Skip to content

साहित्यदर्पणः — द्वितीयः परिच्छेदः (वाक्यार्थविचारः)

सम्बद्धाः विषयाः


मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥२.५॥

कलिङ्गः साहसिकः इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे । असंभवन्यया शब्दशक्त्या स्वसंयुक्तान्पुरुषादीन्प्रत्याययति, यया च गङ्गायां घोषः इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृतेऽसंभवन्स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम । पूर्वत्र हेतू रूढिः प्रसिद्धिरेव । उत्तरत्र गङ्गातटे घोषः इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनं । हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणोऽतिप्रसङ्गः स्यात्, इत्युक्तम् – रूढेः प्रयोजनाद्वासौ इति ।

केचित्तु कर्मणि कुशलः इति रूढावुदाहरन्ति । तेषामयमभिप्रायः – कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृतेऽसंभवन्विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति । तदन्ये न मन्यन्ते । कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तं । व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे गौः शेते इत्यत्रापि लक्षणा स्यात् । गमेर्डेः (उणादि – २-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात्॥

तद्भेदानाह –

मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये ।
स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥२.६॥

रूढावुपादानलक्षणा यथा – श्वेतो धावति । प्रयोजने यथा – कुन्ताः प्रविशन्ति । अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते । पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनं । अत्र च मुख्यार्थस्यात्मनोऽप्युपादानं । लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।

इयमेवाजहत्स्वार्थेत्युच्यते॥

अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥२.७॥

रूढिप्रयोजनयोर्लक्षणलक्षणा यथा – कलिङ्गः साहसिकः, गङ्गायां घोषः इति च । अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः । यथा वा –

अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परं । विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्॥

अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति । अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः । इयमेव जहत्स्वार्थेत्युच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।

ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।

विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ॥२.८॥
सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।

विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा । इयमेव रूपकालङ्कारस्य बीजं । रूढावुपादानलक्षणा सारोपा यथा – अश्वः श्वेतो धावति । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा – एते कुन्ताः प्रविशन्ति । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् । रूढौ लक्षणलक्षणा सारेपा यथा – कलिङ्गः पुरुषो युध्यते । अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः । प्रयोजने यथा – आयुर्घृतम् । अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनं ।

यथा वा – राजकीये पुरुषे गच्छति राजासौ गच्छति इति । अत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा – अग्रमात्रेऽवयवभागे हस्तोऽयम् । अत्रावयवावयवि भावलक्षणसम्बन्धः । ब्राह्मणोऽपि तक्षासौ । अत्र तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु अमी इन्द्राः । अत्र तादर्थ्यलक्षणः सम्बन्धः । एवमन्यत्रापि । निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव । तदेवमष्टप्रकारा लक्षणा ।

सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥२.९॥
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।

ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारणभावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सारेपा गौणी यथा – एतानि तैलानि हेमन्ते सुखानि । अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते । प्रयोजने यथा – राजकुमारेषु तत्सदृशेषु च गच्छत्सुएते राजकुमारा गच्छन्ति । रूढावुपादानलक्षणा साध्यवसाना गौणी यथा – तैलानि हेमन्ते सुखानि । प्रयोजने यथा – राजकुमारा गच्छन्ति रूढौ लक्षणलक्षणा सारेपा गौणी यथा – राजा गौडेन्द्रं कण्टकं शोधयति । प्रयोजने यथा – गौर्वाहीकः रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा – राजा कण्टकं शोधयति । प्रयोजने यथा – गौर्जल्पति* ।

अत्र केचिदाहुः – गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम् – गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद्गोशब्दार्थमात्रबोधनाच्च । अभिधाया विरतत्वाद्विरतायाश्च पुनरुत्थानाभावात् । अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाहि – अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद्? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थेऽस्यासङ्केतित्वात् । न द्वितीयः, – अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः, – यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।

तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानोऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनं । इयं च गुणयोगाद्रौणीत्युच्यते । पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रं । यथा – अग्रिमाणवकयोः । शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।

मुख्यार्थस्येतराक्षेपो वाच्यार्थान्वयसिद्धये। पुनः स्वस्यार्पणं वाच्यार्थस्यान्वयसिद्धये॥ स्यादुपादानलक्षणा लक्षणेत्युच्यते बुधैः॥

'मुख्यार्थस्य' इति। वाक्ये स्वान्वयसिद्धये मुख्यार्थेन आक्षिप्यमाणस्येतरस्य अन्वये मुख्यस्याप्यन्वयादुपादानम्। यथा—'कुन्ताः प्रविशन्ति'। अत्र हि कुन्तानां चेतनानामिव प्रवेशक्रियान्वयायोद्धातार आक्षिप्यन्ते, न तु स्वस्य प्रवेशेऽन्वयो निवार्यते।

'पुनः स्वस्यार्पणम्' इति। स्वार्थमर्पयत्वा परस्यान्वयसिद्धिकरणं लक्षणलक्षणा। यथा—'गंगायां घोषः'। अत्र हि प्रवाहरूपस्य मुख्यार्थस्यात्मनः परित्यागः।

विषयस्यात्मनोऽप्यनुपादाने विषयान्तःकृतेऽमुतः। साध्यवसानिका स्यात् सारोपा तूक्तौ द्वयोरेव॥

'विषयस्य' इति। विषयिणा विषयस्यान्तर्निगरणे सत्यात्मनो विषयस्य अनुपादाने 'साध्यवसाना' स्यात्। द्वयोश्च विषयविषयिणोः पृथगुक्तौ 'सारोपा' स्यात्।