद्धया द्विगुणया विरहवेदनया बाष्पगद्गदं रुदती निजशोकदर्शनसञ्जातशोकातिरेकास्ताः सर्वा एव मुहुर्मुहुररोदयदिति भावः ।
कोशः – गीतं गानमिमे समे इत्यमरः । स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मधुः इत्यमरः ।
त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥५७॥
अन्वयः – त्रिभागशेषासु निशासु क्षणं नेत्रे निमील्य, सहसा 'हे नीलकण्ठ ! 'क्व व्रजसि' इति अलक्ष्यवाक् असत्यकण्ठार्पितबाहुबन्धना च सती व्यबुध्यत ।
पदार्थः – त्रिभागशेषासु = त्र्यंशाऽवशिष्टासु, यद्वा तृतीयांशशेषासु। निशासु = रात्रिषु। क्षणं = क्षणमात्रम्। नेत्रे = नयने। निमील्य = मीलयित्वा। सुप्त्वेत्यर्थः । सहसा = सद्यः। हे नीलकण्ठ = हे शितिकण्ठ। क्व = कुत्र। व्रजसि = गच्छसि। इति = एवम्। अलक्ष्यवाक् = निर्विषयवचना। असत्यकण्ठार्पितबाहुबन्धना = मिथ्याभूतगलनिक्षिप्तभुजबन्धना च सती। व्यबुद्धयत= विबुद्धवती ।
व्युत्पत्तिः – त्रिभागशेषासु = शिष्यते इति शेषः [कर्मणि घञ्], त्रिभ्यो भागेभ्यः शेषाः त्रिभागाः, तासु त्रिभागशेषासु, ["तद्विसम्मतरपदसमाहारे च" इति उपपदमासः] । क्षणं [कालाध्वनोरत्यन्तसंयोगे इति द्वितीया] । अलक्ष्यवाक् = लक्षितुं योग्या लक्ष्या, न लक्ष्या अलक्ष्या, सा वाक् यस्याः सा अलक्ष्यवाक्। असत्यकण्ठार्पितबाहुबन्धना = न सत्यः असत्यः स चाऽसौ कण्ठः असत्यकण्ठः, बाहुरेव बन्धनं बाहुबन्धनम्, असत्यकण्ठे अर्पितम् असत्यकण्ठार्पितं, तत् बाहुबन्धनं यस्याः सा असत्यकण्ठार्पितबाहुबन्धना । अत्र असत्ये = अपरमार्थे, सदसद्विलक्षणे कण्ठे इत्यर्थः । शुक्तिकारजतादिषु मिथ्याज्ञानेषु सदसद्विलक्षणं रजतादिकं विषय इत्यद्वैतवादिनां मतं, तदनुसारेणेयमुक्तिः । अन्यथा पुनरलक्ष्यवागितिवदकण्ठार्पितबाहुबन्धनेत्येव प्रयोगः स्यात् । एवं निद्राया अतिमान्द्यात् स्वप्नजागरावस्थयोः परस्परसङ्करात् स्वप्ने प्रत्यक्षत्वभ्रमः । तेन च परमार्थसत एव वचसः प्रवृत्तिरित्यपि बोद्धव्यम् ।
सञ्जीविनी – त्रिभागेति । किञ्चेति चार्थः शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्ववशिष्टासु । यद्वा रात्रे स्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागस्त्रिभागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा 'शतांशः' 'सहस्रांशः' इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य मीलयित्वा सहसा सद्यः । हे नीलकण्ठ ! क्व व्रजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता । तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचिती ।
भावार्थः – इयं विरहवेदनया रात्रिद्विभागपर्यन्तं निद्रामलब्ध्वा तृतीयभागमात्रावशिष्टासु रात्रिषु क्षणमात्रं स्वप्नावस्थया लोचने मीलयित्वा "हे प्रिय ! हे शङ्कर ! कुत्र यासी”ति निर्विषयवाग्व्यापरा मिथ्याकृतालिङ्गना च सती शीघ्रमेव प्रबुद्धाऽभूदिति भावः ।
कोशः – निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा विभावरीतमस्विन्यौ रजनी यामिनी तमी इत्यमरः । सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति इत्यमरः ।
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् । इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥५८॥
अन्वयः – यदा त्वं बुधैः सर्वगतः उच्यसे, ततः भावस्थम् इमं जनं कथं न वेत्सि ? इति मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरः रहसि उपालभ्यत ।
पदार्थः – यदा = यतः। त्वं, बुधैः = मनीषिभिः। सर्वगतः = सर्वव्यापी इति। उच्यसे = अभिधीयसे। ततः, भावस्थं = रतिस्थम्, त्वयि अनुरागिणमित्यर्थः । इमं जनं = मद्रूपं जनम्। कथं = केन प्रकारेण। न वेत्सि = न जानासि। इति = इत्थम्। मुग्धया = मूढया, चित्रस्थितेऽपि चन्द्रशेखरे सञ्जातपरमार्थचन्द्रशेखरबुद्ध्येत्यर्थः । स्वहस्तोलिखितः = आत्मकरचित्रलिखितः। चन्द्रशेखरः = शम्भुः। रहसि = एकान्ते। उपालभ्यत= उपालब्धः, साऽधिक्षेपमुक्तोऽभूदित्यर्थः। अस्माभिरपीयमवस्था निगूढतरमेव दृष्टेति तात्पर्यम् । अनेनोन्मादवस्था दर्शिता ।
व्युत्पत्तिः – सर्वगतः = सर्वं गतः सर्वगतः [द्वितीयासमासः]। भावस्थं = भावे, रत्याख्ये तिष्ठतीति भावस्थः, तं भावस्थं [कप्रत्ययः] । स्वहस्तोल्लिखितः = स्वश्चाऽसौ हस्तः स्वहस्तः, तेन उल्लिखितः स्वहस्तोल्लिखितः । चन्द्रशेखरः = चन्द्रः शेखरः (शिरोभूषणं) यस्य स चन्द्रशेखरः ।
सञ्जीविनी – यदेति । यदा यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेस्योदाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे । तत इत्यध्याहारः भावे रत्याख्ये तिष्ठतीति भावस्थम् । त्वय्यनुरागिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया । अकिंचित्करचित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोल्लिखितश्चित्रे लिखितश्चन्द्रशेखरो रहस्येकान्ते । सखीमात्रसमक्षमित्यर्थः । उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणात्लज्जात्यागो व्यज्यत एव ।
भावार्थः – हे हर ! यदा त्वं देशकालानवच्छिन्नः सर्वव्यापीति मन्वादिभिः स्मर्यसे, तदा स्वय्यनुरागिणमिमं जनं मां कथं न जानासीति मोहमुपगतयाऽनया पार्वत्या चित्रस्थितेऽपि चन्द्रशेखरे सञ्जातपरमार्थचन्द्रशेखरबुद्धया स्वहस्तेनैव चित्रे लिखितः शङ्करो विजने साधिक्षेपमुपालब्धोऽभूदिति भावः ।
कोशः – ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः इत्यमरः ।
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥५९॥
अन्वयः – जगत्पतेः तस्य अधिगमे विचिन्वती अन्यं विधि यदा न अपश्यत्, तदा इयं गुरोः अनुज्ञया अस्माभिः सह तपसे तपोवनं प्रपन्ना ।
पदार्थः – जगत्पतेः = लोकेशस्य। तस्य = शम्भोः। अभिगमे = प्राप्तौ। विचिन्वती = मृगयमाणा। अन्यम् = अपरम्। विधिम् = उपायम्। यदा = यस्मिन्काले। न अपश्यत् = न अद्राक्षीत्। तदा = तस्मिन्काले। इयं = पार्वती। गुरोः = पितुः, हिमालयस्येत्यर्थः । अनुज्ञया = आज्ञया। अस्माभिः = सखीभिः। सह = सार्धम्। तपसे = तपश्चरितुम्। तपोवनं= तपोभूमिम्। प्रपन्ना = प्राप्ता ।
व्युत्पत्तिः – जगत्पतेः = गच्छतीति जगत्, जगतां पतिः जगत्पतिः, तस्य जगत्पतेः। अधिगमे ["निमित्तात्कर्मयोगे" इति सप्तमी]। विचिन्वती = विचिनोतीति विचिन्वती । तपोवनं तपसः वनं तपोवनं तत् ।
सञ्जीविनी – यदेति || जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ।
भावार्थः – इयं पार्वती यदा त्रैलोक्यनाथस्य शङ्करस्य पतित्वेन प्राप्तौ तपोव्यतिरिक्तं विधानानन्तरं न दृष्टवती, तदा पितृनियोगपुरस्सरमस्माभिः प्रियसखीभिः सह तपश्चरितुमत्र तपोवने समागतास्तीति भावः ।
कोशः – अटव्यरण्यं विपिनं गहनं काननं वनम् इत्यमरः ।
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥६०॥
अन्वयः – सख्या स्वयं कृतजन्मसु तपःसाक्षिषु एषु द्रुमेषु फलम् अपि दृष्टम् अस्याः शशिमौलिसंश्रयः मनोरथः च प्ररोहाभिमुखोऽपि न दृश्यते ।
पदार्थः – सख्या = वयस्यया, पार्वत्येत्यर्थः । स्वयम् = आत्मना। कृतजन्मसु = कृतजननेषु, स्वयं रोपितेष्वित्यर्थः । तपःसाक्षिषु = नियमसाक्षाद्-दृष्टृषु। एषु = पुरोनिर्दिष्टेषु। द्रुमेषु = वृक्षेषु। फलं = अपि, प्रसवः अपि। दृष्टं = लब्धम्, अवलोकितमित्यर्थः । अस्याः = पार्वत्याः। शशिमौलिसंश्रयः = चन्द्रशेखरविषयः। मनोरथः = अभिलाषः। च = तु। प्ररोहाभिमुखः अपि = अङ्कुरोन्मुखोऽपि। न दृश्यते = न अवलोक्यते ।
व्युत्पत्तिः – कृतजन्मसु = कृतं जन्म येषां ते कृतजन्मानः, तेषु कृतजन्मसु । शशिमौलिसंश्रयः = शशः अस्यास्तीति शशी, शशी मौलौ यस्य स शशिमौलिः, सः संश्रयः यस्य स शशिमौलिसंश्रयः। च = चकारस्तुशब्दार्थे। प्ररोहाभिमुखः = प्ररोहस्य अभिमुखः प्ररोहाभिमुखः।
सञ्जीविनी – द्रुमेष्विति ॥ सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साक्षाद्दृष्टृषु द्रुमेष्वपि फलं इष्टं लब्धम् । जनितमित्यर्थः । अस्याः पार्वत्याः शशिमौलिसंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङ्कुरोन्मुखोऽपि न दृश्यते । 'प्ररोहस्त्वङ्कुरोऽङ्कुरः इति वैजयन्ती । स्वयं रोपितवृक्ष फलकालेऽप्यस्या मनोरथस्य नाकुरोदयोऽप्यस्ति । फलाशा तु दूरापास्त्येत्यर्थः ।
भावार्थः – अस्माकं प्रियवयस्ययाऽनया पार्वत्या स्वयमेव बीजावापजलाहरणादिपुरस्सरं वनवासारम्भसमकालमेव रोपितेषु तपसः साक्षिभूतेषु परितो दृश्यमानेषु वृक्षेषु फलनिष्पत्तिरपि सञ्जाता, किन्तु सख्याश्चन्द्रशेखराश्रयो मनोरथस्त्वङ्करोम्मुखोऽपि न दृश्यत इति भावः ।
कोशः – इच्छा काङ्क्षा स्पृहा तृड् वाञ्छा लिप्सा मनोरथः इत्यमरः । प्ररोहस्त्वदुरोऽङ्कुरः इति वैजयन्ती ।
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥६१॥
अन्वयः – प्रार्थितदुर्लभः स तपःकृशां सखीभिः अस्रोत्तरम् ईक्षिताम् इमां सखीं वृषा तदवग्रहवक्षतां सीताम् इव, कदा अभ्युपपत्स्यते इति न वेद्मि ।
पदार्थः – प्रार्थितदुर्लभः = अभ्यर्थितदुष्प्राप्यः । सः = महेश्वरः। तपःकृशां = नियमक्षीणाम्। अत एव, सखीभिः = वयस्याभिः अस्मदादिभिरित्यर्थः । अस्रोत्तरम् = अश्रुप्रधानं यथा भवति तथा। ईक्षिताम् = अवलोकिताम्। इमां = पुरोवर्तिनीम्। सखीं = वयस्याम्, पार्वतीमित्यर्थः । वृषा = इन्द्रः। तदवग्रहक्षतां= पुरुहूतावग्राहपीडिताम्। सीताम् इव = हलक्षतां भूमिम् इव। कदा = कस्मिन्काले। अभ्युपपत्स्यते = अनुग्रहीष्यति इति, न वेद्मि = न जानामि ।
व्युत्पत्तिः – प्रार्थितदुर्लभः = दुःखेन लब्धुं शक्यः दुर्लभः प्रार्थितश्चाऽसौ दुर्लभः प्रार्थितदुर्लभः । तपःकृशां = तपसा ["हेतुना"] कृशा तपःकृशा, तां तपःकृशाम् । अस्रोत्तरम् = अस्राणि उत्तराणि यस्मिन् तद् अस्रोत्तरं यथा तथा। तदवग्रहक्षतां तस्य = इन्द्रस्य। अवग्रहः = वर्षप्रतिबन्धः। तदवग्रहः = तदवग्रहेण क्षता तदवग्रहक्षता, तां तदवग्रहक्षताम् ।
सञ्जीविनी – नेति ॥ प्रार्थितः सन्दुर्लभः स देव तपःकृशां तपसः कृशां क्षीणामत एव सखीभिरस्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्टया क्षतां पीडिताम् । 'वृष्टिवर्षं तद्विघातोऽवग्रहावग्रहौ समौ' इत्यमरः । अवग्रहः वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । 'सीता लाङ्गलपद्धतिः' इत्यमरः । वृषा वासव इव । 'वासवो वृत्रहा वृषा' इत्यमरः । कदाभ्युपपत्स्यते कदानुग्रहीष्यति न वेद्मि । अत्र वाक्यार्थः कर्म । तदवग्रहक्षतामित्यत्रावग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः।
भावार्थः – प्रार्थितोऽपि दुर्लभः स हरोऽस्मदादिभिः सखीभिः साश्रुनेत्रं यथा स्यात्तथाऽवलोकितामिमां पार्वतीं "वृष्टिप्रतिबन्धेन शोषितां हलक्षतां भूमिमिन्द्र इव" कस्मिन् कालेऽनुग्रहीष्यति, तन्न जानामीति भावः ।
कोशः – वासवो वृत्रहा वृषा इत्यमरः । सीतालाङ्गलपद्धतिः इत्यमरः । वृष्टिर्वर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ इत्यमरः ।
अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥६२॥
अन्वयः – इङ्गितज्ञया तया इति अगूढसद्भावं निवेदितः नैष्ठिकसुन्दरः अव्यञ्जितहर्षलक्षणः सन् अयि ! इदम् एवम् परिहासः वा ? इति उमाम् अपृच्छत् ।
पदार्थः – इङ्गितज्ञया = हृद्भावाभिज्ञया। तया = पार्वतीसख्या। इति = एवम्। अगूढसद्भावम् = प्रकाशितसदभिप्रायं यथा तथा। निवेदितः = ज्ञापितः। नैष्ठिकसुन्दरः = वर्णिर्विलासी। अव्यञ्जितहर्षलक्षणः सन् = अप्रकटितप्रमोदचिह्नः सन्। अयि = हे गौरि। इदम् = एतत्, त्वत्सखीभाषितमित्यर्थः। एवम् = इत्थम्, सत्यं किमित्यर्थः। परिहासः वा = केलिः वा। इति = एवम्। उमां= पार्वतीम्। अपृच्छत् = पृष्टवान् ।
व्युत्पत्तिः – इङ्गितज्ञया = इङ्गितं जानातीति इङ्गितज्ञा, तथा इङ्गितज्ञया ["आतोऽनुपसर्गे कः" इति कप्रत्ययः] । अगूढसद्भावम् = न गूढः अगूढः, संश्चाऽसौ भावः सद्भावः, अगूढः सद्भावः यस्मिन् कर्मणि तत्, अगूढसद्भावं यथा तथा। नैष्ठिकसुन्दरः = यावज्जीवं ब्रह्मचर्याश्रमे एव स्थितस्तदुक्तम् - " नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पत्न्या वैश्वानरेऽपि वा " ॥ इति । याज्ञ० १-३-४९ । निष्ठा = मरणम्, अवधिर्यस्य स नैष्ठिकः [ठञ्प्रत्ययः] । नैष्ठिकाश्चाऽसौ सुन्दरः (कामुकः) नैष्टिकसुन्दरः। [“इयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणसमासः । किन्तु नैष्ठिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्य अलौकिकमहिमत्त्वादुभयं तात्विकमिति न विरोधः"] । अव्यञ्जितहर्षलक्षणः = न व्यञ्जितम् अव्यञ्जितं, हर्षस्य लक्षणं हर्षलक्षणम्, अव्यञ्जितं हर्षलक्षणं (मुखरागादि) यस्य सः अव्यञ्जितहर्षलक्षणः। अयि पदमिदं कोमलाऽऽमन्त्रणे ।
सञ्जीविनी – अगूढेति ॥ इङ्गितज्ञया पार्वतीहृदयाभिज्ञया । 'इङ्गितं हृद्गतो भावः' इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावज्जीवब्रह्मचारी सुन्दरो विलासी नैष्ठिकचासो सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणसमासः किन्तु नैष्टिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकम हिमत्वादुभयं तात्त्विकमिति न विरोधः । अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! अयीति कोमलामन्त्रणे इदं त्वत्सखीभाषितमेवम् । सत्यं किमित्यर्थः । परिहासः केलिर्वा । 'द्रवकेलिपरी- हासाः' इत्यमरः । इत्येवमुमामपृच्छत्पृष्टवान् ।
भावार्थः – पार्वतीहृदयगतमभिप्रायमवगच्छन्त्या तया सख्या प्रकाशितसदभिप्रायं यथा स्यात्तथा ज्ञापितः स सुन्दरो नैष्ठिकब्रह्मचारी, गोपितहर्षचिह्नः सन् “अयि गौरि ! किमिदं सखीवचनमेवम्भूतार्थं सत्यमेव, आहोस्वित् परिहासमात्रपरमेतद्” इति पार्वतीं पृष्टवानिति भावः ।
कोशः – इङ्गितं हृद्वतो भावः इति सज्जनः ।
अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथञ्चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥६३॥
अन्वयः – अथ मुकुलीकृताङ्गुलौ अग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्ती चिरव्यवस्थापितवाक् अद्रेः तनया मिताक्षरम् कथञ्चित् अभाषत ।
पदार्थः – अथ = अनन्तरम्, वर्णिप्रश्नानन्तरमित्यर्थः। मुकुलीकृताङ्गुलौ = सम्पुटीकृताऽङ्गुलौ। अग्रहस्ते = हस्ताऽग्रे। स्फटिकाक्षमालिकां= भासुरजपस्रजम्। समर्पयन्ती = आमुञ्चती। चिरव्यवस्थापितवाक् = चिरेण स्वीकृतवाक्, “एतेन लज्जाया उपरोधो व्यज्यते”। अद्रेः = पर्वतस्य, हिमालयस्येत्यर्थः । तनया = पुत्री, पार्वतीत्यर्थः । मिताक्षरं = परिमितवर्णं यथा तथा। कथञ्चित् = कथमपि। अभाषत = बभाषे ।
व्युत्पत्तिः – मुकुलीकृताऽङ्गुलौ = अमुकुला मुकुला यथा सम्पद्यन्ते तथा कृताः मुकुलीकृताः, [च्चिप्रत्ययः] । मुकुलीकृताः अङ्गुलयः यस्मिन् स मुकुलीकृताऽङ्गुलिः, तस्मिन् मुकुलीकृताङ्गुलौ । अग्रहस्ते = अग्रश्चाऽसौ हस्तः अग्रहस्तः तस्मिन् अग्रहस्ते। स्फटिकाक्षमालिकां = स्फटिकानाम् अक्षमालिका स्फटिकाक्षमालिका तां स्फटिकाक्षमालिकां समपर्यन्ती = समर्पयतीति समर्पयन्ती । चिरव्यवस्थापितवाक् = चिरेण व्यवस्थापिताः चिरव्यवस्थापिताः, चिरव्यवस्थापिताः वाचः यया सा चिरव्यवस्थापितवाक् । मिताऽक्षरं = मितानि अक्षराणि यस्मिन् कर्मणि तद्, मिताक्षरं यथा तथा। अभाषत । मितभाषित्वमुत्तमनायिकाधर्मः । अत्र स्वभावोक्तिरलङ्कारः ।
सञ्जीविनी – अथेति । अथानन्तरमद्रेस्तनया पार्वती मुकुलीकृताङ्गुलौ सम्पुटीकृतागुलौ । अग्रचासौ हस्तश्चेति समानाधिकरणसमासः । हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदादिति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पयन्त्यामुञ्चती कथञ्चिन्महता कष्टेन चिरव्यवस्थापितवाक्चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाभाषत बभाषे ।
अलङ्कारः – मितभाषित्वमुत्तमनायिकाधर्मः । अत्र स्वभावोक्तिरलङ्कारः ।
भावार्थः – ब्रह्मचारिवाक्यश्रवणानन्तरं चिरकालसंयतवचना सम्पुटीकृताङ्गुलौ हस्ताग्र स्फटिकमयीं जपमालां स्थापयन्ती पार्वती महता कष्टेन परिमितशब्द यथा स्यात्तथोवाचेति भावः ।
कोशः – कुड्मलो मुकुलोऽस्त्रियाम् इत्यमरः । हस्ताऽग्राऽग्रहस्तयोर्गुणगुणिनोर्भेदाऽभेदादिति वामनः । भासुरः स्फाटिकोपलः शालिपिष्टं धौतशिलम् इति त्रिकाण्डकोषः ।
यथा श्रुतं वेदविदां वर ! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥६४॥
अन्वयः – हे वेदविदां वर ! त्वया यथा श्रुतं तथा अयं जनः उच्चैः पद- लङ्घनोत्सुकः अस्ति । इदं तपः तदवाप्तिसाधनं किल मनोरथानाम् अगतिः न विद्यते ।
पदार्थः – हे वेदविदां वर = हे वेदज्ञातॄणां श्रेष्ठ ! हे वैदिकश्रेष्ठेत्यर्थः । त्वया = भवता। यथा = येन प्रकारेण। श्रुतम् = आकर्णितम्, सखीमुखादित्यर्थः । तथा = तेन प्रकारेण। अयं जनः = मल्लक्षणो जनः, अहमित्यर्थः । उच्चैःपदलङ्घनोत्सुकः = उन्नतस्थानाक्रमणोत्कः, अस्तीति शेषः । इदं = क्रियमाणम्। तपः = अनुष्ठानम्, तदवाप्तसाधनम्। किल = तत्प्राप्त्युपकरणं किल । मनोरथानां = कामानाम्, मनोराज्यानामित्यर्थः । अगतिः = अविषयः। न विद्यते = न वर्तते ।
व्युत्पत्तिः – वेदविदां = वेदं विदन्ति ते वेदविदः, तेषां वेदविदाम् । उच्चैःपदलङ्घनोत्सुकः = उच्चैश्च तत्पदम् उच्चैःपदम्, महेश्वरवधूपदस्थानमित्यर्थः । तस्य लङ्घनम्, उच्चैःपदलङ्घनं, तस्मिन् उत्सुकः, उच्चैः पदलङ्घनोत्सुकः । तदवाप्तिसाधनं = तस्य (महेश्वरवधूपदस्य) अवाप्तिः तदवाप्तिः, तस्याः साधनं तदवाप्तिसाधनम्। किल = पदमिदमलीकाऽर्थकम्, अतितुच्छत्वात्, असाधकमेवेत्यर्थः । अगतिः = न गतिः अगतिः ।
सञ्जीविनी – यथेति ॥ हे वेदविदां वर ! वैदिकश्रेष्ठ ! त्वया यथा श्रुतं सम्यक्श्रुतम् । श्रुतार्थमेवाह - अयं जनः । स्वयमित्यर्थः । उच्चैः पदस्य शिवलाभरूपोन्नतस्थानस्य लङ्घन आक्रमण उत्सुकः । किमत्रायुक्तमित्यत्राह - इदं तपस्तदवाप्तेस्तस्योच्चैः पदस्यावाप्तेः प्राप्तेः साधनं किलेत्यलीके । अत्तितुच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह - मनोरथानां कामानामगतिरविषयदेन विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ।
भावार्थः – हे वैदिकश्रेष्ठ ! भवता सखीमुखाद् यथा श्रुतं तथायं जनः शिवलाभरूपोन्नतस्थानप्राप्तायुयुक्तोऽस्ति । इदं मया क्रियमाणं तपः तदुनतस्थानप्राप्तिसाधनमस्ति । लोके मनोराज्यानामविषयः कश्चिदप्यर्थो न वर्तत इति भावः ।
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे । अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥६५॥
अन्वयः – अथ वर्णी आह, महेश्वरः विदितः, पुनः त्वं तदर्थिनी एव वर्तसे । अमङ्गलाभ्यासरतिं तं विचिन्त्य तव अनुवृत्तिं कर्तुं न उत्सहे ।
पदार्थः – अथ = पार्वतीकथनाऽनन्तरम्। वर्णी = ब्रह्मचारी। आह = उवाच । महेश्वरः = महादेवः। विदितः = ज्ञातः, मया ज्ञायते इत्यर्थः । पुनः = भूयः। स्वं तदर्थिनी एव = तत्कामा एव। वर्तसे = प्रवृत्ता भवसि । अमङ्गलाभ्यासरतिम् = अकल्याणाचारप्रीतिम्। तं = शिवम्। विचिन्त्य = विचार्य। तव = भवत्याः। अनुवृत्तिम् = अनुसरणम्। कर्तुं = विधातुम्। न उत्सहे = उत्साहं न करोमि, नानुमन्तुं शक्नोमीत्यर्थः ।
व्युत्पत्तिः – वर्णी = प्रशस्तः वर्णः अस्यास्तीति वर्णी ["वर्णाद् ब्रह्मचारिणि" इति इनिप्रत्ययः, "सौ च" इति दीर्घः] । तदर्शिनी = तम् अर्थयते तच्छीला तदर्थिनी । अमङ्गलाभ्यासरतिम् = न मङ्गलम् अमङ्गलं, चिताभस्मादिकं तस्य अभ्यासः, निरन्तरानुलेपनादिकम्, अमङ्गलाभ्यासः, तस्मिन् रतिः (श्रद्धा) यस्य सः अमङ्गलाभ्यासरतिः, तम् अमङ्गालाभ्यासरतिम् ।
सञ्जीविनी – अथेति । अथ वर्णी ब्रह्मचारी । 'वर्णिनो ब्रह्मचारिणः' इत्यमरः । आह । उवाचेत्यर्थः । ' आहेति भूतार्थे लट्प्रयोगो भ्रान्तिमूलः' इत्याह वामनः । किमित्याह - महेश्वरो महादेवो विदितः । मया ज्ञायत इत्यर्थः । बुध्यर्थत्वाद्- वर्तमाने क्तप्रत्ययः तद्योगात्षष्टी च । येन त्वं प्राग्भग्नमनोरथा कृतेति भावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषरतत्राह - अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं तथोक्तमीश्वरं विचिन्त्य विचार्य तवानुवृत्तिमनुसरणं कर्तुं नोत्सहे । नानुमन्तुं शक्नोमीत्यर्थः ।
भावार्थः – पार्वतीवचनश्रवणान्तरं स ब्रह्मचारी जगाद । अहं महादेवं जानामि । येन एवं प्राग् भग्नमनोरथा कृता, पुनस्तमेव त्वं प्रार्थयसे । अमङ्गलाचारानुरागिणं तमीश्वरं विचार्याहमस्मिन्नर्थे तव चित्तवृतिमनुसर्तुं न शक्नोमिति भावः ।
कोशः – वर्णिनो ब्रह्मचारिणः इत्यमरः ।
अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥६६॥
अन्वयः – हे अवस्तुनिर्बन्धपरे ! आमुक्तविवाहकौतुकः ते अयं करः वलयीकृताहिना शम्भोः करेण तत्प्रथमावलम्बनं कथं नु सहिष्यते ?
पदार्थः – हे अवस्तुनिर्बन्धपरे = हे तुच्छवस्तुहठतत्परे पार्वति। आमुक्तविवाहकौतुकः = आसञ्जितपरिणयहस्तसूत्रः। ते = तव। अयं = पुरोवर्ती। करः = हस्तः। वलयीकृताहिना = कटकीकृतसर्पेण। शम्भोः = महादेवस्य। करेण = हस्तेन, करणभूतेनेत्यर्थः। तत्प्रथमावलम्बनं = तत्प्रथमग्रहणम्। कथंनु = केन प्रकारेण। सहिष्यते = मर्षिष्यति, न कथचिदपि सहिष्यते इत्यर्थः ।
व्युत्पत्तिः – हे अवस्तुनिबन्धपरे = न वस्तु अवस्तु तस्मिन् निर्बन्धः, सः परं = प्रधानं, यस्याः सा अवस्तुनिर्बन्धपरा, तत्सम्बुद्धौ हे अवस्तुनिर्बन्धपरे। आमुक्तविवाहकौतुकः = विवाहे कौतुकं विवाहकौतुकं, आमुक्तं विवाहकौतुकं यस्य स आमुक्तविवाहकौतुकः । वलयीकृताहिना = अवलयः वलयः यथा सम्पद्यते तथा कृतः वलयीकृतः, च्विप्रत्ययः, वलयीकृतः अहिः यस्मिन्स वलयीकृताहिः, तेन वलयीकृताहिना, । तत्प्रथमावलम्बनं = तदेव प्रथमं तत्प्रथमं तच्च तत् अवलम्बनं (ग्रहणं) तत्प्रथमावलम्बनं, तत् समन्त्रमाद्यपाणिग्रहणमित्यर्थः ।
सञ्जीविनी – अवस्त्विति ॥ अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः सबुद्धिरवस्तुनिर्बन्धपरे पार्वति, आयुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । कौतुक मङ्गले हर्षे हस्तसूत्रे कुतूहले, इति शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शम्भोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचितत्वादतिभयङ्करमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथञ्चिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद्दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ।
भावार्थः – हे निस्साराभिनिवेशवति पार्वति ! आबद्धविवाहमङ्गलसूत्रोऽयं तत्र हस्तो भूषणीकृत सर्पेण शिवस्य हस्तेन समन्त्रमाद्यं पाणिग्रहणं कथं नु सहिष्यते, त्वत्करस्तत्करदर्शनमात्रेण स्वयमेव भीत्वा सहसा निवर्तिष्यत इति भावः ।
कोशः – कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले इति शाश्वतः । भावापकः पारिहार्यः कटको वलयोऽस्त्रियाम् इत्यमरः ।
त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥६७॥
अन्वयः – हे गौरि ! त्वमेव स्वयं तावत् परिचिन्तय, कलहंसलक्षणं वधूदुकूलं तथा शोणितबिन्दुवर्षि गजाजिनं च एते कदाचित् योगम् अर्हतः यदि ?
पदार्थः – हे गौरि = हे पार्वति ! त्वमेव, स्वयम् = आत्मना, तावत् = तावन्मात्रं, परिचिन्तय = पर्यालोचय, कलहंसलक्षणं = कलहंसचिह्नं, वधूदुकूलं = नवोढाक्षौमं, तथा, शोणितबिन्दुवर्षि = रक्तपृषतवर्षि, गजाजिनं च = हस्तिकृत्तिश्च, एते = द्वे वस्तुनी, कदाचित् = जातु अपि, योगं = सङ्गतिम् अर्हतः यदि = योग्यतां प्राप्नुतः किम् । अतिमहदनयोरन्तरमित्यर्थः ।
व्युत्पत्तिः – कलहंसलक्षणं = कलश्चाऽसौ हंसः कलहंसः, तस्य लक्षणमिव लक्षणं यस्य तत् कलहंसलक्षणं = गोरोचनादिलिखितहंसमिथुनसनाथपर्यन्तभागमित्यर्थः । "चिह्नं लक्ष्म च लक्षणम्" इत्यमरः । वधूदुकूलं = वध्वाः दुकूलं वधूदुकूलं, "वधूः स्नुषा नवोढा स्त्री" इति विश्वः । “क्षौमं दुकूलम्" इत्यमरः । शोणितबिन्दुवर्षि = शोणितस्य बिन्दवः शोणितबिन्दवः तान् वर्षतीति शोणितबिन्दुवर्षि = रक्तस्रावीत्यर्थः । गजाजिनं = गजस्य अजिनं, गजाजिनम्, हरस्येत्यथः । " अजिनं चर्म कृत्तिः स्त्री" इत्यमरः ।
सञ्जीविनी – त्वमेति ॥ हे गौरि ! त्वमेव स्वयमात्मना । तावदिति मात्रार्थे । यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंसलक्षणम् कलहंसचिह्नम् । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । वध्वा नवोढाया दुकूलं वधूदुकूलम् । 'वधूः स्नुषा नवोढा स्त्री' इति विश्वः । तथा शोणितबिन्दून्वर्षतीति यथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यहं किम् । एतत्त्वमेव चिन्तयेति । पूर्वेणान्वयः । पाणिग्रहणकाले वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः ।
अलङ्कारः – अत्र दूकलाजिनयोः परस्परसङ्घटनयोग्यता विरहाद् विषमालङ्कारः ।
भावार्थः – गोरोचनादिलिखितहंस मिथुन सनाथपर्यन्तभागं नवोढावसनं रुधिरवि- न्दुखावि गजासुरचर्म वरवसनञ्चैतद् द्वयं कस्मिन्नपि समये परस्परसङ्घटनयोग्यतां यदि प्राप्नोति चेत् त्वमेव तावत् मनसा सम्यग् विचारयेति भावः ।
कोशः – चिह्नं लक्ष्म च लक्षणम् इत्यमरः । वधूः स्नुषा नवोढा स्त्री इति विश्वः । क्षौमं दुकूलम् इत्यमरः । अजिनं चर्म कृत्तिः स्त्री इत्यमरः ।
चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥६८॥
अन्वयः – चतुष्कपुष्पप्रकरावकीर्णयोः तव पादयोः अलक्ताङ्कानि पदानि विकीर्णकेशासु परेतभूमिषु परोऽपि को नाम अनुमन्यते ।
पदार्थः – चतुष्कपुष्पप्रकरावकीर्णयोः = चतुष्ककुसुमसमूहन्यस्तयोः, कुसुमास्तृतदिव्यभवनभूसञ्चारोचितयोरित्यर्थः । तव = भवत्याः पादयोः = चरणयोः, अलक्तकाङ्कानि = लाक्षारसरञ्जितानि, पदानि = पादाकारपादन्यासचिह्नानि, विकीर्णकेशासु विक्षिप्तशिरोरुहासु, परेतभूमिषु = प्रेतभूमिषु, श्मशानेष्वित्यर्थः । परोऽपि= शत्रुरपि, को नाम = को जनः, अनुमन्यते = अनुमति ददाति । न कोऽपीत्यर्थः ।
व्युत्पत्तिः – चतुष्कपुष्पप्रकराऽवकीर्णयोः = पुष्पाणां प्रकरः पुष्पप्रकरः, चतुष्के = चतुरशालाख्यगृहभेदे, पुष्पप्रकरः चतुष्कपुष्पप्रकरः, तस्मिन् अवकीर्णौ चतुष्कपुष्पप्रकराऽकर्णी, तयोः चतुष्कपुष्पप्रकरावकीर्णयोः । अलक्तकाङ्कानि = अलक्तकस्य अङ्कः येषु तानि अलक्तकाङ्कानि, “कलङ्काऽङ्कौ लाञ्छनं च चिह्न लक्ष्म च लक्षणम्" इत्यमरः । पदानि = "पदं शब्दे च वाक्ये च व्यवसायाऽपदेशयोः । पादतच्चिह्नयोः इति विश्वः । विकीर्णकेशासु = विकीर्णाः केशाः यासु ता विकीर्णकेशाः, तासु विकीर्णकेशासु । “अतत्स्थं तत्र दृष्टं च" इति वचनात् “स्वाऽङ्गाच्चोपसर्जनादसंयोगोपधात्” इति विकल्पान्न ङीप् । “चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः । परेतभूमिषु = परेतानां भूमयः परेतभूमयः, तासु परेतभूमिषु, नाम = पदमिदं कुत्सायाम् ।
सञ्जीविनी – चतुष्केति ॥ चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्राचकीर्णयोर्न्यस्तयोः । कुसुमास्तृतदिव्यभवनभूसञ्चारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षारञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः, इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकीर्णकेशासु । ' अतत्स्थं तत्र दृष्टं च' इति वचनात् 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकल्पान्न ङीप् । परेतभूमिषु प्रेतभूमिषु । श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते । न कोऽपीत्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिग्रहणे तस्य परेतभूसञ्चारित्वेन साहचर्यात्तवापि तत्र सञ्चारोऽवश्यंभावीति भावः ।
भावार्थः – कुसुमास्तृतदिव्यभवनभूसञ्चारोचितयोस्तव सुकुमारयोश्चरणयोः लाक्षारसरञ्जितानि चरणविन्यासचिह्नानि, इतस्ततो विक्षिप्तप्रेतकेशासु श्मशानभूमिषु कर्तुं शत्रुजनोऽपि को नाम स्वीकृतिं दास्यति, न कोऽपीति भावः ।
कोशः – पादतच्चिह्नयोः इति विश्वः । कलङ्काऽङ्कौ लाञ्छनं च चिह्न लक्ष्म च लक्षणम् इत्यमरः । चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः इत्यमरः ।
अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥६९॥
अन्वयः – त्रिनेत्रवक्षः तव सुलभम् अपि, अतः परम् अयुक्तरूपं कि ? वद । यत् हरिचन्दनास्पदे अस्मिन् स्तनद्वये चित्ताभस्मरजः पदं करिष्यति ।
पदार्थः – त्रिनेत्रवक्षः = शिवोरःस्थलं, शिवाऽऽलिङ्गनमित्यर्थः । तव = भवत्याः। सुलभम् अपि = सुप्रापं च, भवतीति शेषः । अतः परम् = अस्मात् अन्यत्। अयुक्तरूपम् = अत्यन्ताऽयुक्तम्। किं वद = ब्रूहि, न किञ्चिदित्यर्थः । यत् = यस्मात् कारणात्। हरिचन्दनाऽऽस्पदे = हरिचन्दनस्थानमते। अस्मिन् = एतस्मिन्। स्तनद्वये = कुचद्वये। चिताभस्मरजः = श्मशानभसितरजः। पदं = स्थानम्। करिष्यति = निधास्यति ।
व्युत्पत्तिः – त्रिनेत्रवक्षः = त्रीणि नेत्राणि यस्य स त्रिनेत्रः, तस्य वक्षः त्रिनेत्रवक्षः । सुलभं = सुखेन लब्धुं शक्यं सुलभं, खल्प्रत्ययः । तव अत्र शेषे षष्ठी, "न लोकाऽम्ययनिष्ठाखलर्थतृनाम्” इति सूत्रेण कृद्योगलक्षणषष्ट्या निषेधात् । अयुक्तरूपम् = न युक्तम् अयुक्तम्, अतिशयेन अयुक्तम् अयुक्तरूपं, "प्रशंसायां रूपप्" इति रूपप्प्रत्ययः । हरिचन्दनास्पदे = हरिचन्दनस्य आस्पदं हरिचन्दनास्पदं, तस्मिन् हरिचन्दनास्पदे, स्तनद्वये = द्वौ अवयवौ यस्य तत् द्वयं स्तनयोर्द्वयं स्तनद्वयं तस्मिन् स्तनद्वये | चिताभस्मरजः = चिताया भस्म चिताभस्म, "भूतिर्भसितभस्मनी” इत्यमरः । चिताभस्म एवं रजः चिताभस्मरजः । इदं तु मल्लिनाथम्याख्यानुसारेण व्याख्यातम् । यथागुरुवरास्तु "त्रिनेत्रवक्षःसुलभ” मित्येकं पदं कृत्वा वच्यमाणप्रकारेण व्याचख्युः । - " यत् त्रिनेत्रवतः सुलभ चिताभस्मरजः तवाप्यस्मिन् हरिचन्दनाङ्किते स्तनद्वये पदं करिष्यति, अतः परम् अयुक्तरूपं किं वद" इति ।
सञ्जीविनी – अयुक्तेति || त्रिनेत्रवक्षः त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी । न लोकव्यय- इत्यादिना कृद्योगलक्षणषष्ठ्या निषेधात् । अतः परमस्मात्त्रिनेत्रवक्षोलाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किञ्चिदित्यर्थः । ' प्रशंसायां रूपम्, इति रूपप् प्रत्ययः । कुतः । यद्यस्मात्कारणाद्धरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूतेऽस्मिन् स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्णं कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः ।
भावार्थः – हरिचन्दनपङ्कसङ्गमयोग्ये तव स्तनद्वये हरालिङ्गनसङ्क्रान्तं चिताभस्म पदं करिष्यतीति यत्, तस्मादन्यत् किमयुक्तम् । न किमपीति भावः ।
व्याकरणः – तव अत्र शेषे षष्ठी, "न लोकाऽम्ययनिष्ठाखलर्थतृनाम्” इति सूत्रेण कृद्योगलक्षणषष्ट्या निषेधात् ।
कोशः – भूतिर्भसितभस्मनी इत्यमरः ।
इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥७०॥
अन्वयः – इयं च ते पुरतः अन्या विडम्बना अस्ति । ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनः स्मेरमुखः भविष्यति ।
पदार्थः – इयं च = एषा च ते = तव, पुरतः = आदावेव, पतिगृहप्रस्थानवेलायामेवेत्यर्थः । अनेन पूर्वमेव वक्तव्यमिदं मया विस्मृतमिति व्यज्यते । अन्या = अपरा, पूर्वोक्तेभ्योऽपि विलक्षणेत्यर्थः । विडम्बना = परिहासः अस्ति । ऊढया = परिणीतया, कृतविवाहयेत्यर्थः । वारणराजहार्यया =हस्तिराजनेतव्यया, त्वया = भवत्या, अधिष्ठितम् = आरूढं, वृद्धोक्षं वृद्ववृषभं विलोक्य = दृष्ट्वा, महाजनः, ओषधिप्रस्थवास्तम्यो लोक इत्यर्थः । स्मेरमुखः = स्मितमुखः, भविष्यति = भविता ।
व्युत्पत्तिः – पुरतः = पुर एव पुरतः । ऊढया = " वह प्रापणे" इति धातोः क्तप्रत्ययः, सम्प्रसारणं च । वारणराजहार्यया = वारणानां राजा वारणराजः समासान्तष्टच् । " मतङ्गजो गजो नागः कुञ्जरो वारणः करी" इत्यमरः । हारयितुं योग्या हार्या, णिजन्तात् " हृञ् हरणे" इति धातोर्ण्यत् । वारणराजेन हार्या वारणराजहार्या, तथा वारणराजहार्यया । वृद्धोक्षं = वृद्धश्चाऽसौ उक्षा वृद्धोक्षस्तं वृद्धोक्षम्, "अचतुरे" त्यादिना निपातः । “उक्षा भद्रो बलीवर्दः" इत्यमरः । महाजनः = महांश्चाऽसौ जनः महाजनः, स्मेरमुखः = स्मेरं मुखं यस्य सः स्मेरमुखः । स्मेरेरयन्त्र " नमिकम्पिस्म्यजसकमहिंसदीपो रः" इति रप्रत्ययः । स्मेरमुखो भविष्यसि = उपहसिष्यतीत्यर्थः ।
सञ्जीविनी – इयमिति ॥ इयं च ते तव पुरत आदावेवान्या विडम्बना । परिहास इत्यर्थः । का सेत्यत्राह - ऊढया परिणीतया । वहेः कर्मणि क्तः । वारणराजहार्यया त्यवाधिष्ठितमारूढं वृद्धमुक्षाणं वृद्धोक्षम् । अचतुर इत्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण संबन्धः । स्मेरेति 'नमिकम्पिस्म्यजस' - इत्यादिना रप्रत्ययः ।
भावार्थः – इयं च सवादौ पतिगृहप्रस्थानवेलायामेव विलक्षणा बिडम्बनास्ति । यत् करिणीवाहनोचितया परिणीतया स्वयारूढं वृद्धमुक्षाणं दृष्ट्वा ओषधिप्रस्थवास्तव्यो जन उपहसिष्यतीति भावः ।
कोशः – मतङ्गजो गजो नागः कुञ्जरो वारणः करी इत्यमरः । उक्षा भद्रो बलीवर्दः इत्यमरः ।
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥७१॥
अन्वयः – पिनाकिनः समागमप्रार्थनया सम्प्रति द्वयं शोचनीयतां गतं, सा कान्तिमती कलावतः कला, अस्य लोकस्य नेत्रकौमुदी त्वं च ।
पदार्थः – पिनाकिनः = महेश्वरस्य, समागमप्रार्थनया = प्राप्तिकामनया, क्रियमाणयेति शेषः । सम्प्रति = साम्प्रतं, द्वयं = द्वितयं, शोचनीयतां = शोच्यत्वं गतं = प्राप्तम् । सा = प्रसिद्धा, प्रागेव हरशिरोगतेत्यभिप्रायः । कान्तिमती = शोभाविशिष्टा, कलावतः = चन्द्रस्य, कला = षोडशो भागः, अस्य = एतस्य, लोकस्य = भुवनस्य, लोकस्य = भुवनस्य, लोकत्रयवासिनो जनस्येत्यर्थः । नेत्रकौमुदी = नयनचन्द्रिका, दर्शनमात्रेण नेत्राऽऽनन्दिनीत्यर्थः । स्वं च = भवती च ।
व्युत्पत्तिः – पिनाकिनः = पिनाकः अस्यास्तीति पिनाकी, तस्य पिनाकिनः, इनिप्रत्ययः । समागमप्रार्थनया = समागमस्य प्रार्थना समागमप्रार्थना, तया समागमप्रा- र्थनया । द्वयं = द्वौ अवयवौ यस्य तद् द्वयम् । शोचनीयतां = शोचनीयस्य भावः शोचनीयता, तां शोचनीयतां, सा = अत्र सेति प्रसिद्धाऽर्थत्वाच यच्छन्दाऽपेक्षा । तदुक्तं काव्यप्रकाशे - " प्रक्रान्तप्रसिद्धाऽनुभूताऽर्थविषयस्तच्छन्दो यदुपादानं नाऽपेक्षते" इति । कान्तिमती = प्रशस्ता कान्तिर्यस्याः सा कान्तिमती, नित्ययोगे मतुप् । स्त्रीत्व विवक्षायाम् "उगितश्च" इति ङीप् । " शोमा कान्तिर्युतिश्छविः" इत्यमरः । कलोवतः = प्रशस्ताः कला यस्य स कलावान्, तस्य कलावतः, कला = " कला तु षोडशो भागः" इत्यमरः । नेत्र कौमुदी = नेत्रयोः कौमुदी नेन्त्रकौमुदी, “चन्द्रिका कौमुदी ज्योसना" इत्यमरः ।
सञ्जीविनी – द्वयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया । क्रियमाणयेति शेषः । संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह - सा प्रागेव हरिशिरोगता । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षया । तदुक्तं काव्यप्रकाशे – प्रकान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी | नेत्रानन्दिनीत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या । सम्प्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यत्वं च निकृष्टाश्रयणादिति भावः ।
भावार्थः – हरस्य प्राप्तिकामनया वच्यमाणं वस्तुपमिदानीं शोच्यत्वं प्रासम् । प्रागेव हरशिरोगता मोहस्वहुतरकान्सियुक्ता चन्द्रस्य लोकप्रसिद्धा पोडाभागरूपा कला इत्येका, द्वितीया-लोक श्रयवासिनो जनस्य नेत्रानन्दकारिणी एवं चेति भावः ।
कोशः – कला तु षोडशो भागः इत्यमरः । चन्द्रिका कौमुदी ज्योसना इत्यमरः ।
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद् बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥७२॥
अन्वयः – वपुः विरूपाक्षम्, अलक्ष्यजन्मता, वसु दिगम्बरत्वेन निवेदितम् । हे बालमृगाक्षि ! वरेषु यत् मृग्यते तत् त्रिलोचने व्यस्तम् अपि अस्ति किम् ?
पदार्थः – वपुः = शरीरं, विरूपाक्षं = विकृतरूपनेत्रम् त्रिनेत्रकृताधिकाङ्गविरूपमित्यर्थः । अलक्ष्यजन्मता = अज्ञातजननत्वं, कुलमपि न ज्ञायत इत्यर्थः । “अलक्षिताता जनिः" इति पाठे जनिरुत्पत्तिः अलक्षिता न ज्ञाता" इति । वसु = धनं, दिगम्बरत्वेन = नग्नत्वेन निवेदितं = सूचितम्, नास्तीति ज्ञापितमित्यर्थः । हे बालमृगाक्षि = हे बालहरिणाक्षि, हे पार्वतीत्यर्थः । वरेषु = वोढृषु, यत् = रूपवित्तादिकं, मृग्यते = अन्विष्यते, वधूभिस्तद्बन्धुभिश्चेति शेषः । तत्, त्रिलोचने = हरे, व्यस्तम् अपि = एकम् अपि, अस्ति किम् = विद्यते किम् ? नास्त्येवेत्यर्थः ।
व्युत्पत्तिः – विरूपाक्षं = विकृतं रूप येषां तानि विरूपाणि तानि अक्षीणि यस्य तत् विरूपाक्षं, "बहुव्रीहौ सक्थ्यच्णोः स्वाङ्गात्षच्” इति षच्प्रत्ययः । वपुषो विरूपाक्षत्वात् न सौन्दर्यवार्ताऽपीत्यर्थः । अलक्ष्यजन्मता = लक्षितुं योग्यं लक्ष्यं, न लक्ष्यम् अलक्ष्यं, तत् जन्म यस्य स अलक्ष्यजन्मा, तस्य भावः अलक्ष्यजम्मता । दिगम्बरत्वेदिगेव अम्बरं यस्य स दिगम्बरः तस्य भावः दिगम्बरत्वं तेन दिगम्बरत्वेन । हे बालमृगाक्षि = बालश्चाऽसौ मृगः बालमृगः, तस्य अक्षिणी इव अक्षिणी यस्याः सा बालमृगाक्षी, तत्सम्बुद्धौ हे बालमृगाक्षि, षण्प्रत्ययः, षिस्वारस्त्रीत्वविवक्षायां ङीष् । " मृगे कुरङ्गवातायुहरिणाऽजिनयोनयः" इत्यमरः । वरेषु = "वरो जामातृवोढारी" इति विश्वः । मृग्यते = "मृग अन्वेषणे" इति धातोः कर्मणि लट् । त्रिलोचने = त्रीणि लोचनानि यस्य स त्रिलोचनः तस्मिन् त्रिलोचने । तथा चोक्तं विवाहप्रकरणे वरविचारे - "कन्या कामयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्ठान्नमितरे जनाः॥” इति ।
सञ्जीविनी – वपुरिति ॥ वपुस्तावदस्य विरूपाणि विकृतरूपाण्यक्षीणि नेत्राणि यस्य तद्विरूपाक्षम् | 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्, इति षच्प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी । अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता । कुलमपि न ज्ञायत इत्यर्थः । 'अलक्षिता जनिः' इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । 'जनिरुत्पत्तिरुद्भवः' इत्यमरः । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् । नास्तीति ज्ञापितमित्यर्थः । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । किं बहुना हे बालमृगाक्षि ! पार्वति ! वरेषु वोढृषु । 'वरौ जामातृवोढारौ' इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्बन्धुभिरन्विष्यते तत्त्रिलोचने त्र्यम्बके व्यस्तम् एकमपि समस्तं मा भूदिति भावः अस्ति किम् । नास्त्येवेत्यर्थः।
भावार्थः – शरीरं तावदस्य विकृतलोचनम्, अस्योत्पत्तिरप्यज्ञाता, दिगम्बरत्वेन वित्तं निवेदयतीति सौन्दर्याभिजात्य महालक्षणलक्षितत्वादीनि यानि गुणजातानि वधूभिस्तद्बन्धुभिश्च विवाहसमयात् प्रागेवान्विष्यते, तेष्वेकमपि शङ्करे विद्यते किम ? नास्त्येवेति भावः ।
कोशः – वरौ जामातृवोढारौ इति विश्वः । मृगे कुरङ्गवातायुहरिणाजिनयोनयः इत्यमरः ।
निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥७३॥
अन्वयः – अस्मात् असदीप्सितात् मनः निवर्तय । तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशानशूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ।
पदार्थः – अस्मात् = एतस्मात् असदीप्सितात् = अनिष्टमनोरथात्, मनः = चित्तं, निवर्तय = निवारय, तद्विधः = तादृशो हरः, पूर्वोक्तसकलदोषाधिष्ठानभूत इत्यर्थः, क= कुत्र, पुण्यलक्षणा = प्रशस्तभाग्यचिह्ना, सामुद्रिकोक्त सकलवधूलक्षणपरिपूर्णेत्यर्थः । स्वं च = भवती च, क= कुत्र । युवयोर्महानेव विशेष इत्यर्थः । साधुजनेन = सज्जनेन, श्मशानशूलस्य = पितृवनशङ्कोः, वधारोपणशूलस्येत्यर्थः । वैदिकी = वेदोक्ता, यूपसत्क्रिया = यूपसंस्कारः, न अपेक्ष्यते = न इष्यते
व्युत्पत्तिः – असदीप्सितात् = न सत् असत् = अकुशलोदर्कम्, तच्च तत् ईप्सितम् असदीप्सितं तस्मात् असदीप्सितात् । तद्विधः = सा = पूर्वोक्ता, विधा = प्रकारः, यस्य स तद्विधः । "विधा विधौ प्रकारे च" इत्यमरः । पुण्यलक्षणा = पुण्यानि लक्षणानि यस्याः सा पुण्यलक्षणा । " स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः" इत्यमरः । साधुजनेन = साधुश्चासौ जनः साधुजनः तेन साधुजनेन । “साधुर्वार्धुषिके चारौ सज्जने चाऽभिधेयवत्" इति विश्वः । श्मशानशूलस्य = श्मशानस्य शूलं श्मशानशूलं, तस्य श्मशानशूलस्य । " श्मशानं स्यात्पितृवनम्" इत्यमरः । वैदिकी = वेदे भवा वैदिकी, भवार्थे ठञ् । “श्रुतिः स्त्री वेद आम्नायस्त्रयी" इत्यमरः । यूपसत्क्रिया = सती चाऽसौ क्रिया सत्क्रिया, यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषः । तस्य सत्क्रिया = प्रोक्षणाऽभ्युक्षणादिसंस्कारः । अत्र सादृश्यनिमित्ताऽप्रस्तुत प्रशंसालङ्कारः ।
सञ्जीविनी – निवर्तयेति ॥ अस्मादसदीप्सितादनिष्टमनोरथान्मनोनिवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभाग्यचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः । तथाहि । साधुजनेन । 'साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्' इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोर्वेदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूळे यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ।
अलङ्कारः – अत्र सादृश्यनिमित्ताऽप्रस्तुत प्रशंसालङ्कारः ।
भावार्थः – अतस्त्वं हरप्राप्तिरूपादनिष्टमनोरथात् आत्मनो मनो निवारय । पूर्वोक्तसकल दोषाधिष्ठानभूतः स हरः क, सामुद्रिकोक्तसकलवधूलक्षणपरिपूर्णा त्वञ्च क यथा वैदिकत्वादलौकिकी यूपसत्क्रिया विशिष्टयज्ञोपयोगयोग्ययूपयोग्या, न वध्यारोपणशूलयोग्या, तथा पुण्यलक्षणत्वान्महाभाग्यगुणयोगिनी स्वमपि स्वर्गादिभोगयो- भ्यागुणविशिष्टपुरुषयोग्यैव, न श्मशानाश्रयहरयोग्येति भावः ।
कोशः – साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् इति विश्वः । विधा विधौ प्रकारे च इत्यमरः । स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः इत्यमरः । श्मशानं स्यात्पितृवनम् इत्यमरः । श्रुतिः स्त्री वेद आम्नायस्त्रयी इत्यमरः ।
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥७४॥
अन्वयः – इति द्विजातौ प्रतिकूलवादिनि सति प्रवेपमानाधरलक्ष्यकोपया तया उपान्तलोहिते विलोचने विकुञ्चितभ्रूलतं यथा तथा तिर्यक् आहिते ।
पदार्थः – इति = इत्थं द्विजातौ = द्विजे, ब्रह्मचारिणीत्यर्थः । प्रतिकूलवादिनि = अप्रियभाषिणि सति, प्रवेपमानाऽधरलक्ष्या कोपया = चञ्चलोष्ठाऽनुमेय क्रोधया, तया = पार्वत्या, उपान्तलोहिते = प्रान्तरक्ते, विलोचने = नेत्रे, विकुञ्चितभ्रूलतं = कुटिलितभ्रूलतं यथा तथा, सभ्रूभङ्गमित्यर्थः । तिर्यक् = साचि, आहिते = निहिते ।
व्युत्पत्तिः – द्विजातौ = हे जाती यस्य स द्विजातिः, तस्मिन् द्विजातौ, "जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते" इति स्मरणात् । प्रतिकूलवादिनि = प्रतिकूलं वदतीति प्रतिकूलवादी, तस्मिन् प्रतिकूलवादिनि, णिनिप्रत्ययः । प्रवेपमानाऽधरलक्ष्यकोपया = प्रवेपते इति प्रवेपमानः, "टुवेट कम्पने" इति धातोः शानच् । " आने मुक" इति मुगागमः । प्रवेपमानश्चाऽसौ अधरः प्रवेपमानाऽधरः, तेन लक्ष्यः प्रवेपमानाऽधरलक्ष्यः, स कोपः यस्याः सा प्रवेपमानाधरलचयकोपा, तया प्रवेपमानाधरलक्ष्यकोपया, “कोपक्रोधामर्षरोषप्रतिघा रुट्कुधौ स्त्रियौ" इत्यमरः । उपान्तलोहिते = उपान्तयोः लोहिते उपान्तलोहिते । विकुञ्चितलतं = भ्रुवौ एव लते भ्रूलते, विशेषेण कुञ्चिते विकुञ्चिते, ते भूलते यस्मिन् कर्मणि तद्यथा तथा, विकुञ्चितलतम् ।
सञ्जीविनी – इतीति ॥ इत्येवं प्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमानेन चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिस्तत्तथा । सभ्रूभङ्गमित्यर्थः । तिर्यक् साचि । आहिते निहिते । अनादरात्तिर्यगैक्ष्यतेत्यर्थः ।
भावार्थः – इथं ब्राह्मणे स्वप्रतिकूलवचने सति कम्पमानाधरोष्ठलभयक्रोधया पार्वत्या कोपवशादपाङ्गरक्ते स्वस्य नयने सन्मुखादनादरेण निर्वर्त्य सभ्रूभङ्गं यथास्यात्तथा तिर्यक्प्रसारितकनीनिके अकारिषातामिति भावः ।
कोशः – कोपक्रोधामर्षरोषप्रतिघा रुट्कुधौ स्त्रियौ इत्यमरः ।
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥७५॥
अन्वयः – अथ एनम् उवाच च । त्वं परमार्थतः हरं न वेत्सि नम् । यतः माम् एवम् आत्थ । मन्दाः अलोकसामान्यम् अचिन्त्यहेतुकं महात्मनां चरितं द्विषन्ति ।
पदार्थः – अथ = अनन्तरम् एनं = ब्रह्मचारिणम् उवाच च = अब्रवीच्च । त्वं, परमार्थतः = तत्वतः, हरं = शङ्करं, न वेत्सि = न जानासि, नूनं = निश्चयेन । यतः = यस्माद्धेतोः, मां = पार्वतीम् एवम् = इत्थम्, आत्थ = ब्रवीषि । मन्दाः = मूढाः, अलोकसामान्यम् = अनितरजन साधारणम्, अचिन्त्यहेतुकम् = दुर्बोधकारणकं, महात्मनां = महानुभावानां चरितं = चरित्रं, द्विषन्ति = दूषयन्ति
व्युत्पत्तिः – परमार्थतः = परमश्चासौ अर्थः परमार्थः, तरमात् परमार्थतः, पञ्चम्यर्थे सार्वविभक्तिकस्तसिः । “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः । आत्थ = "ब्रुवः पञ्चनामादित आहो ब्रुवः" इति " आहस्थः" इति च सूत्राभ्यां रूपसिद्धिः । मन्दाः = "मूढाऽल्पाऽपटुनिर्भाग्या मन्दाः" इत्यमरः । अलोकसामान्यं = लोकेषु सामान्यं लोकसामान्यं, "लोकस्तु भुवने जने" इत्यमरः । न लोकसामान्यम् अलोकसामान्यं, तत् । अचिन्त्यहेतुकं = चिन्तयितु शक्यः चिन्त्यः, न चिन्त्यः अचिन्त्यः, स हेतुर्यस्य तत् अचिन्त्यहेतुकं तत् समासान्तः कप् । " हेतुर्ना कारणं बीजम्" इत्यमरः । महात्मनां = महान् आत्मा येषां ते महात्मानः तेषां महात्मनाम्, द्विषन्ति “द्विष अप्रीतौ” इति धातोर्लट् ।
सञ्जीविनी – उवाचेति ॥ अथैनं ब्रह्मचारिणमुवाच च । किमिति । परमार्थतस्तत्त्वतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रीत्यात्थ ब्रवीषि । 'बुवः पञ्चानामादितः - इति रूपसिद्धिः | अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह - मन्दा मूढाः । 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । लोकनामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्बोधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद्दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ।
भावार्थः – एनं ब्रह्मचारिणं जगाद च त्वं महेश्वरं तत्वतो न जानासि नूनं, यतो मामुक्तरीत्या तत्स्वरूपं ब्रवीषि । परमार्थज्ञानहीना मुढा अवाङ्मनसगोचरं महानुभावानां चरित्रम् " अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते" इति न्यायेन निन्दन्तीति भावः ।
कोशः – मूढाल्पापटुनिर्भाग्या मन्दाः इत्यमरः । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु इत्यमरः । लोकस्तु भुवने जने इत्यमरः । हेतुर्ना कारणं बीजम् इत्यमरः ।
विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मव्रत्तिभिः ॥७६॥
अन्वयः – विपत्प्रतीकारपरेण भूतिसमुत्सुकेन वा मङ्गलं निषेव्यते । जगच्छरण्यस्य निराशिषः सतः आशोपहतात्मवृत्तिभिः एभिः किम् (प्रयोजनम्) ।
पदार्थः – विपत्प्रतीकारपरेण = आपत्परिहारार्थिना, भूतिसमुत्सुकेन वा = ऐश्वर्यकामेन वा, मङ्गलं = कल्याणजनकं वस्तु, निषेव्यते = सेव्यते । जगच्छरण्यस्य = लोकशरणसाधोः, निराशिषः = निरभिलाषस्य, सतः = सत्पुरुषस्य, हरस्येत्यर्थः । आशोपहतात्मवृत्तिभिः = तृष्णादूषितान्तःकरणवृत्तिभिः, एभिः = मङ्गलैः, किं प्रयोजनम् । न किमपीत्यर्थः ।
व्युत्पत्तिः – विपत्प्रतीकारपरेण = प्रतीकरणं प्रतीकारः, "अकर्तरि च कारके संज्ञायाम्" इति घञ्प्रत्ययः । " उपसर्गस्य धन्यमनुष्ये बहुलम्” इति दीर्घः । विपदः प्रतीकारः विपत्प्रतीकारः, तस्मिन् परः = तत्परः, इति वित्प्रतीकारपरः, तेन विपत्प्रतीकापरेण | "विपस्यां विपदापदौ" इत्यमरः । भूतिसमुत्सुकेन = भूतौ समुत्सुकः भूतिसमुत्सुकः, तेन भूतिसमुत्सुकेन । जगच्छ्ररण्यस्य = शरणे = रक्षणे, साधुः शरण्यः, "तत्र साधुः" इति यत्प्रत्ययः । " शरणं गृहरक्षित्रोः" इत्यमरः । जगतः शरण्यः जगच्छरण्यः, तस्य जगच्छरण्यस्य । निराशिषः = निर्गतः आशीर्यस्मात्स निराशीः, तस्य निराशिषः । "आशीरुरगदंष्ट्रायां विप्रवाक्याऽभिलाषयोः" इति शाश्वतः । सतः = अस्तीति सन्, तस्य सतः । आशोपहतात्मवृत्तिभिः = आशया उपहता आशोपहता । आत्मनः वृत्तिः आत्मवृत्तिः । आशोपहता आत्मवृत्तिः येषां तानि आशोपहतात्मवृत्तीनि तैः आशोपहतात्मवृत्तिभिः । पूर्वं " मङ्गलम्" इत्येकवचनस्य जात्यभिप्रायत्वात् "एभिः" इति बहुवचनेन परामर्शो न विरुध्यते ।
सञ्जीविनी – विपदिति || विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थः । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । भूतिसमुत्सुकेनैश्वर्यं कामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते ! शरणे रक्षणे साधुः शरण्यः । ' तत्र साधुः' इति यत्प्रत्ययः । ' शरणं गृहरक्षित्रोः' इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति शाश्वतः । आशया तृष्णयोपहता दूषितात्मवृत्तिरन्तःकरण वृत्तिर्येषां तैरेभिर्मङ्गलैः किम् । वृथेत्यर्थः । पूर्वं मङ्गलमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गलाचार निर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथञ्चिदास्ताम् । को दोष इत्यर्थः । एतेन 'अमङ्गलाभ्यासरतिम्' । ( ५।६५ ) इत्युक्तं प्रत्युक्तं ।
भावार्थः – अनर्थपरिहारार्थिना महद्वैश्वर्यकामेन वा जनेन गन्धमाल्यादिकं मङ्गलं निषेव्यते । लोकत्रयरक्षकस्य निरभिलाषस्य च तृष्णादूषितान्तःकरणवृत्तिभिरेभिर्मङ्गलैः किम्प्रयोजनम् । न किमपीति भावः ।
कोशः – शरणं गृहरक्षित्रोः इत्यमरः । आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः इति शाश्वतः । विपस्यां विपदापदौ इत्यमरः ।
अकिञ्चनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः। स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥७७॥
अन्वयः – स अकिञ्चनः सन् सम्पदां प्रभवः, पितृसद्मगोचरः सन् त्रिलोकनाथः, भीमरूपः सन् शिवः इति उदीर्यते । अतः पिनाकिनः याथार्थ्याविदः न सन्ति ।
पदार्थः – सः = हरः, अकिञ्चनः दरिद्रो भवन् सम्पदां = सम्पत्तीनां, प्रभवः = कारणं; पितृसद्मगोचरः सन् = श्मशानाश्रयो भवन्, त्रिलोकनाथः = लोकत्रयपतिः, भीमरूपः सन् = भयङ्कराकारो भवन्, शिवः = सौम्यरूपः, इति उदीर्यते इत्युच्यते । अतः = अस्मात्कारणात्, पिनाकिनः = हरस्य, याथार्थ्याविदः = तत्त्ववेत्तारः, न सन्ति = न विद्यन्ते ।
व्युत्पत्तिः – अकिञ्चनः=नाऽस्ति किञ्चन यस्य सः अकिञ्चनः " मयूरव्यंसकादयश्च" इति समासः । सम्पदां = "सम्पदादिभ्यश्च" इति किप् । "अथ सम्पदि । सम्पत्तिः श्रीश्च लक्ष्मीश्च" इत्यमरः । प्रभवः = प्रभवति अस्मादिति प्रभवः, "ऋदोरप्" इति अप्प्रत्ययः । पितृसद्मगोचरः = पितॄणां सद्म पितृसद्म तत् गोचरः = आश्रयः यस्य स पितृसद्मगोचरः । त्रिलोकनाथः = त्रयाणां लोकानां नाथः त्रिलोकनाथः, "तद्धितार्थोत्तरपदसमाहारे च" इति उत्तरपदसमासः । भीमरूपः = भीमं रूपं यस्य स भीमरूपः, "दारुणं भीषणं भीष्मं भीमं घोरं भयानकम्" इत्यमरः । पिनाकिनः = पिनाकः अस्यास्तीति पिनाकी, तस्य पिनाकिनः । याथार्थ्याविदः = यथाभूतः अर्थः यथार्थः, " सुप्सुपा" इति समासः, यथार्थस्य भावः याथार्थ्यं तत् विदन्तीन्ति याथार्थ्याविदः ।
सञ्जीविनी – अकिञ्चनेति । स हरः । न विद्यते किञ्चन द्रव्यं यस्य सोऽकिञ्चनो दरिद्रः सन् । सम्पदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् त्रयाणां लोकानां नाथः । ' तद्धितार्थं - ' इत्यादिनोत्तरपदसमासः । स देवो भीमरूपो भयङ्कराकारः सन् । शिवः सौम्यरूप इत्युदीर्यते उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थो यथार्थस्तस्य भावो याथार्थ्यं तत्त्वं तस्य विदो न सन्ति । लोकोत्तरमहिम्नो निर्लेपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन ' अवस्तु निर्बन्ध परे' (५/६६ ) इति परिहृतं वेदितव्यम् ।
भावार्थः – स हरः दरिद्रः सन्नपि महदैश्वर्याणामुद्भवस्थानमस्तीति, श्मशाननिलयः सन्नपि त्रयाणां लोकानां नाथ इति, भयङ्कराकारः सन्नपि शान्तस्वरूप इति च पुराणेषु गीयते । त्रैलोक्ये कः पुमान् महेश्वरं वस्तुत्वावस्तुत्वाभ्यां परिच्छेत्तं समर्थोऽस्ति । न कोऽपीति भावः ।
कोशः – अथ सम्पदि सम्पत्तिः श्रीश्च लक्ष्मीश्च इत्यमरः । दारुणं भीषणं भीष्मं भीमं घोरं भयानकम् इत्यमरः ।
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥७८॥
अन्वयः – विश्वमूर्तेः वपुः विभूषणोद्भासि पिनद्धभोगि वा, गजाजिनालम्बि दुकूलधारि वा, कपालि वा अथवा इन्दुशेखेरं स्यात् इति न अवधार्यते ।
पदार्थः – विश्वमूर्तेः = त्रैलोक्यात्मकस्य, शिवस्येत्यर्थः । वपुः = शरीरं, विभूषणोद्भासि = अलङ्कारद्योति, स्यादिति शेषः एवं सर्वत्र बोध्यम् । पिनद्वभोगि वा बद्धभुजङ्गमं वा, गजाऽजिनालम्बि = हस्तिचर्मालम्बि दुकूकधारी वा = सौमधारकं वा, कपालि वा = कपालयुक्तं वा, अथ वा = यहा, इन्दुशेखरं स्यात् = चन्द्रमुकुटं भवेत्, इति, न अवधार्यते=न निर्धार्यते । ईदृक्तया निश्चेतुं न पार्यते इत्यर्थः ।
व्युत्पत्तिः – विश्वमूर्तेः = विश्वं मूर्तिर्यस्य स विश्वमूर्तिः, तस्य विश्वमूर्तेः । अनेन प्रपञ्चस्य परमेश्वरविवर्तत्वमुक्तम् । विभूषणोद्भासि = विशिष्टानि भूषणानि विभूषणानि, "कुगतिप्रादयः" इति गतिसमासः । विभूषणैः उद्भासते तच्छीलं विभूषणोद्भासि, "भासृ दीप्तौ” इति धातोः णिनिप्रत्ययः । पिनद्धभोगि = भोगः अस्याऽस्तीति भोगी, "अहेः शरीरं भोगः स्यात्" इति, “उरगः पन्नगो भोगी जिह्मगः पवनाऽशनः" इति चामरः । पिनद्धः भोगी यस्मिन् तत् पिनद्धभोगि, "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः" इत्यकारलोपः । पिनद्धेति अपिपूर्वकात् " णह बन्धने" इति धातोः कर्मणि कप्रत्ययः । गजाजिनालम्बि = गजस्य अजिनं गजाजिनं, तत् आलम्बते तच्छीलं गजाजिनालम्बि । दुकूलधारि = दुकूलं धारयतीति दुकूलधारि । कपालि = कपालम् अस्यास्तीति कपालि, इनिप्रत्ययः । "स्यात्कर्परः कपालोऽस्त्री" इत्यमरः । इन्दु. शेखरम् = इन्दुः शेखरः यस्य तत् इन्दुशेखरम्
सञ्जीविनी – विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुद्भासत इति भूषणोद्भासि स्यात् । पिनद्धभोग्याभुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेर पिपूर्वात्कर्मणि क्तः । ' वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो' इत्यकारलोपः । गजाजिनालम्बि स्यात् । अथवा दुकूलधारि स्यात् । कपालमस्यास्तीति कपालि ब्रह्मशिरः कपालशेखरं वा स्यात् । इन्दुशेखरं वा स्यात् । नावधार्यते न निर्धार्यते । सर्वं सम्भवतीत्यर्थः । एतेन ' त्वमेव तावत्' ( ५/६७ ) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ।
भावार्थः – त्रैलोक्यात्मकस्याष्टमूर्तेः शरीरं कटकमुकुटादिभिरलङ्कारैरुपशोभितमथवा सर्पवेष्टितम् अलौकिकेन गजचर्मणालङ्कृतमाहोस्विद् लौकिकेन दुकूलेनाऽङ्कृतं ब्रह्मशिरःकपालधारि चन्द्रशेखरं वेति, केनापि निश्चेतुं न शक्यत इति भावः ।
कोशः – उरगः पन्नगो भोगी जिह्मगः पवनाऽशनः इति चामरः । स्यात्कर्परः कपालोऽस्त्री इत्यमरः ।
तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये । तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ॥७९॥
अन्वयः – तदङ्गसंसर्गम् अवाप्य चिताभस्मरजः विशुद्धये कल्पते ध्रुवं, तथा हि नृत्याभिनयक्रियाच्युतं तत् अम्बरौकसां मौलिभिः विलिप्यते ।
पदार्थः – तदङ्गसंसर्गम् = शिवशरीरसम्पर्कम्, अवाप्य = प्राप्य, चिताभस्मरजः = चितिभसितधूलिः, विशुद्धये = विशुद्धय, कल्पते = अलं पर्याप्नोति, ध्रुवं = निश्चयेन । तथा हि = प्रसिद्धम् एव नृत्याऽभिनय क्रियाच्युतं = ताण्डवाभिनयकर्मपतितं, तत् = चिताभस्मरज इति शेषः, अम्बरौकसां = दिवौकसां देवानामित्यर्थः । मौलिभिः शिरोभिः, विलिप्यते = धियते ।
व्युत्पत्तिः – तदङ्गसंसर्गम् = तस्य = शिवस्य, अङ्गं = शरीरं तदङ्गं, तस्य संसर्गः तदङ्गसंसर्गः, तं तदङ्गसंसर्गम् | चिताभस्मरजः = चिताया भस्म चिताभस्म, तदेव रजः चिताभस्मरजः । विशुद्धये = विशिष्टा शुद्धिः विशुद्धिः, तस्यै विशुद्धये, “कल्पते" इति अलमर्थयोगात् "नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" इति चतुर्थी । नृत्याऽभिनय क्रियाच्युतं = नृत्ये = ताण्डवे, अभिनयः = अर्थव्य अकचेष्टा विशेषः, नृत्याऽभिनयः, "ताण्डवं नटवं नाटयं लास्यं नृत्यं च नर्तने" इत्यमरः । नृत्याभिनय एव क्रिया नृत्याभिनयक्रिया, तथा च्युतं नृत्याभिनयक्रियाच्युतम् । अम्बरौकसाम् = अम्बरम् एव ओकः येषां ते अम्बरौकसः, तेषाम् अम्बरौकसाम् ।
सञ्जीविनी – तदिति ॥ तस्य शिवस्याङ्ग तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रजोविशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अलमर्थयोगात् नमः स्वस्तिस्वाहा-' इत्यादिना चतुर्थी । ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेवाह - तथाहि । प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जकचेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् | चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिलिप्यते ध्रियते । अशुद्ध चेत्कथमिन्द्रादिभिध्रियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ।
भावार्थः – चिताभस्मकणोऽपि महेश्वरशरीरसम्बन्धं सम्प्राप्य निश्चयेन शुद्धिकरं भवति । यतो नर्तनाभिनयव्यापारपतितं तत् चिताभस्मरजो देवानां शिरोभिर्धार्यते । यदि चिताभस्मरजः परमेश्वरशरीरस्पर्शलाभात् पावनं नाऽभविष्यत् तर्हि तस्म नृत्य समये पतितमेतदमराः शिरोभिर्नाऽहरिष्यन्निति भावः ।
कोशः – ताण्डवं नटवं नाटयं लास्यं नृत्यं च नर्तने इत्यमरः ।
असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा। करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥८०॥
अन्वयः – प्रभिन्नदिग्वारणवाहनः वृषा असम्पदः वृषेण गच्छतः तस्य पादौ मौलिना उपगम्य विनिन्द्रमन्दाररजोऽरुणाङ्गुली करोति ।
पदार्थः – प्रभिन्नदिग्वारणवाहनः = मदस्राविदिग्गजयानः, ऐरावतेन गच्छन् इत्यर्थः, वृषा = देवेन्द्रः, असम्पदः = सम्पद्रहितस्य दरिद्रस्येत्यर्थः । वृषेण = वृषभेग, गच्छतः = गमनकर्तुः, वृषभारूढस्येत्यर्थः । तस्य = महेश्वरस्य पादौ = चरणौ कर्म, मौलिना = मस्तकेन, उपगम्य = प्राप्य, प्रणम्येत्यर्थः । विनिद्रमन्दाररजोऽरुणाऽङ्गुली= विकसितमन्दारवृक्षकुसुमपरागरक्ताङ्गुली, करोति = विदधाति ।
व्युत्पत्तिः – प्रभिन्नदिग्वारणवाहनः = प्रकर्षेण भिन्नः प्रभिन्नः दिशः वारणः दिग्वारणः । प्रभिन्नः = मदस्रावी, दिग्वारणः, ऐरावतः, वाहन = यानं, यस्य स प्रभिन्नदिग्वारणवाहनः । त्रिपदबहुव्रीहिः । वृषा = "वासवो वृत्रहा वृषा" इत्यमरः । असम्पदः = अविद्यमाना सम्पत् यस्य सः असम्पत्, तस्य असम्पदः, " नञोऽस्त्वर्थानां वाच्यो वा चोत्तरपदलोपः" इति नञ्बहुव्रीहिः । गच्छतः गच्छतीति गच्छन्, तस्व गच्छतः शतृप्रत्ययः । विनिद्रमन्दाररजोरुणाङ्गुली = मन्दारस्य कुसुमानि मन्दाराणि, विनिद्राणि च तानि मन्दाराणि विनिद्रमन्दाराणि तेषां रजांसि विनिद्रमन्दाररजांसि तैः अरुणाः विनिद्रुमन्दाररजोऽरुणाः, ताः अङ्गुलयः ययोस्तौ विनिद्रमन्दाररजोऽरुणाङ्गुली, तौ । “पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥" इत्यमरः ।
सञ्जीविनी – असम्पद इति । प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः । ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसम्पदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य । प्रणम्येत्यर्थः । विनिद्राणां विकसितानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अंगुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहणामिन्द्रादीनामपि वन्द्यस्येन्दुमौलेः कि सम्पदा, वृषारोहणे वा को दोषः इत्यर्थः ।
भावार्थः – मदोन्मत्तैरावतवाहनोऽपि देवेन्द्रो दरिद्रस्य वृषभारूढस्य तस्य हरस्य चरणौ किरीटिना मस्तकेन प्रणम्य विकसितमन्दारवृक्षकुसुमपरागरक्तवर्णाङ्गुली विदधाति । ततो न वृषवाहनत्वं परिहासास्पदमिति भावः ।
कोशः – वासवो वृत्रहा वृषा इत्यमरः । पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् । इत्यमरः ।
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥८१॥
अन्वयः – च्युतात्मना दोषं विवक्षता अपि त्वया ईशं प्रति एकं साधु भाषितम् । यम् आत्मभुवः अपि कारणम् आमनन्ति, स कथं लक्ष्यप्रभवः भविष्यति ।
पदार्थः – च्युतात्मना=नष्टस्वभावेन, अत एव दोषं दूषणं, विवक्षता अपि = वक्तुमिच्छता अपि त्वया भवता, ईशं प्रति=हरं प्रति, एकम् = वस्तु, "अलक्ष्यजन्मता" इत्येतत् वचनमित्यर्थः । साधु = समीचीनं, भाषितम् = उक्तं, कुतः, यम् = महेश्वरम्, आत्मभुवः अपि = ब्रह्मणः अपि, कारणं = निदानम्, आमनन्ति = उदाहरन्ति । श्रुतयः इति शेषः । सः = ईश्वरः, कथं = केन प्रकारेण, लक्ष्यप्रभवः = लक्ष्यजन्मा, भविष्यति = भविता । न कथमपीत्यर्थः ।
व्युत्पत्तिः – च्युताऽऽत्मना = च्युतः आत्मा यस्य स च्युतात्मा, तेन व्युतात्मना, "आत्मा यस्तो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च" इत्यमरः । विवक्षता = वक्तुम इच्छन् विवक्षन्, तेन विवक्षता । आत्मभुवः = आत्मनैव भवतीति आत्मभूः, तस्य आत्मभुवः 'ब्रह्माऽऽत्मभूः सुरज्येष्ठः" इत्यमरः । कारणं - " हेतुर्ना कारणं बीजं निदानम्" इत्यमरः । लक्ष्यप्रभवः = लचयः प्रभवः यस्य सः लक्ष्यप्रभवः ।
सञ्जीविनी – विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेनातएव दोषं दूषणं विवक्षता वक्तुमिच्छतापि त्वयेशं प्रत्येकम् 'अलक्ष्यजन्मता' इत्येतदेकम् । वच इत्यर्थः ॥ साधु भाषितं सम्यगुक्तम् । कुतः । यमीश्वरमात्मभुवोऽपि ब्रह्मणोऽपि । 'ब्रह्मात्मभूः सुरज्येष्ठः' इत्यमरः । कारणमामनन्त्युदाहरन्ति । विद्वांस इति शेषः । ' पाघ्राध्मास्थाम्नादाण -' इत्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति । अनादिनिधनस्य भगवतः कारणशङ्काकलङ्कश्च नान्विष्यत इत्यर्थः ।
भावार्थः – केवलं दोषमेव वक्तुमिच्छताऽपि नष्टस्वभावेन त्वया परमेश्वरमुद्दिश्यैकं वस्तु सम्यगुक्तम् । वेदाः यं महेश्वरं ब्रह्मणोऽपि स्रष्टारं वदन्ति, स परमेश्वरः लक्ष्यजन्मा कथं भविष्यति । न कथमपीति भावः ।
कोशः – ब्रह्मात्मभूः सुरज्येष्ठः इत्यमरः । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च इत्यमरः । हेतुर्ना कारणं बीजं निदानम् इत्यमरः ।
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥८२॥
अन्वयः – ( अथवा ) विवादेन अलं स त्वया यथा श्रुतः अशेषं तथाविधः अस्तु, मम मनः अत्र भावैकरसं स्थितं, कामवृत्तिः वचनीयं न ईक्षते ।
पदार्थः – ( अथवा = यद्वा ) विवादेन = कलहेन, अलं = पर्याप्तम् सः = सः = ईश्वरः स्वया = भवता, यथा = येन प्रकारेण, श्रुतः = आकर्णितः, अशेषं कात्स्न्यैन, तथाविधः - तादृशः, अस्तु = भवतु । मम = मदीयं मनः = चित्तम्, अत्र = महेश्वरे, भावेकरसम् = अभिलाषैकपक्षपाति, हर विषयाभिलाषमात्र तत्परमित्यर्थः । स्थितं = वृत्तं । तथा हि, कामवृत्तिः = स्वेच्छा व्यवहारः, वचनीयं = निन्दाम्, अस्थानप्रसङ्गाऽपवादमित्यर्थः । न ईक्षते = न विचारयति । न हि स्वेच्छासञ्चारिणो लोकापवादाद् बिभ्यतीत्यर्थः ।
व्युत्पत्तिः – विवादेन = विरुद्धो वादः विवादः, "कुगतिप्रादयः" इति समासः । " विवादो व्यवहारः स्यात्" इत्यमरः । अशेषं = यथा तथा क्रियाविशेषणम् । “विश्वमशेषं कृत्स्नं समस्त निखिलाऽखिलानि निःशेषम्" इत्यमरः । तथाविधः = तथा विधा यस्य स तथाविधः । अत्र = अस्मिन्निति अत्र, त्रप्रत्ययः । भावैकरसं=भावः = अभिलाषः, तत्र एकः रसः = पक्षः, यस्य तत् भावैकरसं, कामवृत्तिः = कामस्य वृत्तिः कामवृत्तिः ।
सञ्जीविनी – अलमिति । अथवा विवादेन कलहेनालम् | त्वया यदा येन प्रकारेण स ईश्वरः । श्रुतोऽशेषं कार्त्स्न्येन तथाविधस्तावत्प्रकार एवास्तु | मम मनस्त्वत्रेश्वरेभावः शृंगार एकोऽद्वितीयो रस आस्वाद्यो यस्य तत्तथा स्थितम् । तथाहि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति । न हि स्वेच्छासञ्चारिणो लोकापवादाद्विभ्यन्तीति भावः ।
भावार्थः – अथवा कलहेनालम् । स हरो भवता येन प्रकारेण श्रुतः, साकल्येन तथाप्रकार एवास्तु | अत्र हरे तद्विषयाभिलाषमात्रतत्परं मे हृदयं निश्चलमस्ति । स्वेच्छा व्यवहारी लोकापवाद न विचारयतीति भावः ।
कोशः – विवादो व्यवहारः स्यात् इत्यमरः । विश्वमशेषं कृत्स्नं समस्त निखिलाऽखिलानि निःशेषम् इत्यमरः ।
निवार्यतामालि! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥८३॥
अन्वयः – हे आलि ! स्फुरितोत्तराधरः पुनः किमपि विवक्षुः अयं वटुः निवार्यताम् । तथा हि यः महतः अपभाषते न केवलं सः पापभाक्, अपि तु तस्मात् यः शृणोति सोऽपि पापभाक् भवति ।
पदार्थः – हे आलि = हे सखि, स्फुरितोत्तराधरः = स्फुरणभूयिष्ठोष्ठः, पुनः= भूयः, तिरस्कार- किमपि = किश्चिदपि, विवक्षुः = वक्तुमिच्छुः अयम् = एषः, बटुः = वाचाटः, व्यञ्जकं पदमेतत् । निवार्यताम् = अपसार्यताम्, आश्रमाद् बहिर्भागे निस्सार्यतामित्यर्थः । तथाहि, यः = पुरुषः, महतः = पूज्यान्, अपभाषते = अपवदति, न केवलं, सः = अपवादकर्ता, एव पापभाक् = पापीयान् अपि तु - तस्मात् = अपभाषमाणात् पुरुषात्, यः = श्रोता, शृणोति = आकर्णयति, सोऽपि = श्रोताऽपि, पापभाक् = पापीयान्, भवतीति शेषः ।
व्युत्पत्तिः – आलि = आलिः सखी वयस्या च इत्यमरः । स्फुरितोत्तराधरः स्फुरितेन उत्तरः इति स्फुरितोत्तरः, सः अधरः = ओष्ठः यस्य स स्फुरितोत्तराधरः । विवक्षुः = वक्तुमिच्छुः विवक्षुः सन्नन्तात्, "वच परिभाषणे " इति धातोः उप्रत्ययः । पापभाक् = पापं भजतीति पापभाक्, भजेण्विः प्रत्ययः । मनुरप्येवमाह - " "गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा तवोऽन्यतः ॥” इति ( २ - २०० ) वस्तुतस्तु वक्त्रपेचया श्रोतुः पापाधिक्यं भवति । कुत इति चेत् श्रूयताम् । श्रोतरि श्रवणोत्सुके सति वक्ता सविस्तरं वदतीति लोकस्वभावः । नेत्रवक्त्रविकारादि भिः श्रोतुः कोपावगमे सति ततोऽधिकं न वदतीति दुर्जनानां स्वभावः । तस्माच्छ्रोतुरपि पापवचनस्य कारयितृत्वमवश्यं भवत्येवेत्यर्थः ।
सञ्जीविनी – निर्वार्यतामिति ॥ हे आलि सखि । आलिः सखी वयस्या च इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोष्ठोऽयं बटुर्माणवकः पुनः किमपि विवक्षुर्वक्तुमिच्छुः । ब्रुवः सन्नन्तादुप्रत्ययः । निर्वार्यताम् । तर्हि वक्तुमेव कथं न ददासीत्याह - तथाहि । यो महतः पूज्यानपभाषतेऽपवदति न केवलं स पापभाग्भवति किन्तु तस्मादपभाषमाणात्पुरुषाद्यः शृणोति सोऽपि पापभाक् भवतीति शेषः । अत्र स्मृतिः । - ' गुरोः प्राप्तः परीवादो न श्रोतव्यः कथञ्चन । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ||' इति ।
भावार्थः – हे सखि ! कम्पिताधरोष्ठोऽयं वाचालः किमप्यन्यद्वक्तुमिच्छति, अतो बहिर्निस्सार्यताम् । यो महाजनान् निन्दति न केवलं स एव पापीयान् भवति, अपि तु यस्तस्मात् महाजनिन्दकात् पुरुषात् महाजननिन्दावचनं शृणोति सोऽपि पापीयान् भवतीति भावः ।
कोशः – आलिः सखी वयस्या च इत्यमरः ।
इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला । स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥८४॥
अन्वयः – अथवा इतः गमिष्यामि इति वादिनी स्तनभिन्नवत्कला बाला चचाल । वृषराजकेतनश्च स्वरूपम् आस्थाय कृतस्मितः सन् तां समाललम्बे ।
पदार्थः – अथवा = पक्षान्तरे, इतः = अस्मात् प्रदेशात्, गमिष्यामि = गच्छामि, इति = एवं वादिनी = वदन्ती, स्तनभिन्नवल्कला = कुचस्रस्तचीरा, स्तनगलितस्तनावरणवल्कलेत्यर्थः । बाला = युवतिः, पार्वतीत्यर्थः । चचाल = चलितवती, इतः गन्तुमारेभे इत्यर्थः । वृषराजकेतनश्च = वृषभध्वजश्च, महेश्वरश्च इत्यर्थः । स्वरूपं = स्वाकारम्, आस्थाय = आश्रित्य ब्रह्मचारिवेषपरित्यागपूर्वकमात्मनः स्वरूपमवलम्ब्येत्यर्थः । कृतस्मितः = विहितेषद्धास्यः सन् तां = पार्वतीं, समाललम्बे = जग्राह ।
व्युत्पत्तिः – वादिनी = वदतीति वादिनी । स्तनभिन्नवल्कला = भिन्नं वल्कलं यस्याः सा भिन्नवल्कला, स्तनाभ्यां भिन्नवल्कला स्तनभिन्नवल्कला । वृषराजकेतनः वृषाणां राजा वृषराजः, "राजाऽहः सखिभ्यष्टच्" इति समासान्तष्टच् । वृषराजः केतनं यस्य स वृषराजकेतनः, स्वरूपं = स्वस्य रूपं स्वरूपं तत् कृत स्मितः = कृतं स्मितं येन स कृतस्मितः । अत्र 'च' शब्देन क्रियायौगपद्यलक्षणः समुच्चयालङ्कारः प्रतिपाद्यते । तथा चोक्तम्- "गुणौ क्रिये वा युगपत् स्यातां यद्वा गुणक्रिये” इति ।
सञ्जीविनी – इत इति ॥ अथवेतोऽन्यत्र गमिष्यामीति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृषमध्वजश्च स्वरूपमास्थाय निजरूपमाश्रित्य कृतस्मितः सन् तां पार्वतीं समाललम्बे जग्राह ।
भावार्थः – अथवा महेश्वरपरिवादपरस्याऽस्य बटोः सकाशादहमेव दूरतो गमिष्यामीति वदन्ती गमनसंरम्भवशात् स्तनगलितावरणवल्कला सा पार्वती त्वरितं गन्तुमारेभे । वृषभध्वजो ब्रह्मचारिवेषं परित्यज्यात्मनः स्वरूपमवलम्ब्य मन्दस्मितं कृत्वा तां पार्वतीं जग्राह चेति भावः ।
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- र्निक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥८५॥
अन्वयः – तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः निक्षेपणाय उद्धृतं पदं तथैव उद्वहन्ती शैलाधिराजतनया, मार्गाचलव्यतिकराकुलिता सिन्धुः इव न यत्रौ न तस्थौ ।
पदार्थः – तं = महेश्वरं वीक्ष्य = दृष्ट्रा, वेपथुमती = कम्पवती, सरसाङ्गयष्टिः= स्विन्नगात्री, "महादेवदर्शनेन पार्वस्याः सात्त्विकभावोदय उक्तः” । निक्षेपणाय अन्यत्र विन्यासाय, उद्घृतम् = उत्क्षिप्तं पदं = चरणम्, तथैव = तेनैव प्रकारेण, उद्वहन्ती = धारयन्ती, शैल (ऽधिराजतनया = हिमालयात्मजा, पार्वतीत्यर्थः । मार्गाऽचलव्यतिकराऽऽकुलिता=अध्वपर्वतसमाहतिसम्भ्रमिता, सिन्धुरिव = नदीव, न ययौ= न जगाम, प्रियतमावलोकन कौतुकहर्षवशादित्यर्थः । न तस्थौ = न स्थितवती, लज्जयेति शेषः ।
व्युत्पत्तिः – वेपथुमती = “टुवेट कम्पने" इति धातोः “ट्वितोऽथुच्” इति अथु- च्प्रत्ययः । वेपथुः अस्या अस्तीति वेपथुमती, मतुप्प्रत्ययः, तदन्तास्स्त्रीत्वविवचायां ङीप्प्रत्ययः । सरसाङ्गयष्टिः = रसेन सहिता सरसा, अङ्गमेव यष्टिः अङ्गयष्टिः । सरसा अङ्गयष्टिः यस्याः सा सरसाङ्गयष्टिः । पदं = " पदं व्यवसितत्राणस्थानलक्ष्माऽङ्घ्रिवस्तुषु" इत्यमरः । उद्वहन्ती = उद्वहतीति उद्दहन्ती । शैलाऽधिराजतनया = अधिको राजा अधिराजः, गतिसमासः । शैलानाम् अधिराजः शैलाऽधिराजः, तस्य शैलाऽधिराजतनया । मार्गाऽचलव्यतिकराऽऽकुलिता = मार्गे अञ्चलः मार्गाऽचलः, तस्य व्यतिकरः, मार्गाऽचलव्यतिकरः, तेन आकुलिता मार्गाऽचव्यतिकराकुलिता । सिन्धुः = "देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्" इत्यमरः । ययौ = "या प्रापणे" इति धातोर्लिट् । " भात औ णलः" इति जल औकारादेशः । तस्थौ "ष्ठा गतिनिवृत्तौ " इति धातोलिट् । वसन्ततिलकावृत्तमेतत् । तल्लक्षणं यथा- "उक्ता वसन्ततिलका तभजा जगौ गः ।" इति । तनया अत्र प्रकरणे नायिकागतानां "विवृण्वती शैलसुतापि भावम्" इत्यनेन दर्शितोदयानां व्रीडाहर्षादीनां व्यभिचारिभावानां समुन्मीलनं स्वावसरे कृतम् । " हरस्तु किचित्परिवृत्तधैर्यः" इत्यादिना दर्शितोदयानां नायकगतानां सात्त्विकानां व्यभिचारिणां च भावानाम् " अव्यञ्जितहर्षलक्षणः" इत्यादिना समुन्मीलनं च कृतमिति द्रष्टव्यम् । ततश्च परस्परानुरागनिश्चयोत्तम्भितः परस्परास्थानिबन्धनः सम्भोगशृङ्गारः क्रमादितः परं प्रकर्षपदवीमारोहतीध्यवसेयम् ।
सञ्जीविनी – तमिति ॥ तं देवं वीक्ष्य वेपथुमती कम्पवती सरसाङ्गयष्टिः खिन्नगात्री | महादेवदर्शनेन देव्याः सात्विकभावोदय उक्तः । निक्षेपणायान्यत्र विन्यासायोद्धृतमुत्क्षिप्तं पदमङ्घ्रिमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गेऽच-लस्तस्य व्यतिकरेण समाहत्या । अवरोधेनेति यावत् । आकुलिता सम्भ्रमिता सिन्धुर्नदीव | 'देशे नदविशेषेऽब्ध सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्थौ । लज्जयेति भावः । वसन्ततिलकावृत्तमेतत् ।
भावार्थः – तं महेश्वरं साक्षादेवावलोक्य प्रियतमावलोकनजन्यकौतुकहर्षादिवशात् कम्पवती स्विन्नगात्री प्रदेशान्तरे निधानायोद्धृतमेकं चरणं तथैवोद्वहन्ती सा पर्वत--- राजपुत्री पार्वती प्रवाहमार्गेऽतर्कितशैलसम्पर्केण परवशीकृता नदीव न जगाम, नापि गमनोद्यमात् विररामेति भावः ।
कोशः – देशे नदविशेषेऽब्ध सिन्धुर्ना सरिति स्त्रियाम् इत्यमरः । पदं व्यवसितत्राणस्थानलक्ष्माऽङ्घ्रिवस्तुषु इत्यमरः ।
अद्यप्रभृत्यवनताङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥८६॥
अन्वयः – 'हे अवनताङ्गि ! अद्य प्रभृति तव तपोभिः क्रीतः दासः अस्मि' इति चन्द्रमौलौ वादिनि सति सा अह्नाय नियमजं क्लमम् उत्ससर्ज । हि क्लेशः फलेन पुनः नवतां विधत्ते ।
पदार्थः – हे अवनताऽङ्गि = हे पार्वति !, अद्यप्रभृति = अस्माद्दिनात् आरभ्य, तव = ते, तपोभिः = नियमैः, क्रीतः = स्वायत्तीकृतः, दासः = सेवकः, अस्मि इति = इत्थं, चन्द्रमौलौ शिवे, वादिनि = वदति सति, सा=पार्वती, अह्नाय =सपदि, नियमजं = तपोजन्यं, क्लमं = क्लेशम्, उत्ससर्ज = तत्याज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । हि = यस्मात्कारणात्, क्लेशः = दुःखं, फलेन = फलसिद्धया, पुनः = भूयः, नवतां = नूतनतां, विधत्ते = धारयति । पूर्ववदेव अक्लिष्टतामापादयतीत्यर्थः ।
व्युत्पत्तिः – हे अवनताऽङ्गि = अवनतम् अङ्गं यस्याः सा अवनताऽङ्गी, तत्सम्बुद्धौ हे अवनताङ्गि !, अद्य प्रभृति = प्रभृतियोगात् अद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । चन्द्रमौलौ चन्द्रः मौलौ यस्य स चन्द्रमौलिः, तस्मिन् चन्द्रमौलौ । वादिनि = वदतीति वादी, तस्मिन्वादिनि । अह्नाय = सपदि, "स्त्राभ्झटित्य असाह्रायद्राङ्मनुसपदि द्रुते" इत्यमरः । नियमजं = नियमाज्जातः नियमजः तं नियमजम् । अत्राऽर्थान्तरन्यासालङ्कारः । इदमपि वसन्ततिलकावृत्तम् ।
सञ्जीविनी – अद्येति ॥ चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति, अद्य प्रभृति । अस्माद्दिनादारभ्येत्यर्थः । प्रभृतियोगादद्वेति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । तव तपोभिः क्रीतः । दासृ दाने । दासत आत्मानं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव्यह्नाय सपदि । 'स्रग्झटित्यञ्जसाह्राय द्राङ्मक्षु सपदि द्रुतम्' इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । तथाहि । क्लेशः फलेन फलसिद्ध्या पुनर्नवतां विधत्ते पूर्ववदेवाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशः इति भावः ।
अलङ्कारः – अत्राऽर्थान्तरन्यासालङ्कारः ।
भावार्थः – हे विनीते पार्वति ! अद्यारभ्याहं तव तपोभिः क्रीतो दासोऽस्मीति शङ्करे वदति सति सा पार्वती तत्क्षणे तपोजन्यं क्लेशं तत्याज । क्लेशः खलु फलसिद्धया पूर्ववदेवाक्लिष्टतामापादयतीति भावः ।
कोशः – स्रग्झटित्यञ्जसाह्राय द्राङ्मक्षु सपदि द्रुतम् इत्यमरः ।