शब्दशक्तिः¶
वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥
शब्दशक्तिविभागः (संक्षिप्तम्)¶
| शब्दशक्तिः | परिभाषा | अर्थः | शब्दः |
|---|---|---|---|
| अभिधा | तत्र सङ्केतितार्थस्य बोधनादग्रिमाभिधा । |
वाच्यार्थः साक्षात् सङ्केतितो योऽर्थो विवक्षितः। |
वाचकः |
| लक्षणा |
मुख्यार्थबाधे तद्युक्तो ययान्योऽर्थः प्रतीयते । रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ |
लक्ष्यार्थः मुख्यार्थबाधे सति रूढितः प्रयोजनाद्वा गृह्यमाणः। |
लाक्षणिकः |
| व्यञ्जना |
विरतास्वभिधाद्यासु ययार्थो बोध्यते परः । सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥ |
व्यङ्ग्यार्थः शब्दशक्त्युद्भवः अर्थशक्त्युद्भवो वा चमत्कारकारी अर्थः। |
वयञ्जकः |
लक्षणा¶
लक्षणायाः प्रभेदाः (८)¶
- रूढिमूलाप्रयोजनवतीलक्षणे
- रूढिमूला – वाच्यार्थबाधे सति कश्चन रूढिगतः अर्थः अवबुध्यते । (कर्मणि कुशलः) ।
- प्रयोजनवती – वाच्यार्थबाधे सति उक्तस्य प्रयोजनमुद्दिश्य अर्थः अवबुध्यते । (कुन्ताः प्रविशन्ति, कुन्ताः इत्यनेन साक्षात् कुन्ताधारिणः इति बुध्यते, न तु अन्यः कश्चन कुन्तशब्दव्यतिरिक्तः अर्थः)
- उपादानलक्षणालक्षणलक्षणे
- उपादानलक्षणा – स्वसिद्धये पराक्षेपः स्यादुपादानलक्षणा । अजहल्लक्षणा इत्यपि व्यपदेशः ।
- लक्षणलक्षणा – अर्पणं स्वस्य वाक्यार्थे परस्योपलक्षणम् । लक्षणलक्षणा नाम... ॥ जहल्लक्षणा इत्यपि शब्द्यते ।
- सारोपा-साध्वसानाविभागः
- सारोपा लक्षणा – विषयी विषयश्चैव यत्रोक्तौ पृथगस्थितौ । सारोपा सा... ॥ अश्वः श्वेतो धावति
- साध्यवसाना लक्षणा – विषयिणा निगीर्णस्य विषयस्य तु सा भवेत् । साध्यवसाना... ॥ श्वेतो धावति
- शुद्धा-गौणीविभागः
- शुद्धा लक्षणा – सादृश्येतरसम्बन्धाच्छुद्धा ॥
- गौणी लक्षणा – गौणी तु सादृश्यात् ।
मुख्याः (४)¶
| उपादानलक्षणा (अजहल्लक्षणा) |
लक्षणलक्षणा (जहल्लक्षणा) |
|
|---|---|---|
| रूढिमूला | श्वेतो धावति | कलिङ्गः साहसिकः |
| प्रयोजनवती | कुन्ताः प्रविशन्ति | गङ्गायां घोषः |
सिंहावलोकनम्¶
| साध्यवसाना | सारोपा | |||
|---|---|---|---|---|
|
शुद्धा सादृश्येतर-मूला |
उपादानलक्षणा | रूढिमूला | श्वेतो धावति । | अश्वः श्वेतो धावति। |
| प्रयोजनवती | कुन्ताः प्रविशन्ति । | एते कुन्ताः प्रविशन्ति। | ||
| लक्षणलक्षणा | रूढिमूला | कलिङ्गः युध्यते | कलिङ्गः पुरुषो युध्यते। | |
| प्रयोजनवती | आयुरेवेदम् | आयुर्घृतम् | ||
|
गौणी सादृश्य-मूला |
उपादानलक्षणा | रूढिमूला | तैलानि१ हेमन्ते सुखानि | एतानि तैलानि हेमन्ते सुखानि |
| प्रयोजनवती | राजकुमाराः२ गच्छन्ति | एते राजकुमाराः गच्छन्ति | ||
| लक्षण-लक्षणा | रूढिमूला | राजा कण्टकं३ शोधयति | राजा गौडेन्द्रं कण्टकं शोधयति | |
| प्रयोजनवती | गौ४र्जल्पति | गौर्वाहीकः५ |
१तैलानि तु तिलस्यैव! किन्त्वत्र सार्षपजः, ऐरण्डजः स्नेहः अपि अपेक्षितः (अतः सादृश्यम्, तस्मात् गौणी) ।
२वस्तुतया राजकुमाराः न, तथा सति मुख्यार्थबाध एव न स्यात्। राजकुमारसदृशाः ।
३कण्टकस्य अरेः च कष्टप्रदत्वं, तस्मात् सादृश्यम् ।
४गौः यथा मन्दः तथा अयम् (सादृश्यम्) ।
५साहित्यशास्त्रे न्यायशास्त्रे च वाहीकः इति शब्दः मन्दबुद्धेः, जडस्य, अस्वच्छस्य, केवलं कायक्लेशं कुर्वतः ग्राम्यपुरुषस्य प्रतीकत्वेन गृहीतः ।
व्यञ्जना¶
विरतास्वभिधाद्यासु ययार्थो बोध्यते परः।
सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च॥
व्यञ्जनायाः प्रभेदाः¶
- शाब्दी व्यञ्जना – शब्दपरिवर्तने व्यङ्ग्यनाशः (परावृत्ति-असहत्वम्) । विशिष्टशब्दाश्रितः व्यङ्ग्यार्थः ।
- अभिधामूला – सशङ्खचक्रो हरिः । (हरिपदस्य अनेकार्थत्वात् एकतमः अर्थः प्रतीयते संयोगादिभिः)
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम्॥ - लक्षणामूला – गङ्गायां घोषः । (पावनत्वशैत्ययोः प्रतीतिः लक्षणामूला)
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते।
फले शब्दैकगम्येऽत्र व्यञ्जना सैव नापरा॥
- अभिधामूला – सशङ्खचक्रो हरिः । (हरिपदस्य अनेकार्थत्वात् एकतमः अर्थः प्रतीयते संयोगादिभिः)
- आर्थी व्यञ्जना – शब्दपरिवर्तनेऽपि व्यङ्ग्यस्थायित्वम् (परावृत्ति-सहत्वम्) । अर्थाश्रितः व्यङ्ग्यार्थः । दशहेतवः अस्याः ।
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः।
प्रस्तावदेशकालादेर्वैशिष्ट्यात्प्रतिभाजुषाम्॥
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा।
आर्थीव्यञ्जनायाः हेतवः (१०)¶
| भेदः | उदाहरणम् | टीका |
|---|---|---|
| अभिधामूला (शाब्दी) व्यञ्जना |
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै- स्त्वामप्यर्कलिकां विकासयति मे कान्ता मुखार्केण च। अन्या सादृशमस्ति नौ यदि मुदा संस्पृश्यसे कान्तया त्वं धन्यः पुनरश्वकस्त्वमसि भोः श्लाघ्यैर्गुणैः सम्मतः ॥ |
रक्तत्वम् इति वर्णम्, अनुरागं च सूचयति । अनेन द्वयोः साम्यम् (वृक्षस्य दुष्यन्तस्य च)। |
| निःशेषच्युतचन्दनं स्तनतटं … |
अधमः इत्यस्य चमत्कारः ।
|
|
| लक्षणामूला (शाब्दी) व्यञ्जना |
उपकृतं बहु तत्र किमुच्यते सुविहितं प्रथयता सुखमङ्गतम् । विदधदीदृशमेव सदा सखे! सुखितमास्व ततः शरदां शतम् ॥ |
|
|
वक्तृ-वैशिष्ट्यम् यत्र वक्ता कः अस्ति इति ज्ञात्वा अर्थे चमत्कारः उत्पद्यते। |
अन्धकारोऽयम् आगतः। |
चौरः – चौर्यसमुचितकालः। अभिसारिका – समागमकालः। स्वामी – कार्यं समापय। |
|
गच्छाम्यच्युत दर्शनेन भवतीं सम्भावयिष्यामि तां मा मुञ्चन्तु भिया दहन्ति नयनान्यालोकयन्त्या मम । इत्थं गद्गदभाषिणीं विकसितव्रीडां वनप्रान्तरे कंसारिः पुलकाङ्कितः स्मितमुखो राधां समालिङ्गति ॥ |
राधा वदति गच्छामीति परन्तु तस्याः नयनानां स्थितिः (दहन्ति नयनानि) किमपि अन्यदेव वदति। अत्र वक्तुः (राधायाः) व्याजेन गमनकथनं वस्तुतः 'तत्रैव स्थातुम् इच्छां' व्यनक्ति। | |
| बोद्धव्य-वैशिष्ट्यम् | सा तु मृता। | दूत्या कश्चन नायकस्य बोद्धव्यत्वात् व्यङ्ग्यार्थः – सा तव विरहे अतीव पीडिता अस्ति, शीघ्रं गच्छ । |
|
पश्य निश्चल-निस्पन्दा बिसिनीपत्रे राजते बलाका। (= पश्य एषा बकी कमलपत्रे स्थिरा अस्ति।) |
पथिकः बोद्धव्यः । व्यङ्ग्यार्थः – एतत् स्थानं निर्जनं सुरक्षितं च अस्ति (यतोहि बकी भीता नास्ति), अतः अत्र त्वं विश्रामं कर्तुं शक्नोषि। अन्यः प्रसङ्गः – काचित् नायिका प्रच्छननायकं सूचयति यद् इदं स्थानं समागमाय उचितम्। |
|
|
गच्छाम्यच्युत दर्शनेन भवतीं सम्भावयिष्यामि तां मा मुञ्चन्तु भिया दहन्ति नयनान्यालोकयन्त्या मम । इत्थं गद्गदभाषिणीं विकसितव्रीडां वनप्रान्तरे कंसारिः पुलकाङ्कितः स्मितमुखो राधां समालिङ्गति ॥ |
कृष्णः रसज्ञः अस्ति। सः राधायाः "गच्छामि" इति वाक्यस्य वाच्यार्थं न गृह्णाति, अपितु तस्याः आन्तरिकं भावं ज्ञात्वा तां समालिङ्गति। | |
|
काकु-वैशिष्ट्यम् कण्ठध्वनेः परिवर्तनेन वाच्यस्य विपरीतार्थः व्यञ्जनया गृह्यते। |
अहं तव अनिष्टं करिष्यामि? | किम् अहं तव अनिष्टं कर्तुं शक्नोमि? नैव। अत्र प्रश्नवाचककाकुना 'अभावः' व्यज्यते। |
| स्वस्थो भवति मयि जीवति धार्तराष्ट्रः? | भीमसेनस्य काकुध्वन्या (क्रोधावेशेन) व्यज्यते यत् – मयि जीवति ते कदापि स्वस्थाः सुखिनो वा न भविष्यन्ति, अहं तान् निश्चयेन मारयिष्यामि इति । | |
| मथ्नामि कौरवशतं समरे न कोपात्? | अत्र भीमसेनस्य वचनम् अस्ति। 'न कोपात्?' इति काकुना (Tone) व्यज्यते यत्— "अहं कोपावेशेन अवश्यमेव कौरवाणां विनाशं करिष्यामि।" (अत्र नकारः अर्थतः बलवत्तरं स्वीकारं सूचयति)। | |
|
वाक्य-वैशिष्ट्यम् विशिष्टपदानां सन्निवेशः । विशिष्ट-पद-रचनायाः स्वरूपम्। पदानां गुम्फनं मुख्यम् । |
गतोऽस्तमर्कः। |
|
| निःशेषच्युतचन्दनं स्तनतटं … |
"त्वं स्नानं कर्तुं गतासि, न तु तस्य अधमस्य अन्तिकम्" इति वाक्यस्य काकुपूर्णः अथवा व्यङ्ग्यपूर्णः न्यासः। वाक्यस्य पूर्वार्धे शरीरे भोगचिह्नानां वर्णनम् अस्ति। उत्तरार्धे 'स्नानार्थं गता' इति क्रियायाः निर्देशः अस्ति। एतयोः द्वयोः परस्परविरुद्धयोः वाक्यखण्डयोः एकस्मिन् वाक्ये सामानाधिकरण्यमेव 'वाक्यवैशिष्ट्यम्' अस्ति। अत्र वाक्यस्य रचना एव तादृशी अस्ति या वाच्यं बाधित्वा व्यङ्ग्यं प्रकटीकरोति। श्लोके नायिकया प्रयुक्तानां विशेषणानां (यथा- निःशेषच्युतचन्दनं, निर्मृष्टरागोऽधरः) प्रयोगः, तेषां क्रमः, वाक्यसंयोजनं च दूत्याः मिथ्याभाषणं सपदि उद्घाटयति। विप्रकीर्णानीमानि पदानि न तथा प्रभावं जनयन्ति । अत्र 'मिथ्यावादिनि दूति!' इति सम्बोधनस्य वाक्ये सन्निवेशः एव उत्तरार्धस्य (वापीं स्नातुं गतासि) अर्थं व्यङ्ग्यपूर्णं करोति। एषा वाक्यस्य विशिष्टा भणितिभङ्गी अस्ति। |
|
| वाच्य-वैशिष्ट्यम् |
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ |
वाच्यार्थः – स्नातुं गतासि। व्यङ्ग्यार्थः – रन्तुं गतासीः ।
|
| अन्यसन्निधि-वैशिष्ट्यम् |
अहो एतस्य गृहस्य शोभा! (नायिकया सख्याः पुरतः, नायकस्य सन्निधौ।) |
नायकोऽपि पार्श्वे तेन नायकं प्रति व्यङ्ग्यम् – अहं तव गृहस्य व्यवस्थां दृष्ट्वा प्रसन्ना अस्मि, मयि अनुरागं कुरु। |
|
प्रस्ताव-वैशिष्ट्यम् प्रकरणं प्रसङ्गः वा । |
अस्त्रं त्यजतु। | युद्धप्रसङ्गे – शरणं गच्छतु |
| न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्। | मृगवधप्रस्तावे ऋषीणां वचनम्। अत्र व्यङ्ग्यार्थः – आश्रममृगः अयं वधार्हः न अस्ति, अतः धनुः अवतारय। | |
| इदमशरणं मयि प्रहरति । | मृगया इति प्रसङ्गः। व्यङ्ग्यार्थः – राजा रक्षाकर्ता भवति, न तु विनाशकः। | |
| देश-वैशिष्ट्यम् | अत्र निर्जनं वनम् अस्ति। | निर्जनत्वात् नायिकया नायकं प्रति अभिसारस्य सङ्केतः । |
| अत्रैव सा स्नाता, अत्रैव च सा स्थिता। | नायकस्य मनसि नायिकायाः (देशविशेष-) स्मृतयः कामवासना च व्यज्यन्ते। | |
| अत्रानुमग्ना सखी मे । | व्यङ्ग्यार्थः – अत्र देशवैशिष्ट्यात् सा सूचयति – इदं स्थानं क्रीडार्थं जलविहारार्थं वा अतीव उपयुक्तं निर्जनं च अस्ति। | |
| काल-वैशिष्ट्यम् | वसन्तकालः आगतः। | कालवैशिष्ट्यात् कामदेवस्य प्रभावः वर्धिष्यते इति व्यङ्ग्यम्। |
| गम्भीरगर्जितं नभः। | वर्णनेन प्रोषितभर्तृकायाः दुःखं तथा पतिं प्रति सङ्केतः व्यज्यते। | |
|
गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैव सखि! वासन्तसमयेऽसौ ॥ |
|
|
|
चेष्टा-वैशिष्ट्यम् शारीरिकचेष्टया (यथा— भ्रूभङ्गः, हस्तचालनम्) व्यङ्ग्यार्थस्य बोधः भवति। |
पृच्छतः नायकस्य पुरतः नायिका कमलपत्रं सङ्कोचयति। | चेष्टया "निशि मिलामः" इति व्यङ्ग्यम्। रात्रौ कमलं संकुचतीति । |
| सा कङ्कणं भ्रामयति। | नायिकायाः सङ्केतः – अधुना सन्ध्याकालः अभवत्, मया गन्तव्यम् अथवा अन्यः कश्चन रहस्यात्मकः सङ्केतः। | |
|
द्वारोपान्तनिरन्तरं मयि तया तस्थौ निधाय क्षणम् । व्यावृत्ताननया किञ्चिदपि साकूतं हसितं मुहुः ॥ |
व्यङ्ग्यार्थः – नायिकायाः हसनं तथा मुखपरिवर्तनम् (चेष्टा) नायकं प्रति तस्याः अनुरागं व्यनक्ति। | |
|
गच्छाम्यच्युत दर्शनेन भवतीं सम्भावयिष्यामि तां मा मुञ्चन्तु भिया दहन्ति नयनान्यालोकयन्त्या मम । इत्थं गद्गदभाषिणीं विकसितव्रीडां वनप्रान्तरे कंसारिः पुलकाङ्कितः स्मितमुखो राधां समालिङ्गति ॥ |
राधायाः तथा कृष्णस्य शारीरिकाः व्यापाराः व्यञ्जकाः सन्ति:
|
साहित्यदर्पणादुद्धृतानि उदाहरणानि¶
| शक्तयः | उदाहरणम् | प्रसङ्गः |
|---|---|---|
| अभिधाशक्तिः | सशङ्खचक्रो हरिः | 'हरि' शब्दस्य अनेकार्थत्वेऽपि 'शङ्खचक्र' योगात् विष्णुपरत्वे नियन्त्रणम्। |
| रामलक्ष्मणौ | साहचर्यात् 'राम' शब्दस्य परशुरामादिभ्यः पृथक्कृत्य दाशरथिपरत्वे नियमनम्। | |
| लक्षणाशक्तिः | कर्मणि कुशलः | रूढिमूला लक्षणा। कुशग्राहिणः अर्थं त्यक्त्वा प्रवीणार्थे रूढिः। |
| गङ्गायां घोषः | प्रयोजनवती लक्षणा। प्रवाहरूपमुख्यार्थबाधे 'तट' इति अर्थः, 'शैत्यपावनत्व'प्रयोजनं च। | |
| कलिङ्गः साहसिकः | रूढिमूला शुद्धा उपादानलक्षणा। देशस्य जडत्वात् देशवासिनां ग्रहणम्। | |
| कुन्ताः प्रविशन्ति | प्रयोजनवती उपादानलक्षणा। अचेतनकुन्तानां प्रवेशासम्भवात् कुन्तधारिणां ग्रहणम्। | |
| गौर्वाहीकः | गौणी सारोपा लक्षणा। वाहीकपुरुषे गोत्वस्य आरोपः (जाड्यमान्द्यसादृश्यात्)। | |
| आयुर्घृतम् | शुद्धा सारोपा लक्षणा। कार्यकारणभावात् घृते आयुष्ट्वस्य आरोपः। | |
| राजा क्रोशति | उपादानलक्षणा। राजा न क्रोशति, तद्गतपुरुषाः क्रोशन्ति इति बोधः। | |
| व्यञ्जनाशक्तिः | गतोऽस्तमर्कः | वाच्यवैशिष्ट्यात् आर्थी व्यञ्जना। वक्तृ-श्रोतृभेदात् 'सन्ध्यामुपासस्व' इत्यादयः भिन्नाः व्यङ्ग्यार्थाः। |
| पश्य निश्चलनिस्पन्दा... | वाच्यवैशिष्ट्यात् व्यञ्जना। बलाकायाः निश्चलत्वेन 'स्थानस्य निर्जनत्व'रूपव्यङ्ग्यप्रतीतिः। | |
| तथाभूतां दृष्ट्वा... | वक्तृवैशिष्ट्यात् व्यञ्जना। द्रौपद्याः अवस्थां वर्णयता भीमेन दुर्योधनधिक्कारः सूचितः। | |
| मात्सर्यमुत्सार्य... | बोद्धव्यवैशिष्ट्यात् व्यञ्जना। विदुषां पुरतः वैराग्यस्य श्रेष्ठत्वप्रतिपादनम्। | |
| सुभगे! एषा ते कल्पिता... | काकुवैशिष्ट्यात् व्यञ्जना। 'नहि' इति वाच्यस्य काक्वा 'अहो महदपराद्धम्' इति व्यङ्ग्यबोधः। |